14067: पुरोऽव्ययम्

Padacheda: पुरः | S | 0 | 0 |

अव्ययम् | S | 1 | 1 |

Sutrartha

अव्ययसंज्ञकः “पुरस्” इति शब्दः क्रियायोगे गतिसंज्ञकः भवति । यथा - पुरस्कृत्य ।

अष्टाध्याय्यां गतिश्च (1.4.60) इत्यतः जीविकोपनिषदावौपम्ये (1.4.79) इति सूत्रैः गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं अष्टमं सूत्रम् । अनेन सूत्रेण ****अव्ययसंज्ञकस्य <ex>पुरस्</ex> (= पूर्वा दिक्, अग्रे, पूर्वस्मिन् देशे, पूर्वस्मात् देशात् इत्यादिकम् ) इति शब्दस्य क्रियायाः योगे गतिसंज्ञा भवति ** । गतिसंज्ञायां सत्याम् कुगतिप्रादयः (2.2.18) इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - <ex>पुरस्कृत्य गच्छति</ex> (= अग्रे कृत्वा गच्छति इत्याशयः) । एवमेव <ex>पुरस्कारः </ex>, <ex>पुरस्कृतम्</ex> इत्यादयः शब्दाः अपि सिद्ध्यन्ति ।

**पुरस् इति शब्दः**

पूर्व” इति शब्दः यदा दिशावाचके, स्थानवाचके उत कालवाचके अर्थे प्रयुज्यते, तदा तस्य सप्तम्यन्तात्, पञ्चम्यन्तात्, तथा च प्रथमान्तात् रूपात् पूर्वाधरावराणामसि पुरधवश्चैषाम् (5.3.39) अनेन सूत्रेण असि इति तद्धितप्रत्ययः स्वार्थे विधीयते, येन <ex>पुरस्</ex> इति प्रातिपदिकं सिद्ध्यति । तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अस्य अव्ययसंज्ञा अपि सिद्ध्यति । अस्य <ex>पुरस्</ex> शब्दस्य अत्र ग्रहणं कृतम् अस्ति । अस्य शब्दस्य “पूर्वस्मिन स्थाने”, “पूर्वस्यां दिशि”, “पूर्वस्मिन् काले”, “पूर्वस्मात् स्थानात्”, “पूर्वायाः दिशः”, “पूर्वस्मात् कालात्”, “पूर्वं स्थानम्”, “पूर्वा दिक्”, “पूर्वः कालः” - इति भिन्नाः अर्थाः सम्भवन्ति ।

**पुरस्कृत्य इत्यस्य प्रक्रिया**

<ex>पुरस्कृत्य</ex> इति शब्दस्य प्रक्रिया इयम् -

पुरः कृत्वा (वृत्तिः)
--> पुरस् + कृ + क्त्वा [अलौकिकविग्रहः]
--> पुरस् + कृ + ल्यप् [**समासेऽनञ्पूर्वे क्त्वो ल्यप्** (7.1.37)]
--> पुरस् + कृ + तुक् + य [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति तुगागमः]
--> पुरः +  कृत्य [**ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15)]
--> पुरस् + कृत्य [**नमस्पुरसोर्गत्योः** (8.3.40) इत्यनेन गतिसंज्ञकस्य पुरस्-शब्दस्य विसर्गस्य क्-वर्णे परे परे सकारादेशः भवति ]
--> <ex> पुरस्कृत्य</ex>

अत्र प्रक्रियायाम् अन्तिमसोपाने गतिसंज्ञाविशिष्टं नमस्पुरसोर्गत्योः (8.3.40) इति सूत्रं प्रयुक्तम् अस्ति इति विशेषः ।

**अव्ययम् इति किमर्थम् ?**

प्रकृतसूत्रे <hlb>पुरः</hlb> इति शब्दः प्रयुक्तः अस्ति । पुरः इति पुर् (=नगरी) इति रेफान्त-स्त्रीलिङ्ग-प्रातिपदिकस्य द्वितीयाबहुवचनम् अपि अस्ति । अस्य शब्दस्य विषये प्रकृतसूत्रेण गतिसंज्ञा न इष्यते, अपि तु केवलम् अव्ययसंज्ञकस्य <ex>पुरस्</ex> शब्दस्य विषये एव इष्यते, इति स्पष्टीकर्तुम् अत्र अव्ययम् इति शब्दः स्थापितः वर्तते । अतएव <nex>असुराणां पुरः हत्वा इन्द्रः गतः</nex> एतादृशेषु वाक्येषु गतिसमासः न भवति ।

Vasu English Summary

The word पुरः ‘in front of’, when indeclinable and in composition with a verb, is called गति।

Vasu English Translation

The word पुरः ‘in front of’, when indeclinable and in composition with a verb, is called गति। The pronoun पूर्व ‘front’ with the affix असि forms पुरस्, and by (1.1.38) it becomes an Avyaya. (See (5.3.39) pur being substituted for purva). The object by making it gati is threefold (1) compounding by (2.2.18) (2) accent by (6.2.49) (3) to change the : h into स् by (8.3.40). As पुरस्कृत्य, पुरस्कृतम् and यत् पुरस्करोति, when not an indeclinable we have पूः, पुरौ, पुरः कृत्वा काण्डंगतः.

Kashika

असिप्रत्ययान्तः पुरः शब्दोऽव्ययम्, स गतिसंज्ञो भवति। समासस्वरोपचाराः प्रयोजनम्। पुरस्कृत्य। पुरस्कृ॑तम्। यत् पु॑रस्क॒रोति॑। अव्ययमिति किम्? पूः, पुरौ। पुरः कृत्वा गतः॥

Siddhanta Kaumudi

पुरस्कृत्य ॥

Balamanorama

पुरोऽव्ययम् - पुरोऽव्ययं । पुर इत्यव्ययं गतिसंज्ञकं स्यात् । पुरस्कृत्येति । गतिसमासे क्त्वो ल्यप् । अव्ययं किम् । पुरम्, पुरौ, पुरः कृत्वा गतः ।

Tattvabodhini

पुरोऽव्ययम् - पुरस्कृत्येति ।पूर्वधरावराणा॑मित्यसिप्रत्ययान्तोऽयमव्ययम् ।नमस्पुरसो॑रिति विसर्गस्य सः ।अमुं परः पश्यसी॑त्यत्र तु॒ स्थित॑मित्यध्याहारेण दृशि प्रत्ययतित्वात्सत्वाऽभावः । अव्ययं किम् । पुरं पुरौ पुरः कृत्वा गतः । अस्तं च । अवययमिति किम् । अस्तं कृत्वा काण्डं गतः । क्षिप्तमित्यर्थः ।

Padamanjari

असिप्रत्ययान्तः पुरः शब्दोऽव्ययमिति।’पूर्वाधरावाराणामसिपुरधवश्चैषाम्’ इत्यसिप्रत्ययः, पूर्वशब्दस्य पुरादेशः,’तद्धितश्चासर्वविभक्ति’ इत्यव्ययसंज्ञा, विसर्जनीयस्थानिकः सकार उपचारः। पुरस्कृत्येति। पूर्वस्मिन्देशे कृत्वेत्यर्थः। पूः पुरौ, पुरः कृत्वेति। एतदत्र प्रत्युदाहरणम्। इतरयोस्तूपन्यासस्तत्साहचर्यात्पुर इति शसन्तम्, नाव्ययमिति प्रदर्शनार्थः। अत्र’नमस्पुरसोर्गत्योः’ इति सत्वं न भवति, समासश्च न भवति॥

Nyaas

पुरस्कृत्य इति। पूर्वस्माद्देशागत इत्यस्मिन्नर्थे पूर्वाधरावराणामसि पुरधवश्चैषाम् (5.3.39) इत्यसिप्रत्ययः पूर्वशब्दस्य च पुरादेशः। तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यव्ययसंज्ञा विसर्जनीयस्थानिकस्य सकारस्योपचार इत्येषा संज्ञा पूर्वाचार्यप्रणीता। नमस्पुरसोर्गत्योः (8.3.40) इति सकारः।पूः पुरौ, पुरः कृत्वा गतः इति। पुरः कृत्वेतीदं प्रत्युदाहरण्। पूः परावित्येतयोस्तूपन्यसस्तत्साहचर्येण पुरःशब्दस्यानव्ययत्वप्रदर्शनार्थः। पृ? पालनपूरणयोः (धातुपाठः-1489), भ्राजभ्रास (3.2.177) इत्यादिना। क्विप्। उदोष्ठपूर्वस्य (7.1.102) इत्युक्तम्, रपरत्वञ्च। गतिसंज्ञाया अभावादिह समासादि कार्यं न भवति। नमस्पुरसोर्गत्योः (8.3.40) इति विसर्जनीयस्य सकारोऽपि न भवति। ननु च यद्यत्र गतिसंज्ञा स्यात् गतिसमासे कृते सुपो निवृत्त्या भवितव्यम्, तदा पुर इति रूपं न स्यात्; असति तस्मिन् संज्ञाऽपि निवर्तते, नैतदस्ति; यद्यपि विभक्तौ निवृत्तायां पुर इति रूपं न स्यात्, नैवं संज्ञा निवर्तते; एकदेशविकृतस्यानन्यत्वात् (व्या।प।16)॥

Praudhamanorama

पुरोऽव्ययम् ॥ पुरस्कृत्येति । ‘नमस्पुरसोरि’ति सत्वम् । कथं तर्हि ‘अमुं पुरः पश्यसि देवदारुमि’ति । ‘स्थितमि’त्यध्याहारेण दृशिं प्रत्यगतित्वात् । एतेन ‘तस्य स्थित्वा कथमपि पुरः कौतुकाऽऽधान हेतोरि’ति व्याख्यातम् ।

Prakriyasarvasvam

पुर इत्यव्ययं गतिः ॥

Sutra Prayogas

  • पुरस्कृत्य (कुमारसम्भवम्): पुरोऽव्ययम् इति गतित्वात्।

  • पुरस्-कृतान् (भट्टिकाव्यम्): पुरो ऽव्ययम् इति गतिसंज्ञा।