14067: पुरोऽव्ययम्
==================
**Padacheda:** पुरः | S | 0 | 0 |
अव्ययम् | S | 1 | 1 |
Sutrartha
---------
**अव्ययसंज्ञकः "पुरस्" इति शब्दः क्रियायोगे गतिसंज्ञकः भवति । यथा - पुरस्कृत्य ।**
अष्टाध्याय्यां **गतिश्च** (1.4.60) इत्यतः **जीविकोपनिषदावौपम्ये** (1.4.79) इति सूत्रैः **गति**संज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं अष्टमं सूत्रम् । अनेन सूत्रेण ****अव्ययसंज्ञकस्य पुरस्** (= पूर्वा दिक्, अग्रे, पूर्वस्मिन् देशे, पूर्वस्मात् देशात् इत्यादिकम् ) **इति शब्दस्य क्रियायाः योगे गतिसंज्ञा भवति** ** । गतिसंज्ञायां सत्याम् **कुगतिप्रादयः** (2.2.18) इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - पुरस्कृत्य गच्छति (= अग्रे कृत्वा गच्छति इत्याशयः) । एवमेव पुरस्कारः , पुरस्कृतम् इत्यादयः शब्दाः अपि सिद्ध्यन्ति ।
****पुरस्** इति शब्दः**
"**पूर्व**" इति शब्दः यदा **दिशावाचके**, **स्थानवाचके** उत **कालवाचके** अर्थे प्रयुज्यते, तदा तस्य **सप्तम्यन्तात्**, **पञ्चम्यन्तात्**, तथा च **प्रथमान्तात्** रूपात् **पूर्वाधरावराणामसि पुरधवश्चैषाम्** (5.3.39) अनेन सूत्रेण **असि** इति तद्धितप्रत्ययः स्वार्थे विधीयते, येन पुरस् इति प्रातिपदिकं सिद्ध्यति । **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यनेन अस्य अव्ययसंज्ञा अपि सिद्ध्यति । अस्य पुरस् शब्दस्य अत्र ग्रहणं कृतम् अस्ति । अस्य शब्दस्य "पूर्वस्मिन स्थाने", "पूर्वस्यां दिशि", "पूर्वस्मिन् काले", "पूर्वस्मात् स्थानात्", "पूर्वायाः दिशः", "पूर्वस्मात् कालात्", "पूर्वं स्थानम्", "पूर्वा दिक्", "पूर्वः कालः" - इति भिन्नाः अर्थाः सम्भवन्ति ।
****पुरस्कृत्य** इत्यस्य प्रक्रिया**
पुरस्कृत्य इति शब्दस्य प्रक्रिया इयम् -
.. code-block:: text
पुरः कृत्वा (वृत्तिः)
--> पुरस् + कृ + क्त्वा [अलौकिकविग्रहः]
--> पुरस् + कृ + ल्यप् [**समासेऽनञ्पूर्वे क्त्वो ल्यप्** (7.1.37)]
--> पुरस् + कृ + तुक् + य [**ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति तुगागमः]
--> पुरः + कृत्य [**ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15)]
--> पुरस् + कृत्य [**नमस्पुरसोर्गत्योः** (8.3.40) इत्यनेन गतिसंज्ञकस्य पुरस्-शब्दस्य विसर्गस्य क्-वर्णे परे परे सकारादेशः भवति ]
--> पुरस्कृत्य
अत्र प्रक्रियायाम् अन्तिमसोपाने गतिसंज्ञाविशिष्टं **नमस्पुरसोर्गत्योः** (8.3.40) इति सूत्रं प्रयुक्तम् अस्ति इति विशेषः ।
****अव्ययम्** इति किमर्थम् ?**
प्रकृतसूत्रे पुरः इति शब्दः प्रयुक्तः अस्ति । **पुरः** इति **पुर्** (=नगरी) इति रेफान्त-स्त्रीलिङ्ग-प्रातिपदिकस्य द्वितीयाबहुवचनम् अपि अस्ति । अस्य शब्दस्य विषये प्रकृतसूत्रेण गतिसंज्ञा न इष्यते, अपि तु केवलम् अव्ययसंज्ञकस्य पुरस् शब्दस्य विषये एव इष्यते, इति स्पष्टीकर्तुम् अत्र **अव्ययम्** इति शब्दः स्थापितः वर्तते । अतएव असुराणां पुरः हत्वा इन्द्रः गतः एतादृशेषु वाक्येषु गतिसमासः न भवति ।
Vasu English Summary
--------------------
The word पुरः 'in front of', when indeclinable and in composition with a verb, is called गति।
Vasu English Translation
------------------------
The word पुरः 'in front of', when indeclinable and in composition with a verb, is called गति।
The pronoun पूर्व 'front' with the affix असि forms पुरस्, and by (1.1.38) it becomes an *Avyaya*. (See (5.3.39) *pur* being substituted for *purva*). The object by making it *gati* is threefold (1) compounding by (2.2.18) (2) accent by (6.2.49) (3) to change the : *h* into स् by (8.3.40). As पुरस्कृत्य, पुरस्कृतम् and यत् पुरस्करोति, when not an indeclinable we have पूः, पुरौ, पुरः कृत्वा काण्डंगतः.
Kashika
-------
असिप्रत्ययान्तः पुरः शब्दोऽव्ययम्, स गतिसंज्ञो भवति। समासस्वरोपचाराः प्रयोजनम्। पुरस्कृत्य। पुरस्कृ॑तम्। यत् पु॑रस्क॒रोति॑। अव्ययमिति किम्? पूः, पुरौ। पुरः कृत्वा गतः॥
Siddhanta Kaumudi
-----------------
पुरस्कृत्य ॥
Balamanorama
------------
**पुरोऽव्ययम्** - पुरोऽव्ययं । पुर इत्यव्ययं गतिसंज्ञकं स्यात् । पुरस्कृत्येति । गतिसमासे क्त्वो ल्यप् । अव्ययं किम् । पुरम्, पुरौ, पुरः कृत्वा गतः ।
Tattvabodhini
-------------
**पुरोऽव्ययम्** - पुरस्कृत्येति ।पूर्वधरावराणा॑मित्यसिप्रत्ययान्तोऽयमव्ययम् ।नमस्पुरसो॑रिति विसर्गस्य सः ।अमुं परः पश्यसी॑त्यत्र तु॒ स्थित॑मित्यध्याहारेण दृशि प्रत्ययतित्वात्सत्वाऽभावः । अव्ययं किम् । पुरं पुरौ पुरः कृत्वा गतः । अस्तं च । अवययमिति किम् । अस्तं कृत्वा काण्डं गतः । क्षिप्तमित्यर्थः ।
Padamanjari
-----------
असिप्रत्ययान्तः पुरः शब्दोऽव्ययमिति।'पूर्वाधरावाराणामसिपुरधवश्चैषाम्' इत्यसिप्रत्ययः, पूर्वशब्दस्य पुरादेशः,'तद्धितश्चासर्वविभक्ति' इत्यव्ययसंज्ञा, विसर्जनीयस्थानिकः सकार उपचारः। पुरस्कृत्येति। पूर्वस्मिन्देशे कृत्वेत्यर्थः। पूः पुरौ, पुरः कृत्वेति। एतदत्र प्रत्युदाहरणम्। इतरयोस्तूपन्यासस्तत्साहचर्यात्पुर इति शसन्तम्, नाव्ययमिति प्रदर्शनार्थः। अत्र'नमस्पुरसोर्गत्योः' इति सत्वं न भवति, समासश्च न भवति॥
Nyaas
-----
`पुरस्कृत्य` इति। पूर्वस्माद्देशागत इत्यस्मिन्नर्थे `पूर्वाधरावराणामसि पुरधवश्चैषाम्` (5.3.39) इत्यसिप्रत्ययः पूर्वशब्दस्य च पुरादेशः। **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यव्ययसंज्ञा विसर्जनीयस्थानिकस्य सकारस्योपचार इत्येषा संज्ञा पूर्वाचार्यप्रणीता। **नमस्पुरसोर्गत्योः** (8.3.40) इति सकारः।`पूः पुरौ, पुरः कृत्वा गतः` इति। पुरः कृत्वेतीदं प्रत्युदाहरण्। पूः परावित्येतयोस्तूपन्यसस्तत्साहचर्येण पुरःशब्दस्यानव्ययत्वप्रदर्शनार्थः। `पृ? पालनपूरणयोः` (धातुपाठः-1489), `भ्राजभ्रास` (3.2.177) इत्यादिना। क्विप्। `उदोष्ठपूर्वस्य` (7.1.102) इत्युक्तम्, रपरत्वञ्च। गतिसंज्ञाया अभावादिह समासादि कार्यं न भवति। **नमस्पुरसोर्गत्योः** (8.3.40) इति विसर्जनीयस्य सकारोऽपि न भवति। ननु च यद्यत्र गतिसंज्ञा स्यात् गतिसमासे कृते सुपो निवृत्त्या भवितव्यम्, तदा पुर इति रूपं न स्यात्; असति तस्मिन् संज्ञाऽपि निवर्तते, नैतदस्ति; यद्यपि विभक्तौ निवृत्तायां पुर इति रूपं न स्यात्, नैवं संज्ञा निवर्तते; एकदेशविकृतस्यानन्यत्वात् (व्या।प।16)॥
Praudhamanorama
---------------
पुरोऽव्ययम् ॥ **पुरस्कृत्येति ।** ‘नमस्पुरसोरि’ति सत्वम् । कथं तर्हि ‘अमुं पुरः पश्यसि देवदारुमि’ति । ‘स्थितमि’त्यध्याहारेण दृशिं प्रत्यगतित्वात् । एतेन ‘तस्य स्थित्वा कथमपि पुरः कौतुकाऽऽधान हेतोरि’ति व्याख्यातम् ।
Prakriyasarvasvam
-----------------
पुर इत्यव्ययं गतिः ॥
Sutra Prayogas
--------------
* **पुरस्कृत्य** (कुमारसम्भवम्): `पुरोऽव्ययम्` इति गतित्वात्।
* **पुरस्-कृतान्** (भट्टिकाव्यम्): `पुरो ऽव्ययम्` इति गतिसंज्ञा।