14054: स्वतन्त्रः कर्ता

Padacheda: स्वतन्त्रः | S | 1 | 1 |

कर्ता | S | 1 | 1 |

Sutrartha

क्रियासिद्धौ प्राधान्येन विवक्षितं कारकं कर्तृसंज्ञकं भवति । यथा - देवदत्तेन पच्यते ।

कारके (1.4.23) इत्यस्मिन् अधिकारे याभ्याम् द्वाभ्याम् सूत्राभ्याम् कर्तृसंज्ञायाः विधानम् क्रियते, ताभ्याम् इदं प्रथमं सूत्रम् ।** क्रियायाः सिद्धौ यत् कारकं प्राधान्येन विवक्ष्यते, तस्य कर्ता इति संज्ञा भवति ** - इति अस्य सूत्रस्य अर्थः । यथा, पचनक्रियायाम् “स्थाली”, “महानसः”, “अग्निः”, “ओदनः”, “देवदत्तः” इत्यादि भिन्नानि साधनानि आवश्यकानि वर्तन्ते । एतेषु “देवदत्तः” इति प्रधानकारकम् अस्ति, यतः देवदत्तः एव अन्यानि साधनानि उपयुज्य पचनक्रियां करोति । किञ्च, देवदत्तस्य अनुपस्थितौ अन्यानि साधकानि स्वयं पचनक्रियां कर्तुं नैव समर्थानि सन्ति । अतः अत्र देवदत्तस्य पचनक्रियायाः सन्दर्भेण प्रधानत्वम् ( = स्वतन्त्रत्वम्) स्वीकृत्य तस्य प्रकृतसूत्रेण कर्तृसंज्ञा भवति । एतादृशः कर्ता तिङ्-इत्यादिभिः अनभिहितः अस्ति चेत् तस्य निर्देशार्थम् कर्तृकरणयोस्तृतीया (2.3.18) इत्यनेन तृतीयायाः प्रयोगं कृत्वा <ex>देवदत्तेन पच्यते</ex>, <ex> देवदत्तेन पक्वम्</ex> इति प्रयोगाः सिद्ध्यन्ति । परन्तु यदि एतादृशः कर्ता तिङ्-इत्यादिभिः अभिहितः वर्तते, तर्हि तस्य निर्देशार्थम् **प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ** (2.3.46) इत्यनेन प्रथमाविभक्तेः प्रयोगं कृत्वा <ex>देवदत्तः पचति</ex> इति प्रयोगः सिद्ध्यति ।

प्राधान्यं विवक्षाधीनम्

क्रियापूर्त्यर्थम् आवश्यकेभ्यः भिन्नेभ्यः साधनेभ्यः “किं साधनं प्रधानम् अस्ति” इत्यस्य निर्णयः प्रायेण विवक्षया भवति । किञ्च इयं विवक्षा क्रियायाः पृथक् पृथक् अवगमनेन सम्भवति । इत्युक्ते, पचनक्रियायाः अवगमनम् यदि - तण्डुलाः आदौ स्थाल्यां स्थापनीयाः, ततः स्थाली चुल्ह्यां स्थापनीया, अग्निः प्रज्वालनीयः - इत्यादिप्रकारेण भवति, तर्हि एतस्य व्यापारस्य प्रधानं कारकं “देवदत्तः” भवेत् यतोहि सः एव एतं व्यापारं कुर्यात् । परन्तु, पचनक्रियायाः अवगमनम् यदि -इन्धनज्वलनेन ऊर्जानिर्माणम्, ततश्च तया ऊर्जया तण्डुलानां विक्लित्तिः साधनीया - इत्थं क्रियते, तर्हि तत्र अस्य व्यापारस्य प्रधानं कारकम् “अग्निः” भवेत्, यतोऽहि इन्धनज्वलनेन ऊर्जानिर्माणस्य व्यापारं तु अग्निः करोति । एतादृशे अग्नौ कर्तृत्वे स्वीकृते <ex>अग्निः पचति</ex> इति प्रयोगः सिद्ध्यति । एवमेव यदि पचनक्रियायाः अवगमनम् - एकं द्रोणं यावत् तण्डुलान् जले संस्थाप्य, तस्य जलस्य आधारेण तण्डुलविक्लित्तिः - इति क्रियते, तर्हि अस्य व्यापारस्य प्रधानं कारकम् “स्थाली” स्यात्, यतोऽहि तण्डुलान् जलं च सा स्वस्मिन् संस्थाप्य तेभ्यः ओदनं निर्माति । अनया विवक्षया <ex>स्थाली पचति</ex> इति प्रयोगः अपि सिद्ध्यति । एतादृशं, क्रियायाः अवगमने भेदं परिकल्प्य भिन्नानां साधनानाम् कर्तृत्वं ज्ञापयितुम् शक्यते ** ।**कारके (1.4.23) इत्यत्र भाष्यकारः अमुम् एव विषयम् स्पष्टीकुर्वन् ब्रूते - <source> सिद्धं तु प्रतिकारकं क्रियाभेदात् पचादीनां करणा-अधिकरणयोः कर्तृभावः ।… पचादीनां तु प्रतिकारकं क्रिया भिद्यते । .. कः असौ प्रतिकारकं क्रियाभेदः पचादीनाम् ? …अधिश्रयण-उदकासेचन-तण्डुलावपन-एधोपकर्षणादिक्रियाः कुर्वन्नेव देवदत्तः पचतीत्युच्यते । एष प्रधानस्य कर्तुः पाकः ॥ द्रोणं पचति आढकं पचति इति सम्भवनक्रियां धारणक्रियां च कुर्वती स्थाली पचतीत्युच्यते । एषः अधिकरणस्य पाकः । … “एधाः पक्ष्यन्त्याः विक्लितेः ज्वलिष्यन्ति” इति ज्वलनक्रियां कुर्वन्ति काष्ठानि पचन्ति इत्युच्यन्ते । एष करणस्य पाकः ॥ </source> अत्र भाष्यकारेण प्रतिकारकं **क्रियाभेदात् करणस्य, अधिकरणस्य अपि कर्तृत्वं भवति** इति वर्णितम् अस्ति । एतादृशे कर्तृत्वे सिद्धे, <ex>देवदत्तः पचति</ex>, <ex>स्थाली पचति</ex> तथा च <ex>अग्निः पचति</ex> इत्येते भिन्नाः प्रयोगाः सम्भवन्ति - इति अत्र भाष्यस्य आशयः अस्ति ।

Vasu English Summary

Whatever the speaker chooses as the independent, principal and absolute source of action is called कर्ता or agent.

Vasu English Translation

Whatever the speaker chooses as the independent, principal and absolute source of action is called कर्ता or agent. The agent is absolute and unconditioned, as, देवदत्तः पचति Devadatta cooks. स्थाली पचति the pot cooks.

Bhashya

स्वतन्त्रः कर्ता किं यस्य स्वं तन्त्रं स स्वतन्त्रः ? किं चातः ? तन्तुवाये प्राप्नोति । नैष दोषः । अयं तन्त्रशब्दोऽस्त्येव विताने वर्तते । तद्यथा, - आस्तीर्णं तन्त्रम्, प्रोतं तन्त्रमिति । वितानमिति गम्यते । अस्ति प्राधान्ये वर्तते । तद्यथा, - स्वतन्त्रोऽसौ ब्राह्मण इत्युच्यते । स्वप्रधान इति गम्यते । तद्यः प्राधान्ये वर्तते तन्त्रशब्दस्तस्येदं ग्रहणम् । स्वतन्त्रस्य कर्तृसंज्ञायां हेतुमत्युपसंख्यानमस्वतन्त्रत्वात् ॥ 1 ॥ स्वतन्त्रस्य कर्तृसंज्ञायां हेतुमत्युपसंख्यानं कर्तव्यम् । पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति । किं पुनः कारणं न सिध्यति ? अस्वतन्त्रत्वात् । न वा स्वातन्त्र्यादितरथा ह्यकुर्वत्यपि कारयतीति स्यात् ॥ 2 ॥ न वा कर्तव्यम् । किं कारणम् ? स्वातन्त्र्यात् । स्वतन्त्रोऽसौ भवति । इतरथा ह्यकुर्वत्यपि कारयतीति स्यात् यो हि मन्यते - नाऽसौ स्वतन्त्रः, अकुर्वत्यपि तस्य कारयतीत्येतत्स्यात् । नाऽकुर्वतीति चेत्स्वतन्त्रः ॥ 3 ॥ न चेदमकुर्वति तस्मिन्कारयतीत्येतद्भवति, स्वतन्त्रोऽसौ भवति । शक्यं तावदनेनोपसंख्यानं कुर्वता वक्तुं - कुर्वन्स्वतन्त्रोऽकुर्वन्नेति । साधीयो ज्ञापकं भवति । प्रेषिते च किलायं क्रियां चाऽक्रियां च दृष्ट्वाऽध्यवस्यति कुर्वन्स्वतन्त्रोऽकुर्वन्नेति । यदि च प्रेषितोऽसौ न करोति स्वतन्त्रोऽसौ भवतीति ॥ 54 ॥

Kashika

स्वतन्त्र इति प्रधानभूत उच्यते, अगुणभूतः। यः क्रियासिद्धौ स्वातन्त्र्येण विवक्ष्यते, तत् कारकं कर्तृसंज्ञं भवति। देवदत्तः पचति। स्थाली पचति। कर्तृप्रदेशाः — कर्तृकरणयोस्तृतीया (२.३.१८) इत्येवमादयः॥

Siddhanta Kaumudi

क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥

Laghu Siddhanta Kaumudi

क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात्॥

Balamanorama

स्वतन्त्रः कर्त्ता - अथ तृतीया । स्वतन्त्रः कर्ता । कारकाधिकारात्क्रियाजनने स्वातन्त्र्यमिह विवक्षितमित्याह — क्रियायामिति । स्वातन्त्र्यमिह प्राधान्यमिति भाष्ये स्पष्टम् । ननु स्थाली पचतीत्यादौ कथं स्थाल्यादीनां कर्तृत्वं, स्वातन्त्र्याऽभावादित्यत आह — विवक्षितोऽर्थ इति ।विवक्षातः कारकाणि भवन्ती॑ति भाष्यादिति भावः । स्वातन्त्र्यं च धात्वर्थव्यापाराश्रयत्वम् । फलानुकूलव्यापारो धात्वर्थः । तत्र पचतीत्यत्र विक्लित्रिरूपफलाश्रये तण्डुलेऽतिव्याप्तिवारणाय व्यापारेति । उक्तं च हरिणा — ॒धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ।॑इति । धातूपात्तव्यापारवतीत्यर्थः ।

Tattvabodhini

स्वतन्त्रः कर्त्ता - स्वतन्त्रः कर्ता । प्रधानभूतधात्वर्थाश्रयत्वं स्वातन्त्र्यम् । आह च — ॒धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते॑इति । स्थाल्यादीनां वस्तुतः स्वातन्त्र्याऽभावेऽपिस्थाली पचति काष्ठानि पचन्ती॑त्यादिप्रयोगोऽपि साधुरेवेति ध्वनयति -विवक्षितोऽर्थ इति ।

Padamanjari

स्वतन्त्रशब्दोऽयं तन्तुवायवचनोऽप्यस्ति - स्वं तन्त्रमस्य स्वतन्त्रः, विततास्तन्तवस्स्वतन्त्रमित्युच्यते; अस्ति च साधारणद्रव्ये पुरुषे वर्तते साधारणं भवेतन्त्रम्, स्वं धनं तन्त्रं साधारणमस्य स्वतन्त्रः; अस्ति च प्रधानवचनः- स्व आत्मा तन्त्रं प्रधानमस्य स्वतन्त्र इति। तत्राद्ययोर्ग्रहणे तयोरपादानादिविषये कर्तृसंज्ञा स्यात्, परत्वाद्विशेषविहितत्वाच्च तन्तुवायादागच्छतीत्यादौ; इह च न स्यात्-देवदतो गच्छतीति, इदमाद्ययोर्ग्रहणे दोषं द्दष्ट्वा तृतीयमर्थमाश्रित्याह - स्वतन्त्र इति। प्रधानभूत उच्यत इति। स्वतन्त्रशब्दस्य तत्रैव प्रसिद्धतरत्वादिति भावः। किं च कारकधिकारात् क्रियाविषयं स्वातन्त्र्यं गृह्यते, न च तन्तुवायस्तन्तुवायतया क्रियायामुपयुज्यते, किं तर्हि? प्रधानतयैवेति तद्वाचिन एव ग्रहणं युक्तम्। यदि प्रधानभूत उच्यते, एवं सत्यप्रधानापेक्षत्वात् प्रधानभावस्य यत्राधिकरणादीन्यप्रधानानि कारकाणि सन्ति - काष्ठ्èअः स्थाल्यामोदनं पचतीति अत्रैवः स्यात्; न त्वास्ते शेते इत्यादावित्यशङ्क्य प्राधान्येनागुणभावो लक्ष्यत इति दर्शयति - अगुणीभूत इति। तेन यस्य गुणभावो नास्ति, स कर्ता। कारकान्तराविवक्षायामप चागुणिभावोऽस्त्येव। कः पुनरत्र कारकाणां गुणगुणिभावः? यदा एकापायेऽपि क्रिया न निर्वर्तते, उक्तमत्र - प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि। तदधीनप्रवृत्तित्वात् प्रवृतानां निवर्तनात्॥ अद्दष्टत्वात्प्रतिनिधेः प्रविवेकेऽपि दर्शनात्। आरादप्युपकारित्वात् स्वातन्त्र्यं कर्तुरिष्यते ॥ इति। काष्ठादीनि कर्त्रा प्रवर्तितानि करणादिशक्तिं प्रतिलभन्ते, कर्ता तु प्रागेव। कर्तृ संनिधौ च करणादिनि न्यग्भवन्ति, तदधीने च तेषां प्रवृत्तिनिवृती। प्रधानकर्तृश्च प्रतिनिधिर्न द्दष्टः, करणादीनां तु द्दष्टः-व्रीह्यपचारे नीवारैरिज्यते। प्रविवेकःउ अभावः। करणाद्यभावेऽप्यास्ते, शेते इत्यादौ केवलः कर्ता द्दश्यते, न तु कर्तुरभावे करणादीनि द्दश्यन्ते। आरादप्युपकारित्वादिति। यद्यप्यसौ तटस्थः फलसिद्धावुपकरोति, न तु करणादिवदनुप्रविश्य तथापीत्यर्थः। एतच्च प्रायेण चेतनेष्वेव सम्भवति, नाचेतनेषु - रथो यातीत्यादौ, नैष दोषः; उक्तलक्षणे कर्तरि द्वयं द्दष्टम् - प्रधान्यम्,आगुणभावश्च। तत्रागुणभावः अचेतनेषु चेतनेष्वपि सम्भवति। स चायमगुणभावो न प्रतिनियतविषयः, यस्यैव तु विवक्ष्यते, तस्यैवेत्याह - स्वातन्त्र्येण विवक्ष्यत इति। विवक्ष्यत इत्यस्योदाहरणम् - स्थाली पचतीति। अन्ये तु व्याचक्षते - अगुणभावेनाभिधीयमानव्यापारो गुणभूतो गुणभूतधातूपातव्यापारः कर्तेत्यर्थः। कस्य च व्यापारो धातुनाऽगुणभावेनोपादीयते? यस्य विवक्ष्यते तस्येति सर्वत्र सिद्धमिति॥

Nyaas

अस्त्ययं स्वतन्तरशब्दो बहुव्रीहिः। स्वं तन्त्रं यस्य स स्वतन्त्रः। अस्ति च समासप्रतिरूपको रूढिशब्दः, प्रधानार्थवृत्तिः, यथा - स्वतन्त्रोऽयमिह देवदत्त इति, प्रधानभूत इति गम्यते। तत्र यदि पूर्वो गृह्रेत तदा तन्तुवायस्यैव स्यात्; विस्तृता हि तन्तवस्तन्त्रम्, तच्च तन्तुवायस्यैवास्ति। देवदत्तः पचतीत्यादौ न स्यात्। इतरस्य तु ग्रहणे सर्वत्र भवति। तस्मात् व्याप्तेन्र्यायात् स एव गृह्रत इति मत्वाह - स्वतन्त्र इति प्रधानभूतः इति। यद्येवमप्रधानमपेक्ष्य प्रधानमुच्यत इति यत्राधिकरणादीन्यपराण्यप्रधानानि कारकाणि सन्ति, देवदत्तः काष्ठैरग्निनोदनं स्थाल्यां पचतीत्यादौ तत्रैव स्यात्। यत्र तु तेषामविवक्षा - आस्ते देवदत्तः, शेते देवदत्त इत्यादौ, तत्र न स्यादिति यो देशयेत् तं प्रत्याह - अगुणभूतः इति। एवं मन्यते - प्रधानेनागुणभाव उपलक्ष्यते। गुणभावो यत्र नास्ति स कर्तेति। कारकान्तराविवक्षायामप्यगुणभावोऽस्त्येवेति सर्वत्र भवति। ननु च सामग्र्यधीना हि क्रियासिद्धिः, एकस्याप्यभावे न सिध्यति, तत् कस्यात्र प्राधान्यं यत्परिग्रहाय स्वतन्त्रग्रहणं क्रियते? इत्याह - यः क्रियासिद्धौ इत्यादि। यद्यपि क्रिय#आसिद्धौ सर्वेषां व्यापारः, तथापि स्वातन्त्र्यं यस्य विवक्ष्यते स एव स्वतन्त्र इत्युत्यते, नान्य इति। देवदत्तः पचतीत्यत्र देवदत्तः कर्त्तृसंज्ञकत्वात् कर्त्तृप्रत्ययेनोच्यते लकारेण॥

Praudhamanorama

प्रधानीभूतधात्वर्थं प्रति आश्रयत्वं स्वातन्त्र्यम्। आह च- धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ॥ इति।

Prakriyasarvasvam

क्रियायां स्वातन्त्र्येण विवक्षितः कर्ता स्यात् ॥

Sudha

** स्वतन्त्रः कर्तेति । ** कारकाधिकारात् क्रियाजनने स्वातन्त्र्यमिह विवक्षितमित्याह - क्रियायामिति । स्वातन्त्र्यमिह प्राधान्यम् इति भाष्ये स्पष्टम् । ननु “स्थाली पचति” इत्यादौ कथं स्थाल्यादीनां कर्तृत्वम्, स्वातन्त्र्याभावादित्यत आह - ** विवक्षितोऽर्थ इति । ** विवक्षातः कारकाणि भवन्ति इति भाष्यादिति भावः । स्वातन्त्र्यञ्च धात्वर्थव्यापाराश्रयत्वम् ।