14054: स्वतन्त्रः कर्ता ======================= **Padacheda:** स्वतन्त्रः | S | 1 | 1 | कर्ता | S | 1 | 1 | Sutrartha --------- **क्रियासिद्धौ प्राधान्येन विवक्षितं कारकं कर्तृसंज्ञकं भवति । यथा - देवदत्तेन पच्यते ।** **कारके** (1.4.23) इत्यस्मिन् अधिकारे याभ्याम् द्वाभ्याम् सूत्राभ्याम् कर्तृसंज्ञायाः विधानम् क्रियते, ताभ्याम् इदं प्रथमं सूत्रम् ।** क्रियायाः सिद्धौ यत् कारकं **प्राधान्येन** विवक्ष्यते, तस्य **कर्ता** इति संज्ञा भवति ** - इति अस्य सूत्रस्य अर्थः । यथा, पचनक्रियायाम् "स्थाली", "महानसः", "अग्निः", "ओदनः", "देवदत्तः" इत्यादि भिन्नानि साधनानि आवश्यकानि वर्तन्ते । एतेषु "देवदत्तः" इति **प्रधानकारकम्** अस्ति, यतः देवदत्तः एव अन्यानि साधनानि उपयुज्य पचनक्रियां करोति । किञ्च, देवदत्तस्य अनुपस्थितौ अन्यानि साधकानि स्वयं पचनक्रियां कर्तुं नैव समर्थानि सन्ति । अतः अत्र देवदत्तस्य पचनक्रियायाः सन्दर्भेण **प्रधानत्वम्** ( = स्वतन्त्रत्वम्) स्वीकृत्य तस्य प्रकृतसूत्रेण कर्तृसंज्ञा भवति । एतादृशः कर्ता तिङ्-इत्यादिभिः अनभिहितः अस्ति चेत् तस्य निर्देशार्थम् **कर्तृकरणयोस्तृतीया** (2.3.18) इत्यनेन तृतीयायाः प्रयोगं कृत्वा देवदत्तेन पच्यते, देवदत्तेन पक्वम् इति प्रयोगाः सिद्ध्यन्ति । परन्तु यदि एतादृशः कर्ता तिङ्-इत्यादिभिः अभिहितः वर्तते, तर्हि तस्य निर्देशार्थम् **प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ** (2.3.46) इत्यनेन प्रथमाविभक्तेः प्रयोगं कृत्वा देवदत्तः पचति इति प्रयोगः सिद्ध्यति । **प्राधान्यं विवक्षाधीनम्** क्रियापूर्त्यर्थम् आवश्यकेभ्यः भिन्नेभ्यः साधनेभ्यः "किं साधनं प्रधानम् अस्ति" इत्यस्य निर्णयः प्रायेण **विवक्षया** भवति । किञ्च इयं विवक्षा **क्रियायाः पृथक् पृथक् अवगमनेन** सम्भवति । इत्युक्ते, पचनक्रियायाः अवगमनम् यदि - *तण्डुलाः आदौ स्थाल्यां स्थापनीयाः, ततः स्थाली चुल्ह्यां स्थापनीया, अग्निः प्रज्वालनीयः* - इत्यादिप्रकारेण भवति, तर्हि एतस्य व्यापारस्य प्रधानं कारकं "देवदत्तः" भवेत् यतोहि सः एव एतं व्यापारं कुर्यात् । परन्तु, पचनक्रियायाः अवगमनम् यदि -*इन्धनज्वलनेन ऊर्जानिर्माणम्, ततश्च तया ऊर्जया तण्डुलानां विक्लित्तिः साधनीया* - इत्थं क्रियते, तर्हि तत्र अस्य व्यापारस्य प्रधानं कारकम् "अग्निः" भवेत्, यतोऽहि इन्धनज्वलनेन ऊर्जानिर्माणस्य व्यापारं तु अग्निः करोति । एतादृशे अग्नौ कर्तृत्वे स्वीकृते अग्निः पचति इति प्रयोगः सिद्ध्यति । एवमेव यदि पचनक्रियायाः अवगमनम् - *एकं द्रोणं यावत् तण्डुलान् जले संस्थाप्य, तस्य जलस्य आधारेण तण्डुलविक्लित्तिः* - इति क्रियते, तर्हि अस्य व्यापारस्य प्रधानं कारकम् "स्थाली" स्यात्, यतोऽहि तण्डुलान् जलं च सा स्वस्मिन् संस्थाप्य तेभ्यः ओदनं निर्माति । अनया विवक्षया स्थाली पचति इति प्रयोगः अपि सिद्ध्यति । एतादृशं, **क्रियायाः अवगमने भेदं परिकल्प्य भिन्नानां साधनानाम् कर्तृत्वं ज्ञापयितुम् शक्यते ** ।**कारके** (1.4.23) इत्यत्र भाष्यकारः अमुम् एव विषयम् स्पष्टीकुर्वन् ब्रूते - सिद्धं तु प्रतिकारकं क्रियाभेदात् पचादीनां करणा-अधिकरणयोः कर्तृभावः ।... पचादीनां तु प्रतिकारकं क्रिया भिद्यते । .. कः असौ प्रतिकारकं क्रियाभेदः पचादीनाम् ? ...अधिश्रयण-उदकासेचन-तण्डुलावपन-एधोपकर्षणादिक्रियाः कुर्वन्नेव देवदत्तः पचतीत्युच्यते । एष प्रधानस्य कर्तुः पाकः ॥ द्रोणं पचति आढकं पचति इति सम्भवनक्रियां धारणक्रियां च कुर्वती स्थाली पचतीत्युच्यते । एषः अधिकरणस्य पाकः । ... "एधाः पक्ष्यन्त्याः विक्लितेः ज्वलिष्यन्ति" इति ज्वलनक्रियां कुर्वन्ति काष्ठानि पचन्ति इत्युच्यन्ते । एष करणस्य पाकः ॥ अत्र भाष्यकारेण **प्रतिकारकं **क्रियाभेदात्** करणस्य, अधिकरणस्य अपि कर्तृत्वं भवति** इति वर्णितम् अस्ति । एतादृशे कर्तृत्वे सिद्धे, देवदत्तः पचति, स्थाली पचति तथा च अग्निः पचति इत्येते भिन्नाः प्रयोगाः सम्भवन्ति - इति अत्र भाष्यस्य आशयः अस्ति । Vasu English Summary -------------------- Whatever the speaker chooses as the independent, principal and absolute source of action is called कर्ता or agent. Vasu English Translation ------------------------ Whatever the speaker chooses as the independent, principal and absolute source of action is called कर्ता or agent. The agent is absolute and unconditioned, as, देवदत्तः पचति *Devadatta* cooks. स्थाली पचति the pot cooks. Bhashya ------- स्वतन्त्रः कर्ता किं यस्य स्वं तन्त्रं स स्वतन्त्रः ? किं चातः ? तन्तुवाये प्राप्नोति । नैष दोषः । अयं तन्त्रशब्दोऽस्त्येव विताने वर्तते । तद्यथा, - आस्तीर्णं तन्त्रम्, प्रोतं तन्त्रमिति । वितानमिति गम्यते । अस्ति प्राधान्ये वर्तते । तद्यथा, - स्वतन्त्रोऽसौ ब्राह्मण इत्युच्यते । स्वप्रधान इति गम्यते । तद्यः प्राधान्ये वर्तते तन्त्रशब्दस्तस्येदं ग्रहणम् । स्वतन्त्रस्य कर्तृसंज्ञायां हेतुमत्युपसंख्यानमस्वतन्त्रत्वात् ॥ 1 ॥ स्वतन्त्रस्य कर्तृसंज्ञायां हेतुमत्युपसंख्यानं कर्तव्यम् । पाचयत्योदनं देवदत्तो यज्ञदत्तेनेति । किं पुनः कारणं न सिध्यति ? अस्वतन्त्रत्वात् । न वा स्वातन्त्र्यादितरथा ह्यकुर्वत्यपि कारयतीति स्यात् ॥ 2 ॥ न वा कर्तव्यम् । किं कारणम् ? स्वातन्त्र्यात् । स्वतन्त्रोऽसौ भवति । इतरथा ह्यकुर्वत्यपि कारयतीति स्यात् यो हि मन्यते - नाऽसौ स्वतन्त्रः, अकुर्वत्यपि तस्य कारयतीत्येतत्स्यात् । नाऽकुर्वतीति चेत्स्वतन्त्रः ॥ 3 ॥ न चेदमकुर्वति तस्मिन्कारयतीत्येतद्भवति, स्वतन्त्रोऽसौ भवति । शक्यं तावदनेनोपसंख्यानं कुर्वता वक्तुं - कुर्वन्स्वतन्त्रोऽकुर्वन्नेति । साधीयो ज्ञापकं भवति । प्रेषिते च किलायं क्रियां चाऽक्रियां च दृष्ट्वाऽध्यवस्यति कुर्वन्स्वतन्त्रोऽकुर्वन्नेति । यदि च प्रेषितोऽसौ न करोति स्वतन्त्रोऽसौ भवतीति ॥ 54 ॥ Kashika ------- स्वतन्त्र इति प्रधानभूत उच्यते, अगुणभूतः। यः क्रियासिद्धौ स्वातन्त्र्येण विवक्ष्यते, तत् कारकं कर्तृसंज्ञं भवति। देवदत्तः पचति। स्थाली पचति। कर्तृप्रदेशाः — **कर्तृकरणयोस्तृतीया** (२.३.१८) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात्॥ Balamanorama ------------ **स्वतन्त्रः कर्त्ता** - अथ तृतीया । स्वतन्त्रः कर्ता । कारकाधिकारात्क्रियाजनने स्वातन्त्र्यमिह विवक्षितमित्याह — क्रियायामिति । स्वातन्त्र्यमिह प्राधान्यमिति भाष्ये स्पष्टम् । ननु स्थाली पचतीत्यादौ कथं स्थाल्यादीनां कर्तृत्वं, स्वातन्त्र्याऽभावादित्यत आह — विवक्षितोऽर्थ इति ।विवक्षातः कारकाणि भवन्ती॑ति भाष्यादिति भावः । स्वातन्त्र्यं च धात्वर्थव्यापाराश्रयत्वम् । फलानुकूलव्यापारो धात्वर्थः । तत्र पचतीत्यत्र विक्लित्रिरूपफलाश्रये तण्डुलेऽतिव्याप्तिवारणाय व्यापारेति । उक्तं च हरिणा — ॒धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ।॑इति । धातूपात्तव्यापारवतीत्यर्थः । Tattvabodhini ------------- **स्वतन्त्रः कर्त्ता** - स्वतन्त्रः कर्ता । प्रधानभूतधात्वर्थाश्रयत्वं स्वातन्त्र्यम् । आह च — ॒धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते॑इति । स्थाल्यादीनां वस्तुतः स्वातन्त्र्याऽभावेऽपिस्थाली पचति काष्ठानि पचन्ती॑त्यादिप्रयोगोऽपि साधुरेवेति ध्वनयति -विवक्षितोऽर्थ इति । Padamanjari ----------- स्वतन्त्रशब्दोऽयं तन्तुवायवचनोऽप्यस्ति - स्वं तन्त्रमस्य स्वतन्त्रः, विततास्तन्तवस्स्वतन्त्रमित्युच्यते; अस्ति च साधारणद्रव्ये पुरुषे वर्तते साधारणं भवेतन्त्रम्, स्वं धनं तन्त्रं साधारणमस्य स्वतन्त्रः; अस्ति च प्रधानवचनः- स्व आत्मा तन्त्रं प्रधानमस्य स्वतन्त्र इति। तत्राद्ययोर्ग्रहणे तयोरपादानादिविषये कर्तृसंज्ञा स्यात्, परत्वाद्विशेषविहितत्वाच्च तन्तुवायादागच्छतीत्यादौ; इह च न स्यात्-देवदतो गच्छतीति, इदमाद्ययोर्ग्रहणे दोषं द्दष्ट्वा तृतीयमर्थमाश्रित्याह - स्वतन्त्र इति। प्रधानभूत उच्यत इति। स्वतन्त्रशब्दस्य तत्रैव प्रसिद्धतरत्वादिति भावः। किं च कारकधिकारात् क्रियाविषयं स्वातन्त्र्यं गृह्यते, न च तन्तुवायस्तन्तुवायतया क्रियायामुपयुज्यते, किं तर्हि? प्रधानतयैवेति तद्वाचिन एव ग्रहणं युक्तम्। यदि प्रधानभूत उच्यते, एवं सत्यप्रधानापेक्षत्वात् प्रधानभावस्य यत्राधिकरणादीन्यप्रधानानि कारकाणि सन्ति - काष्ठ्èअः स्थाल्यामोदनं पचतीति अत्रैवः स्यात्; न त्वास्ते शेते इत्यादावित्यशङ्क्य प्राधान्येनागुणभावो लक्ष्यत इति दर्शयति - अगुणीभूत इति। तेन यस्य गुणभावो नास्ति, स कर्ता। कारकान्तराविवक्षायामप चागुणिभावोऽस्त्येव। कः पुनरत्र कारकाणां गुणगुणिभावः? यदा एकापायेऽपि क्रिया न निर्वर्तते, उक्तमत्र - प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि। तदधीनप्रवृत्तित्वात् प्रवृतानां निवर्तनात्॥ अद्दष्टत्वात्प्रतिनिधेः प्रविवेकेऽपि दर्शनात्। आरादप्युपकारित्वात् स्वातन्त्र्यं कर्तुरिष्यते ॥ इति। काष्ठादीनि कर्त्रा प्रवर्तितानि करणादिशक्तिं प्रतिलभन्ते, कर्ता तु प्रागेव। कर्तृ संनिधौ च करणादिनि न्यग्भवन्ति, तदधीने च तेषां प्रवृत्तिनिवृती। प्रधानकर्तृश्च प्रतिनिधिर्न द्दष्टः, करणादीनां तु द्दष्टः-व्रीह्यपचारे नीवारैरिज्यते। प्रविवेकःउ अभावः। करणाद्यभावेऽप्यास्ते, शेते इत्यादौ केवलः कर्ता द्दश्यते, न तु कर्तुरभावे करणादीनि द्दश्यन्ते। आरादप्युपकारित्वादिति। यद्यप्यसौ तटस्थः फलसिद्धावुपकरोति, न तु करणादिवदनुप्रविश्य तथापीत्यर्थः। एतच्च प्रायेण चेतनेष्वेव सम्भवति, नाचेतनेषु - रथो यातीत्यादौ, नैष दोषः; उक्तलक्षणे कर्तरि द्वयं द्दष्टम् - प्रधान्यम्,आगुणभावश्च। तत्रागुणभावः अचेतनेषु चेतनेष्वपि सम्भवति। स चायमगुणभावो न प्रतिनियतविषयः, यस्यैव तु विवक्ष्यते, तस्यैवेत्याह - स्वातन्त्र्येण विवक्ष्यत इति। विवक्ष्यत इत्यस्योदाहरणम् - स्थाली पचतीति। अन्ये तु व्याचक्षते - अगुणभावेनाभिधीयमानव्यापारो गुणभूतो गुणभूतधातूपातव्यापारः कर्तेत्यर्थः। कस्य च व्यापारो धातुनाऽगुणभावेनोपादीयते? यस्य विवक्ष्यते तस्येति सर्वत्र सिद्धमिति॥ Nyaas ----- अस्त्ययं स्वतन्तरशब्दो बहुव्रीहिः। स्वं तन्त्रं यस्य स स्वतन्त्रः। अस्ति च समासप्रतिरूपको रूढिशब्दः, प्रधानार्थवृत्तिः, यथा - स्वतन्त्रोऽयमिह देवदत्त इति, प्रधानभूत इति गम्यते। तत्र यदि पूर्वो गृह्रेत तदा तन्तुवायस्यैव स्यात्; विस्तृता हि तन्तवस्तन्त्रम्, तच्च तन्तुवायस्यैवास्ति। देवदत्तः पचतीत्यादौ न स्यात्। इतरस्य तु ग्रहणे सर्वत्र भवति। तस्मात् व्याप्तेन्र्यायात् स एव गृह्रत इति मत्वाह - `स्वतन्त्र इति प्रधानभूतः` इति। यद्येवमप्रधानमपेक्ष्य प्रधानमुच्यत इति यत्राधिकरणादीन्यपराण्यप्रधानानि कारकाणि सन्ति, देवदत्तः काष्ठैरग्निनोदनं स्थाल्यां पचतीत्यादौ तत्रैव स्यात्। यत्र तु तेषामविवक्षा - आस्ते देवदत्तः, शेते देवदत्त इत्यादौ, तत्र न स्यादिति यो देशयेत् तं प्रत्याह - `अगुणभूतः` इति। एवं मन्यते - प्रधानेनागुणभाव उपलक्ष्यते। गुणभावो यत्र नास्ति स कर्तेति। कारकान्तराविवक्षायामप्यगुणभावोऽस्त्येवेति सर्वत्र भवति। ननु च सामग्र्यधीना हि क्रियासिद्धिः, एकस्याप्यभावे न सिध्यति, तत् कस्यात्र प्राधान्यं यत्परिग्रहाय स्वतन्त्रग्रहणं क्रियते? इत्याह - `यः क्रियासिद्धौ` इत्यादि। यद्यपि क्रिय#आसिद्धौ सर्वेषां व्यापारः, तथापि स्वातन्त्र्यं यस्य विवक्ष्यते स एव स्वतन्त्र इत्युत्यते, नान्य इति। देवदत्तः पचतीत्यत्र देवदत्तः कर्त्तृसंज्ञकत्वात् कर्त्तृप्रत्ययेनोच्यते लकारेण॥ Praudhamanorama --------------- प्रधानीभूतधात्वर्थं प्रति आश्रयत्वं स्वातन्त्र्यम्। आह च- धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ॥ इति। Prakriyasarvasvam ----------------- क्रियायां स्वातन्त्र्येण विवक्षितः कर्ता स्यात् ॥ Sudha ----- ** स्वतन्त्रः कर्तेति । ** कारकाधिकारात् क्रियाजनने स्वातन्त्र्यमिह विवक्षितमित्याह - **क्रियायामिति ।** स्वातन्त्र्यमिह प्राधान्यम् इति भाष्ये स्पष्टम् । ननु "स्थाली पचति" इत्यादौ कथं स्थाल्यादीनां कर्तृत्वम्, स्वातन्त्र्याभावादित्यत आह - ** विवक्षितोऽर्थ इति । ** विवक्षातः कारकाणि भवन्ति इति भाष्यादिति भावः । स्वातन्त्र्यञ्च धात्वर्थव्यापाराश्रयत्वम् ।