14053: हृक्रोरन्यतरस्याम्¶
Padacheda: हृ-क्रोः | S | 6 | 2 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
हृ तथा कृ धात्वोः विषये अण्यन्तप्रयोगस्य कर्ता ण्यन्तप्रयोगे विकल्पेन कर्मसंज्ञकः भवति । यथा - माणवकं माणवकेन वा भारं हारयति, माणवकं माणवकेन वा कटं कारयति ।
कारके (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं अन्तिमं सूत्रम् ।** हृ (1.1046) तथा कृ (8.10) एतयोः धात्वोः विषये <bअण्यन्तप्रयोगस्य कर्ता ण्यन्तप्रयोगे विकल्पेन कर्मसंज्ञकः भवति </b> इति अस्य अर्थः । ** । क्रमेण उदाहरणे एतादृशे - <listsp> <li><hlb>1. हृ हरणे (1.1046)</hlb> । यथा - <ex>पिता माणवकं भारं हारयति</ex>, <ex>पिता माणवकेन भारं हारयति </ex> । हृ-धातोः यः शुद्धकर्ता, तस्य ण्यन्तप्रयोगे अनेन सूत्रेण विकल्पेन कर्मसंज्ञा भवति । कर्मसंज्ञायां प्राप्तायाम् <ex>पिता माणवकं भारं हारयति</ex> इति प्रयोगः सिद्ध्यति । कर्मसंज्ञायाः अभावे <ex>पिता माणवकेन भारं हारयति</ex> इति प्रयोगः सिद्ध्यति । <li><hlb>2. कृ करणे (10.10)</hlb> - यथा <ex>पिता माणवकं कटं कारयति</ex>, <ex>पिता माणवकेन कटं कारयति </ex> । कृ-धातोः यः शुद्धकर्ता, तस्य ण्यन्तप्रयोगे अनेन सूत्रेण विकल्पेन कर्मसंज्ञा भवति । कर्मसंज्ञायां प्राप्तायाम् <ex>पिता माणवकं कटं कारयति</ex> इति प्रयोगः सिद्ध्यति । कर्मसंज्ञायाः अभावे <ex>पिता माणवकेन कटं कारयति</ex> इति प्रयोगः सिद्ध्यति । </listsp>
उभयत्र विभाषा इयम्
हृ तथा कृ - द्वयोः अपि धात्वोः विषये प्रकृतसूत्रेण उक्ता विभाषा उभयत्र विभाषा एव अस्ति । तदित्थम् -
**हृ-धातुः** कुत्रचित् गत्यर्थकरूपेण प्रयुज्यते (यथा - हरति, विहरति); कुत्रचित् भोजनार्थकरूपेण प्रयुज्यते (यथा - आहरति); कुत्रचित् च अन्यस्मिन् एव अर्थे प्रयुज्यते (यथा - प्रहरति) । एतेभ्यः गत्यर्थके अर्थे, भोजनार्थके च अर्थे, हृ-धातोः अण्यन्तकर्तुः ण्यन्तप्रयोगे गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (1.4.52) इति पूर्वसूत्रेण नित्यं कर्मसंज्ञायां प्राप्तायाम्; तथा च अन्येषु अर्थेषु पूर्वसूत्रस्य प्रयोग-अभावात् कर्मसंज्ञायाम् सर्वथा अप्राप्तायाम्, प्रकृतसूत्रेण सर्वेषु स्थलेषु इयं कर्मसंज्ञा विकल्प्यते । अनेन प्रकारेण हृ-धातोः विषये इयम् उभयत्र विभाषा अस्ति ।
2. **कृ-धातुः** कुत्रचित् अकर्मकरूपेण प्रयुज्यते (यथा - छात्राः विकुर्वन्ति (विरुद्धं चेष्टन्ते इत्यर्थः)); अन्येषु स्थलेषु तु अयं सकर्मकरूपेण प्रयुज्यते (यथा, कटं करोति) । एताभ्यां अकर्मके अर्थे कृ-धातोः अण्यन्तकर्तुः ण्यन्तप्रयोगे गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (1.4.52) इति पूर्वसूत्रेण नित्यं कर्मसंज्ञायां प्राप्तायाम्; तथा च सकर्मके अर्थे पूर्वसूत्रस्य प्रयोग-अभावात् कर्मसंज्ञायाम् सर्वथा अप्राप्तायाम, प्रकृतसूत्रेण सर्वेषु स्थलेषु इयं कर्मसंज्ञा विकल्प्यते । अनेन प्रकारेण कृ-धातोः विषये अपि इयम् उभयत्र विभाषा अस्ति । </listsp>
वार्त्तिकम् - <!अभिवादिदृशोरात्मनेपदे वेति वाच्यम्!>
अभि + वद् तथा च दृश् इत्येतयोः धात्वोः ण्यन्तस्य आत्मनेपदस्य प्रयोगे अण्यन्तकर्ता विकल्पेन कर्मसंज्ञकः भवति । यथा - <listsp> <li><hlb>1. अभि + वद् (1.1164)</hlb> - अत्र <nex>माणवकः गुरुम् अभिवदति</nex> इत्यस्य णिजन्तप्रयोगे “अभिवादयते” इति आत्मनेपदि तिङन्तं प्रयुज्यते चेत् <ex>पिता माणवकेन गुरुम् अभिवादयते</ex> तथा <ex>पिता माणवकम् गुरुम् अभिवादयते</ex> इति उभयथा प्रयोगः भवति । “अभिवादयति” इति परस्मैपदप्रयोगे तु केनापि सूत्रेण वार्त्तिकेन वा शुद्धकर्तुः कर्मसंज्ञा न विधीयते, अतः सः कर्तृसंज्ञकः एव तिष्ठति - <nex>पिता माणवकेन गुरुम् अभिवादयति</nex> । <li><hlb>2. दृश् (1.1143)</hlb> - अत्र <nex>माणवकः शुकं पश्यति</nex> इत्यस्य णिजन्तप्रयोगे “दर्शयते” इति आत्मनेपदि तिङन्तं प्रयुज्यते चेत् <ex>पिता माणवकेन शुकं दर्शयते</ex> तथा च <ex>पिता माणवकम् शुकं दर्शयते </ex> इति उभयथा प्रयोगः भवति । “दर्शयति” इति परस्मैपदप्रयोगे तु पूर्वसूत्रस्थेन <!दृशेश्च!> इति वार्त्तिकेन शुद्धकर्तुः नित्यमेव कर्मसंज्ञा विधीयते - <ex>पिता माणवकं शुकं दर्शयति </ex> । </listsp>
Vasu English Summary¶
The agent of the verb in its non-णि (primitive) form in the case of हृ ‘to lose’ and कृ ‘to make’, is optionally called कर्म or object when these verbs take the affix.
Vasu English Translation¶
The agent of the verb in its non-णि (primitive) form in the case of हृ ‘to lose’ and कृ ‘to make’, is optionally called कर्म or object when these verbs take the affix. ni (CAUSAL).
PRIMITIVE - As हरति भारं माणवकः, CAUSAL - हारयति भारं माणवकेन
PRIMITIVE - The boy takes the load., CAUSAL - He causes the servant to take the load.
PRIMITIVE - करोतिकटं देवदत्तः, CAUSAL - कारयति कटं देवदतं or देवदत्तेन.
PRIMITIVE - Devadatta makes the mat., CAUSAL - He causes Devadatta to make the mat.
Vart:- The subject of the primitive verbs अभिवद् and दृश् when used in the Atmanepada, is either put in the Accusative or instrumental case in the causal; as,
PRIMITIVE - अभिवदति गुरुं देवदत्तः, CAUSAL - अभिवादयते गुरुं or देवदत्तेन
PRIMITIVE - Devadatta bows down to the Guru., CAUSAL - He makes Devadatta bow down to the Guru.
PRIMITIVE - पश्यन्ति भृत्या राजानम्., CAUSAL - दर्शयते भृत्यान् राजानं or दर्शयते भृत्यैः.
PRIMITIVE - The servants see the king., CAUSAL - He makes the servants see the king
Bhashya¶
हृक्रोरन्यतरस्याम् हृक्रोर्वावचनेऽभिवादिदृशोरात्मनेपद उपसंख्यानम् ॥ 1 ॥ हृक्रोर्वावचनेऽभिवादिदृशोरात्मनेपद उपसंख्यानं कर्तव्यम् । अभिवदति गुरुं देवदत्तः । अभिवादयते गुरुं देवदत्तेन । अभिवादयते गुरुं देवदत्तम् ॥ पश्यन्ति भृत्या राजानम् । दर्शयते भृत्यै राजा । दर्शयते भृत्यान् राजा ॥ कथं चाऽत्राऽऽत्मनेपदम् ? एकस्य णेरणौ (1.3.67) इति, अपरस्य णिचश्च (1.3.74) इति ॥ 53 ॥
Kashika¶
अणि कर्ता स णाविति वर्तते। हरतेः करोतेश्चाण्यन्ततोर्यःकर्ता, स ण्यन्तयोरन्यतरस्यां कर्मसंज्ञो भवति। हरति भारं माणवकः। हारयति भारं माणवकम्, माणवकेनेति वा। करोति कटं देवदत्तः, कारयति कटं देवदत्तम्, देवदत्तेनेति वा॥ अभिवादिदृशोरात्मनेपद उपसंख्यानम्॥ अभिवदति गुरुं देवदत्तः। अभिवादयते गुरुं देवदत्तम्, देवदत्तेनेति वा। पश्यन्ति भृत्या राजानम्। दर्शयते भृत्यान् राजा, भृत्यैरिति वा। आत्मनेपद इति किम्? दर्शयति चैत्रं मैत्रमपरः। प्राप्तविकल्पत्वाद् द्वितीयैव। अभिवादयति गुरुं माणवकेन पिता। अप्राप्तविकल्पत्वात्तृतीयैव॥
Siddhanta Kaumudi¶
हृक्रोरणौ यः कर्ता स णौ वा कर्मसंज्ञः स्यात् । हारयति कारयति वा भृत्यं भृत्येन वा कटम् ॥<!अभिवादिदृशोरात्मनेपदे वेति वाच्यम् !> (वार्तिकम्) ॥ अभिवादयते दर्शयते देवं भक्तं भक्तेन वा ॥
Balamanorama¶
हृक्रोरन्यतरस्याम् - ह्मक्रो । हा च का च ह्मकरौ, तयोरिति विग्रहः । हारयति कारयति वेति । हरति करोति वा कटं भृत्यः, तं प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुर्भृत्यस्य कर्मत्वविकल्पः । ह्मक्रोर्गत्यर्थादिष्वनन्तर्भावादप्राप्ते विभाषेयम् । ह्मक्रोरर्थान्तरे तु प्राप्तविभाषा ।अब्यवहारयति सैन्धवान्सैन्धवैर्वा,॑विकारयति सैन्धवान्सैन्धवैर्वा॑ । अत्र अब्यबहरतेर्भक्षणार्थत्वाद्विकारयतेरकर्मकत्वाच्च प्राप्तिः ।अभिवादीति । हेतुमण्ण्यन्तस्याभिपूर्वकवदधातोर्दृशिप्रकृतिकण्यन्तस्य चात्मनेपदिनोऽणौ कर्ता णौकर्म वेत्यर्थः । अभिवादयते इति । अभिवदति=नमस्करोति देवं भक्तः, तं गुरुः प्रेरयतीत्यर्थः । कर्तृगामिति फलेणिचश्चे॑त्यात्मनेपदम् । अत्र भक्तस्य प्रयोज्यकर्तुः कर्मत्वविकल्पः । अप्राप्तविभाषेयम् । परसमैपदे तु अभिवादयति देवं भक्तेनेत्येव । पश्यति देवं भक्तः, तं गुरुः प्रेरयति, दर्शयते देवं भक्तं भक्तेन वा ।गतिबुद्धी॑त्यत्र बुद्धिग्रहणेन ज्ञानसामान्यवाचिन एव ग्रहणमित्युक्तम्, तथापिदृशेश्चे॑ति नित्यं प्राप्ते विकल्पः ।
Tattvabodhini¶
हृक्रोरन्यतरस्याम् - ह्यकोः । हा च कता च ह्मकारौ, तयोरिति विग्रहः । हुश्च कुश्च ह्मक्रोरिति वा । प्रथमान्तेन, परिनिष्ठितचविभक्त्या वा विग्रहो इति सिद्धान्तात् ।गतिबुद्धी॑त्यादीह नानुवर्तते । तेन उभयत्रविभाषेयम् । अभ्यवपूर्वस्य हरतेर्भक्षणार्थकत्वाद्विकारार्थस्य करोतेश्चाऽकर्मकत्वात्गतिबुद्धि॑इत्यादिना अणौ कर्तुर्णौ कर्मत्वे प्राप्ते, अर्थान्तरे चाऽनयोः सकर्मकत्वादप्राप्तेऽस्यारम्भात् । अप्राप्तावुदाहरणमाह -हारयतीति । हरति करोति वा कटं भृत्य इत्यण्यन्तावस्थायां भृत्यः कर्ता, स एव ण्यन्तावस्थायां कर्माऽभूत् । प्राप्ते तूदाहरणम् — तृणमभ्यवहारयति सैन्धवान्, तृणमभ्यवहारयति सैन्धवैः । विकारयति सैन्धवान्, विकारयति सैन्धवैरिति बोध्यम् । ननु यदिगतिबुद्धी॑त्यादिरिह नानुवर्तेत तदैतदेवं स्यात्, तत्रैव मानं न पश्याम इति चेन्मैवं,न वेति विभाषा॑इति सूत्रे उभयत्रविभाषासु भाष्यकृताऽस्यापि सूत्रस्य गणितत्वेनोक्तशङ्काया अनवतारात् ।अभिवादिदृशोरात्मनेपदे वेति वाच्यम् । अभिवादीति ।वद सन्देशवचने॑ चुरादिराधृषीयः । अभिपूर्वकत्वान्नमस्कारार्थता । अभिवादयतेरप्राप्तौ, दृशेस्तु प्राप्तावयं विकल्पः । अभिवदति देवं भक्तस्तं प्रेरयत्यन्यः — अभिवादयते ।णिचश्चे॑त्यात्मनेपदम् । परस्मैपदे तु अभिवादयति देवं भक्तेनेत्येव । तथा पश्यति देवं भक्तः, दर्शयते देवं भक्तमित्यादि ।
Padamanjari¶
गत्यर्थादयो निवृताः तेनोभयत्र विभाषेयम्। यदा हरतिर्गतौ वर्तते-हरति भारं देवदत इति, अभ्यवहारे वा-अभ्यवहरति माणवकमोदनमिति। करोतिश्चाप्यकर्मकः- ओदनस्य पूर्णाः छात्राः विकुर्वत इति, तदा पूर्वेण प्राप्ते। ननु ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति नियमस्यैव विकल्पो युक्तः, गत्यर्थादिष्वेवेति योऽयं नियमः स’हृक्रोरन्यतरस्याम्’ इति, ततश्च पक्षे नियमाभावात् गत्याद्यर्थादन्यत्र पक्षे कर्मत्वं पक्षान्तरे च कर्तृ त्वं भवतु, गत्याद्यर्थत्वे तु नित्यवत् कर्मसंज्ञा प्राप्नोति। एवं तर्हि वार्तिककारेण उभयत्रविभाषास्वियं पठिता, तत्सामर्थ्यादनन्तरस्य विधिरिति नाश्रीयते, अविशेषेण हृक्रोर्विकल्पः प्रवर्तते। अभिवादिद्दशोरिति। अभिवादयतेरप्राप्ते विभाषा द्दशेर्बुध्यर्थत्वात् द्दशेः सर्वत्रेति वा प्राप्ते। अभिवादयते इति।’णिचश्च’ इत्यात्मनेपदम्। परस्मैपदे तु अभिवादयति गुरुं देवदेतेनेति कर्तृ संज्ञैव भवति। दर्शयते इति। कर्मसंज्ञाभावपक्षे कर्मान्तरस्याभावात्’णेरणौ’ इत्यात्मनेपदम्, अन्यत्र तु’णिचश्च’ इति॥
Nyaas¶
गत्यर्थादयो निवृत्ताः। तेनोभयत्र विभाषेयम्। यदा हरतिर्गतौ वर्तते, अभ्यवहारे वा, करोतिश्चाकर्मणो भवति तदा प्राप्ते। यदा तु हरतिः स्तेयादौ वर्तते, करोतिश्च सकर्मको भवति तवाऽप्राप्ते। उपसंख्यानम् इति। प्रतिपादनमित्यर्थः। एतच्च प्रकृतत्वात् तत्रेदं प्रतिपादनम् - अकथितञ्च (1.4.51) इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः। तेनाभिवादिदृशोरप्यात्मनेपदे कर्मसंज्ञा भविष्यतीति। अभिवादयते इति। णितश्च`(1।3।क74) इत्यात्मनेपदम्। `दर्शयते इति। अत्रापि णेरणौ (1.3.67) इत्यादिना।
Praudhamanorama¶
अभिवादिदृशोरिति। अभिवादयतेरप्राप्ते दृशेस्तु प्राप्ते विभाषेयम्।
Prakriyasarvasvam¶
हृक्रोरणि कर्ता णौ वा कर्माख्यः । हारयति कटं भृत्यान् भृत्यैर्वा । एवं कारयतीत्यपि । ‘अभिवादिदृशोर्णावात्मनेपदेषु वेति वाच्यम् । अभिवादयते गुरुं वटुं वटुना वा । दर्शयते चित्रं प्रियां प्रियया वा । <karika>गत्यर्थानां च तायदिः प्रयोज्ये लादयो मताः । गम्यन्ते पशवा ग्रामं तार्यते पथिको नदीम् ॥ ५१९ ॥</karika> <karika>बुद्ध्याद्यर्थणिजन्तानां वा भवेत् कर्मणोर्द्वयोः । सुतोऽयं बोध्यते धर्मं धर्मो वा बोध्यते सुतम् ॥ ५२० ॥</karika> इति ॥
Vartika¶
अभिवादिदृशोरात्मनेपदे वेति वाच्यम् ।
Sutra Prayogas¶
जगदाज्ञां (कुमारसम्भवम्): हृक्रोरन्यतरस्याम् इति जगतः कर्मत्वम्।
शर्वे (कुमारसम्भवम्): हृक्रोरन्यतरस्याम् इति शर्वस्याणिकर्तुः कर्मत्वम्।
अकारयत् (कुमारसम्भवम्): हृक्रोरन्यतरस्याम् इति अणिकर्तुः कर्मसंज्ञा।
वधूं (कुमारसम्भवम्): हृक्रोरन्यतरस्याम् इति विकल्पादणिकर्तुः कर्मत्वम्।
कारितः (किरातार्जुनीयम्): हृक्रोरन्यतरस्याम् इत्यणि कर्तुः कर्मता।
कारयितुं (भट्टिकाव्यम्): हृ-क्रोरन्यतरस्याम् इति द्विकर्मकता ।
अचीकरत् (भट्टिकाव्यम्): हृ- क्रोरन्यतरस्याम् इति द्विकर्मकता।
कारयमाणाभिर् (भट्टिकाव्यम्): हृ-क्रोरन्यतरस्याम् इति द्विकर्मकता।
रक्षोभिर् (भट्टिकाव्यम्): हृ- क्रोरन्यतरस्याम् इति कर्मसंज्ञा।