14052: गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ¶
Padacheda: गति-बुद्धि-प्रत्यवसानार्थ-शब्दकर्म-अकर्मकाणाम् | S | 6 | 3 |
अ-णि | S | | | 7
कर्ता | S | 1 | 1 |
सः | S | 1 | 1 |
णौ | S | 7 | 1 |
Sutrartha¶
गत्यर्थकधातवः, बुध्यर्थकधातवः, भोजनार्थकधातवः, शब्दकर्मधातवः, तथा च अकर्मकधातवः - एतेषां विषये अण्यन्तप्रयोगस्य कर्ता ण्यन्तप्रयोगे कर्मसंज्ञकः भवति । यथा - माणवकं ग्रामं गमयति, माणवकं धर्मं बोधयति, माणवकम् ओदनं भोजयति, माणवकं वेदम् अध्यापयति, माणवकं शाययति ।
कारके (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं नवमं सूत्रम् । अनेन सूत्रेण णिजन्तप्रयोगे कर्मसंज्ञा विधीयते । अण्यन्तवाक्यस्य यः कर्ता, सः सामान्यरूपेण णिजन्तवाक्ये अपि कर्तृसंज्ञकः एव भवति । एतादृश्यां ** कर्मसंज्ञायां प्राप्तायाम्, पञ्चसु स्थलेषु तां बाधित्वा प्रकृतसूत्रेण तस्याः स्थाने कर्मसंज्ञा विधीयते</b>** । क्रमेण विवरणम् एतादृशम् - <listsp> <li><hlb>1. गत्यर्थकाः धातवः</hlb> । यथा - <ex>पिता माणवकं ग्रामं गमयति । </ex> **गम्, या इत्यादयः ये <b>गत्यर्थकाः** धातवः, तेषाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति</b> । यथा, गम्-धातोः अण्यन्तप्रयोगे <nex>माणवकः ग्रामं गच्छति</nex> इत्यत्र विद्यमानः कर्तृंसज्ञकः “माणवक”पदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - <ex>पिता माणवकं ग्रामं गमयति </ex> । अत्र “पितृ”पदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च “माणवक”पदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । “ग्राम”पदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । एतादृशम् अत्र ण्यन्तप्रयोगे धातुः द्विकर्मकत्वं प्राप्नोति । अत्र “गमयति” इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्मद्वयम् अपि **कर्मणि द्वितीया (2.3.2) इत्यनेन द्वितीयया एव निर्दिश्यते** ।एवमेव, <ex>पिता माणवकं ग्रामं यापयति</ex> इति प्रयोगः अपि सिद्ध्यति । <li><hlb>2. बुद्ध्यर्थकाः धातवः</hlb> । यथा - <ex>पिता माणवकं धर्मं बोधयति । </ex> **बुध्, विद् इत्यादयः ये <b>बुद्ध्यर्थकाः** धातवः, तेषाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति</b> । यथा, बुध्-धातोः अण्यन्तप्रयोगे <nex>माणवकः धर्मं बुध्यते</nex> इत्यत्र विद्यमानः कर्तृसंज्ञकः “माणवक”पदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - <ex>पिता माणवकं धर्मं बोधयति</ex> । अत्र “पितृ”पदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च “माणवक”पदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । “धर्म”पदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । एतादृशम् अत्र ण्यन्तप्रयोगे धातुः द्विकर्मकत्वं प्राप्नोति । अत्र “बोधयति” इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्मद्वयम् अपि **कर्मणि द्वितीया (2.3.2) इत्यनेन द्वितीयया एव निर्दिश्यते** । एवमेव, <ex>पिता माणवकं धर्मं वेदयति</ex> इति प्रयोगः अपि सिद्ध्यति । <li><hlb>3. प्रत्यवसानार्थकाः (भोजनार्थकाः) धातवः</hlb> । यथा - <ex>पिता माणवकं ओदनं भोजयति । </ex> **भुज्, अश् इत्यादयः ये <b>भोजनार्थकाः** धातवः, तेषाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति</b> । यथा, भुज्-धातोः अण्यन्तप्रयोगे <nex>माणवकः ओदनं भुङ्क्ते</nex> इत्यत्र विद्यमानः कर्तृसंज्ञकः “माणवक”पदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - <ex>पिता माणवकं ओदनं भोजयति</ex> । अत्र “पितृ”पदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च “माणवक”पदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । “ओदन”पदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । एतादृशम् अत्र ण्यन्तप्रयोगे धातुः द्विकर्मकत्वं प्राप्नोति । अत्र “भोजयति” इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्मद्वयम् अपि **कर्मणि द्वितीया (2.3.2) इत्यनेन द्वितीयया एव निर्दिश्यते** । एवमेव, <ex>पिता माणवकं ओदनम् आशयति</ex> इति प्रयोगः अपि सिद्ध्यति । <li><hlb>4. शब्दकर्मकाः धातवः</hlb> । यथा - <ex>पिता माणवकं वेदम् अध्यापयति । </ex> येषाम् धातूनाम् कर्मपदम् शब्दस्वरूपम् अस्ति (यथा - वेदः, श्लोकः, काव्यम्, ग्रन्थः, गीतम् , गद्यम्, पद्यम् - आदयः) - ते धातवः शब्दकर्मकाः धातवः नाम्ना ज्ञायन्ते । यथा - गै, पठ्, अधि + इण् इत्यादयः । एतादृशानाम् शब्दकर्मक-धातूनाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति । यथा, अधि + इ-धातोः अण्यन्तप्रयोगे <nex>माणवकः वेदम् अधीते</nex> इत्यत्र विद्यमानः कर्तृसंज्ञकः “माणवक”पदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - <ex>पिता माणवकं वेदम् अध्यापयति</ex> । अत्र “पितृ”पदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च “माणवक”पदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । “वेद”पदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । एतादृशम् अत्र ण्यन्तप्रयोगे धातुः द्विकर्मकत्वं प्राप्नोति । अत्र “अध्यापयति” इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्मद्वयम् अपि **कर्मणि द्वितीया (2.3.2) इत्यनेन द्वितीयया एव निर्दिश्यते** । एवमेव, <ex>पिता माणवकं पाठं पाठयति</ex> इति प्रयोगः अपि सिद्ध्यति । <li><hlb>5. अकर्मकाः धातवः</hlb> । यथा - <ex>पिता माणवकं शाययति । </ex> **शी, आस्, हस्, डी इत्येतेषाम् अकर्मकधातूनाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति** । यथा, शी-धातोः अण्यन्तप्रयोगे <nex>माणवकः शेते</nex> इत्यत्र विद्यमानः कर्तृसंज्ञकः “माणवक”पदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - <ex>पिता माणवकं शाययति</ex> । अत्र “पितृ”पदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च “माणवक”पदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । एवमेव, <ex>पिता माणवकं हासयति</ex> इति प्रयोगः अपि सिद्ध्यति । <note> 1. अकर्मकधातवः इत्युक्ते ते धातवः येषां कर्मपदं न सम्भवति । “वाक्ये कर्मपदं वर्तते उत न” इति विषयः अत्र न चिन्तनीयः । यथा, <nex>देवदत्तः पचति</nex> इत्यत्र वाक्ये यद्यपि कर्मपदं न विद्यते, तथापि अत्र कर्मपदस्य अध्याहारः शक्यः यतः पच्-धातोः सन्दर्भेण कर्मपदम् तु अवश्यमेव सम्भवति । अतः पच्-धातुः अत्र अकर्मकरूपेण नैव परिगण्यते । 2. पूर्वसूत्रे कौमुद्यां विद्यमानेन <!अकर्मकधातुभिर्योगे देशः कालः भावः गन्तव्यः अध्वा च कर्मसंज्ञकः इति वाच्यम्!> इति वार्त्तिकेन अकर्मकधातूनां योगे अपि देशकालादिकं कर्मपदम् भवितुम् अर्हति । परन्तु एतादृशे कर्मपदे लब्धे अपि एते धातवः अकर्मकरूपेणैव परिगण्यन्ते, अतः प्रकृतसूत्रे विद्यमानेन अकर्मक इति अंशेन तेषां ग्रहणम् अवश्यमेव भवति । यथा - <ex>पिता माणवकं कुरून् शाययति </ex> । अत्र “माणवक”पदार्थस्य कर्मसंज्ञा प्रकृतसूत्रेण, तथा च “कुरु”पदार्थस्य कर्मसंज्ञा <!अकर्मकधातुभिर्योगे देशः कालः भावः गन्तव्यः अध्वा च कर्मसंज्ञकः इति वाच्यम्!> इति वार्त्तिकेन सिद्ध्यति । </note> </listsp>
निषेधवार्त्तिकानि
प्रकृतसूत्रेण उक्तस्य नियमस्य निषेधरूपेण आहत्य पञ्च वार्त्तिकानि पाठ्यन्ते । तानि एतादृशानि - <listsp> <li><hlb>1. <!नीवह्योर्न !></hlb> । **नी (1.1049) तथा वह् (1.1159) इत्यतौ धातू यद्यपि गत्यर्थकौ स्तः, तथापि अनयोः विषये प्रकृतसूत्रस्य प्रयोगः न भवति** । यथा - <ex>पिता माणवकेन अजं नाययति </ex>। अत्र अण्यन्तप्रयोगस्य कर्तृसंज्ञकः “माणवक”पदार्थः ण्यन्तप्रयोगे कर्मसंज्ञां न प्राप्नोति अपितु कर्तृसंज्ञकः एव तिष्ठति । एतादृशस्य अनभिहित-कर्तुः निर्देशार्थम् कर्तृकरणयोस्तृतीया**(2.3.18) इत्यनेन तृतीयाविभक्तिः प्रयुक्ता दृश्यते । एवमेव, <ex>पिता **माणवकेन भारं वाहयति</ex> इत्यत्रापि माणवकपदार्थस्य कर्मसंज्ञा न भवति । <li><hlb>2. <!नियन्तृकर्तृकस्य वहेरनिषेधः !> </hlb> । इदं वार्त्तिकं पूर्ववार्त्तिकस्य अपवादस्वरूपेण प्रवर्तते । यदि वह्-धातोः प्रयोजककर्ता नियन्ता (सारथिः) अस्ति, तर्हि पूर्ववार्त्तिकेन उक्तः निषेधः नैव प्रवर्तते, तथा प्रयोज्यकर्तुः ण्यन्त-प्रयोगे अवश्यमेव कर्मसंज्ञा भवति । यथा - <ex>सूतः अश्वान् रथं वाहयति</ex> । अत्र अश्वानां सारथ्यं सूतेन क्रियते इति कारणात् वह्-धातोः विषये पूर्ववार्त्तिकस्य प्रयोगः न क्रियते अपितु सूत्रप्रयोगेणैव अश्वपदार्थस्य कर्मसंज्ञा विधीयते । <li><hlb>3. <!अदिखाद्योर्न !></hlb> । **अद् ** (2.1) तथा च **खाद् (1.51) इत्येतौ धातू यद्यपि प्रत्यवसानार्थकौ (भोजनार्थकौ) स्तः, तथापि एतयोः विषये प्रकृतसूत्रं नैव प्रवर्तते</b>; अतः एतयोः ण्यन्तप्रयोगे अण्यन्तकर्ता कर्तृंसंज्ञकः एव तिष्ठति । यथा - <ex>**पिता माणवकेन** ओदनम् आदयति / खादयति</ex> । <li><hlb>4. <!भक्षेरहिंसार्थस्य न !></hlb> । <hl>**भक्ष्** (10.33) इति चौरादिकधातोः विषये “यत्र हिंसा (वनस्पतेः पशोः वा हत्या) न भवति” तत्र प्रकृतसूत्रस्य प्रयोगः न क्रियते** । यथा, <nex>माणवकः ओदनं भक्षयति</nex> इत्यत्र हिंसा नैव विद्यते, अतः अस्य वाक्यस्य णिजन्तप्रयोगे “माणवक”पदार्थस्य प्रकृतसूत्रेण प्राप्ता कर्मसंज्ञा निषिध्यते, येन <ex>पिता माणवकेन ओदनं भक्षयति</ex> इति प्रयोगः सिद्ध्यति । हिंसार्थके अर्थे तु प्रकृतसूत्रस्य प्रयोग भवत्येव । यथा, <nex>बलीवर्दः सस्यम् भक्षयति</nex> इत्यत्र सस्यं भूमेः उत्पाट्य (तस्य हिंसां कृत्वा) भक्षयति इति आशयः वर्तते । अतः अत्र ण्यन्तप्रयोगे “बलीवर्द”पदार्थस्य अवश्यं हि प्रकृतसूत्रेण कर्मसंज्ञा विधीयते, यथा - <nex>कृषकः बलिवर्दम् सस्यं भक्षयति । </nex> <li><hlb>5. <!शब्दायतेर्न !></hlb> । **शब्दाय इति आतिदेशिकधातोः विषये प्रकृतसूत्रं नैव प्रवर्तते** । अयं धातुः “शब्दं करोति” अस्मिन् अर्थे “शब्द” इति प्रातिपदिकात् कर्तुः क्यङ् सलोपश्च (3.1.11) इत्यनेन क्यङ्-प्रत्ययं कृत्वा सिद्ध्यति । अस्य धातोः कर्मपदं “शब्दः” इति अस्ति, अतः प्रकृतसूत्रस्य शब्दकर्मक इति अंशेन अस्य धातोः ग्रहणं सम्भवति । परन्तु तादृशं ग्रहणं न इष्यते अतः इदं वार्त्तिकं पाठितम् अस्ति । शब्दाय इति धातोः अण्यन्त-कर्तुः ण्यन्त-प्रयोगे प्रकृतसूत्रेण प्राप्ता कर्मसंज्ञा अनेन वार्त्तिकेन निषिध्यते । यथा - <ex>पिता माणवकेन शब्दाययति </ex> । अत्र “माणवकः” इति अण्यन्तप्रयोगस्य कर्ता ण्यन्तप्रयोगे अपि कर्तृसंज्ञकः एव तिष्ठति । </listsp>
विधायकवार्त्तिकानि
प्रकृतसूत्रेण येषां धातूनां ग्रहणं कृतं नास्ति, तेषां विषये अपि प्रकृतसूत्रस्यैव विधानं कर्तुं द्वे वार्त्तिके निर्मिते स्तः - <listsp> </li><hlb>1. <!जल्पतिप्रभृतीनामुपसङ्ख्यानम् !> </hlb> । जल्प् (1.464), भाष् (1.696), तथा च वि + लप् (1.468) - एतेषां त्रयाणाम् अपि अर्थः “व्यक्तायां वाचि” इति अस्ति । एतेषाम् प्रयोगे विद्यमानं कर्मपदं यद्यपि शब्दकर्म नास्ति, तथापि एतेषां अण्यन्त-कर्तुः ण्यन्तप्रयोगे अवश्यं हि कर्मसंज्ञा भवति । यथा - <ex>पिता माणवकं धर्मं जल्पयति</ex> । अत्र “धर्म”पदार्थः शब्दकर्मकः नास्ति अतः अत्र प्रकृतसूत्रेण अप्राप्ता कर्मसंज्ञा अनेन वार्त्तिकेन विधीयते । एवमेव, <ex>पिता माणवकं धर्मं भाषयति</ex> तथअ च <ex>पिता माणवकं धर्मं विलापयति</ex> इत्येतौ प्रयोगौ अपि सिद्ध्यतः । <li><hlb>2. <!दृशेश्च!> </hlb> । **दृश् (1.1143) इत्यस्य विषये अपि अण्यन्त-कर्तुः ण्यन्तप्रयोगे कर्मसंज्ञा भवति** । यथा - <ex>पिता माणवकं शुकं दर्शयति</ex> । <note> 1. वस्तुतः दृश्-धातुः बुद्ध्यर्थकः (ज्ञानविशेषार्थकः) अस्ति, अतः प्रकृतसूत्रे विद्यमानेन “बुद्धि” इति पदेनैव दृश्-धातोः विषये अण्यन्तकर्तृपदस्य ण्यन्तप्रयोगे कर्मसंज्ञा सिद्धा अस्ति । तथापि अत्र इदं वार्त्तिकं पुनः पाठ्यते । सिद्धे अति आरम्भः नियमार्थः इत्यनेन इदं वार्त्तिकं नियमं करोति, यत् - ज्ञानविशेषार्थकधातूनां विषये प्रकृसूत्रं प्रयोक्तव्यं चेत् **दृश्-धातोः विषये एव, न अन्येषाम् ** । अस्य प्रयोजनम् अस्ति घ्रा तथा स्मृ एतयोः धात्वोः विषये प्रकृतसूत्रस्य निषेधः । एतौ धातू विशेषज्ञानं बोधयतः अतः एतयोः विषये प्रकृतसूत्रं नैव प्रयुज्यते, अतश्च एतयोः शुद्धकर्ता ण्यन्तप्रयोगे कर्तृसंज्ञकः एव तिष्ठति । यथा - <nex>पिता माणवकेन पुष्पं घ्रापयति </nex> । एवमेव, <nex>पिता माणवकेन गुरुं स्मारयति ।</nex> 2. दृश्-धातोः विषये ण्यन्तप्रयोगे “दर्शयति” तथा “दर्शयते” इति द्वे रूपे भवतः । एताभ्याम् <!दृशेश्च!> इति वार्त्तिकम् केवलं “दर्शयति” इति परस्मैपदप्रयोगस्य विषये एव प्रयुज्यते । “दर्शयते” इति आत्मनेपदप्रयोगस्य विषये तु अग्रिमसूत्रे <!अभिवादिदृशोरात्मनेपदे वेति वाच्यम् !> इति विकल्पः पाठितः अस्ति । </note> </listsp>
दलकृत्यम्
1. गत्यादीनाम् एव किमर्थम् ? सूत्रे उक्तान् अर्थान् विहाय अन्येषु अर्थेषु प्रयुक्तानां धातूनां विषये प्रकृतसूत्रं नैव प्रवर्तते - इति स्पष्टीकर्तुम् अत्र गत्यादीनां ग्रहणं कृतम् अस्ति । यथा - <ex>पिता माणवकेन पत्रं लेखयति</ex> । अत्र लेखनक्रियायाः कर्ता “माणवक”पदार्थः ण्यन्तप्रयोगे कर्मसंज्ञां नैव प्राप्नोति यतोहि लेखनार्थकस्य प्रकृतसूत्रे निर्देश-अभावात् लेखनार्थकधातूनां विषये इदं सूत्रं नैव प्रयुज्यते । अतः “लिखति” इत्यस्य कर्ता “लेखयति” इत्यस्य प्रयोगे अपि कर्तृसंज्ञकः एव तिष्ठति । एवमेव, <nex> पिता माणवकेन ओदनं पाचयति</nex> इत्यत्रापि माणवकपदार्थस्य ण्यन्तप्रयोगे कर्मसंज्ञा न भवति । 2. अणि कर्ता इति किमर्थम्? ** **इदं सूत्रम् केवलं अण्यन्त-प्रयोगस्य कर्तृपदस्य विषये एव प्रवर्तते इति स्पष्टीकर्तुम् अत्र “अणि कर्ता” इति प्रयोगः कृतः अस्ति। ण्यन्तप्रयोगस्य यत् कर्तृपदम्, तत् तस्यापि ण्यन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञकं न भवति । यथा - <nex>माणवकः गच्छति</nex> इति अण्यन्तवाक्यस्य कर्ता “माणवक”पदार्थः ण्यन्तप्रयोगे कर्मसंज्ञां प्राप्नोति, येन <ex>पिता माणवकं ** गमयति</ex> इति प्रयोगः सिद्ध्यति । इदानीम्, “आचार्यः पितरं माणवकं गमयितुम् प्रेरयति” इति अर्थस्य निर्देशार्थम् **गमि इति ण्यन्तात् पुनः अग्रे णिच्-प्रत्ययः भवति, येन <nex>आचार्यः पित्रा माणवकं गमयति</nex> इति वाक्यं सिद्ध्यति । अस्मिन् वाक्ये आहत्य त्रीणि कर्तृपदानि विद्यन्ते । तत्र प्रेरणार्थकस्य यः प्रेरणार्थः (इत्युक्ते गम् + णिच् + णिच्) तस्य कर्ता “आचार्यः” इति अस्ति, सः च अस्मिन् वाक्ये “गमयति” इत्यनेन अभिहितः अपि अस्ति, अतः तस्य प्रथमाविभक्तौ निर्देशः क्रियते । अग्रे, प्रथम-स्तरीयः यः प्रेरणार्थः (इत्युक्ते गम् + णिच्) तस्य कर्ता “पिता” इति अस्ति । अयं “पितृ”पदार्थः द्वितीयस्तरीयणिजन्तवाक्ये यदा प्रयुज्यते, तदा धातोः गत्यर्थकत्वे सति अपि “पितृ”पदार्थस्य प्रकृतसूत्रेण कर्मसंज्ञा नैव विधीयते, यतः “पितृ”पदार्थः “अण्यन्तस्य कर्ता” नास्ति । एतत् स्पष्टीकर्तुम् एव प्रकृतसूत्रे अणि कर्ता इति अंशः स्थापितः अस्ति ।”माणवकः” इति तु अण्यन्तस्य कर्ता अस्ति, अतः सः तु धातोः गत्यर्थकत्वात् प्रथमस्तरीयणिजन्ते अपि कर्मसंज्ञकः भवति, द्वितीयस्तरीयणिजन्ते अपि कर्मसंज्ञकः भवति ।
Sutrartha (English)¶
For verbs indicating motion (गति), knowledge (बुद्धि), eating (भक्षण); for verbs whose action involves a word (शब्दकर्म) ; and for the अकर्मक verbs the कर्ता of the अप्रयोजक sentence becomes कर्म in the प्रयोजक sentence.
Vasu English Summary¶
Of the verbs having the sense of ‘motion’, ‘knowledge or information’ and ‘eating’ and of verbs that have some literary work for their object and of intransitive verbs, that which was the agent of the verb in its primitive (non-णि or non-causal state), is called the कर्म or object, in its causative state (when the verb takes the affix णि).
Vasu English Translation¶
Of the verbs having the sense of ‘motion’, ‘knowledge or information’ and ‘eating’ and of verbs that have some literary work for their object and of intransitive verbs, that which was the agent of the verb in its primitive (non-णि or non-causal state), is called the कर्म or object, in its causative state (when the verb takes the affix णि). In the case of the roots that imply ‘motion,’ ‘knowledge’ or ‘information’ or some kind of ‘eating,’ and other roots having a similar sense; also of roots that have some literary work for their object, and of intransitive roots, that which is the subject of the verb in its primitive sense is put in the Accusative case in the causal, the object remaining unchanged; e. g.
PRIMITIVE - शत्रवः स्वर्गमगच्छन्, CAUSAL - शत्रून् स्वर्गमगमयत् ।
PRIMITIVE - स्वे वेदार्थमविदुः, CAUSAL - स्वान् वेदार्थम् अवेदयत् ।
PRIMITIVE - देवा अमृतमाश्नन्, CAUSAL - देवानमृतमाशयत् ।
PRIMITIVE - विधिर्वेदध्यैत, CAUSAL - विधिं वेदमध्यापयत् ।
PRIMITIVE - पृथ्वी सलिले आस्त, CAUSAL - पृथ्वीं सलिले आसयत् ।
But in गमयति रामो गोविन्दं (Rama makes Govind go) if some body else (विष्णु मित्र) prompts Rama to do this, we shall have to say, विष्णुमित्रो रामेण गोविन्दं गमयति ‘Vishnu mitra prompts Rama to cause Govind to go.’ Here ‘Rama’ is not put in the Accusative case, because it is the subject of the Verb, not in its primitive, but causal, sense. Patanjali, in his Mahabhashya, adds this explanation on the meaning of the word शब्दकर्म in the sutra गतिबुद्धि &c. शब्दकर्म may be either शब्दो येषां क्रिया or शब्दो येषं कर्म.
When we take the former interpretation, the roots ह्वयति (ह्वे) क्रंदति (क्रंद) and शब्दायते (denom. of शब्द) have to be excluded from the rule; as, ह्वयति देवदत्तः हाययति देवदत्तेन; क्रंदति-शब्दायते-देवदत्तः; क्रंदयति-शब्दाययति-देवदत्तेन. And the roots श्रु, ज्ञा with वि and लभ् with उप must be included in the rule; as, शृणोति विजानाति-उपलभते-देवदत्तः श्रावयति-विज्ञापयति-उपलंभयति-देवदत्तम्. When we adopt the second interpretation, the roots जल्प्, भाष् with आ and लप with वि, must be included in the rule; हल्पति-विलपति-आभाषते-देवदत्तः, जल्पयति-विलापयति-आभाषयति-देवदत्तं.
There are several exceptions and counter-exceptions to the preceding rule, which are important.
Vart:- The causals of नी ‘to lead’ and वह् ‘to carry,’ do not govern the Accusative, but the Instrumental; e. g. भृत्यो भारं नयति वहति वा A servant carries a load. भृत्येन भारं नाययति वाहयति वा (Siddhanta Kaumudi) (He) causes a servant to carry a load.
Vart:- But वह्, when it has for its subject in the causal a word signifying a ‘driver,’ obeys the general rule; as, वाहा रथं वहन्ति. Horses draw the chariot. वहंति यवान् वलीवर्दाः.
Vart:- (b). The causals of the roots अद् and खाद्, ‘to eat,’ govern the Instrumental case; e.g. वटुरन्नमत्ति खादति वा. The boy eats his food. वटुनान्नमादयति खादयति वा. (He) causes the boy to eat his food.
Vart:- (c). भक्ष्, when it has not the sense of हिंसा ‘injury to a sentient thing,’ governs the Instrumental; as, भक्षयति पिंडीं देवदत्तः, भक्षयति पिंडीं देवदत्तेन; but भक्षयति यवान् बलीवर्दाः, भक्षयति वली वर्दान् यवान्.
By ‘intransitive’ roots mentioned above is meant such roots as are not by their nature capable of governing an object other than that of ‘time,’ ‘place’ &c., and not those roots which, though transitive, may sometimes be used intransitively according to the speaker’s volition, or when their meaning is, quite evident; as, किंकरः पचरः पचति. Here पचति, though transitive, is used without an object, because it can be easily understood; hence किंकरेण पाचयति and not किंकरं; but मासमासयति देवदत्तं.
In forming the passive construction of causal verbs, the principal object in the causal, which is the subject (agent) of the verb in its primitive sense, is put in the Nominative case, and the other object remains unchanged; e. g.
PRIMITIVE - रामो ग्रामं गच्छति., CAUSAL ACTIVE - रामं ग्रामं गमयति., CAUSAL PASSIVE - रामो ग्रामं गम्यते ।
PRIMITIVE - Rama goes to a village., CAUSAL ACTIVE - (He) causes Rama to go to a village., CAUSAL PASSIVE - Rama is caused to go &c.
PRIMITIVE - भृत्यः कटं करोति, CAUSAL ACTIVE - भृत्येन भृत्यं वा कटं कारयति., CAUSAL PASSIVE - भृत्यः कटं कार्यते ।
PRIMITIVE - The Servant prepares a mat., CAUSAL ACTIVE - (He) causes the servant to prepare a mat., CAUSAL PASSIVE - The servant is made to prepare &c.
PRIMITIVE - गोविंदो मासमास्ते., CAUSAL ACTIVE - गोविंदं मासमासयति, CAUSAL PASSIVE - गोविंदो मासमास्यते ।
PRIMITIVE - Govind sits for one month., CAUSAL ACTIVE - (He makes Govind sit &c., CAUSAL PASSIVE - Govind is made to sit &c.
(a). But in the case of roots that imply ‘knowledge’ ‘eating,’ and those that have a literary work for their object, the principal object is put in the Nominative case, and the secondary in the Accusative, or vice versa e.g. माणवकं धर्मं बोधयति ‘he makes Manavaka know his duty’; माणवको धर्मं बोध्यते or माणवकं धर्मो बोध्यते ‘Manavaka is made known his duty’ or ‘duty is made known to Manavaka’; वटुमोदनं भोजयति ‘he makes the boy eat food:’ वटुरोदनं भोजयते or वटुमोदनां भोज्यते (Siddhanta Kaumudi).
With regards to roots that govern two accusatives, the rules mentioned above bold good in their case also; i.e., those roots that imply motion &c., govern the Accusative of the subject of the primitive Case, and others, the Instrumental case, sometimes; as, वामनो बलिं वसुधां याचते : (ईश्वरो) वामनेन बलिं वसुधां याचयति (God) makes Vamana ask Bali for Earth.’ गोपोऽजां नगरं हरति; (स्वामी) गोपं गोपेन वाजां नगरं हारयति. ‘(The master) makes the cowherd take the sheep to the town.’
Bhashya¶
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ शब्दकर्मेति कथमिदं विज्ञायते - शब्दो येषां क्रियेति, आहोस्वि-च्छब्दो येषां कर्मेति ? कश्चात्र विशेषः ? शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयत्यादीनां प्रतिषेधः ॥ 1 ॥ शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयत्यादीनां प्रतिषेधो वक्तव्यः । के पुर्नह्वयत्यादयः ? ह्वयति क्रन्दति शब्दायते ॥ ह्वयति देवदत्तः । ह्वाययति देवदत्तेन ॥ क्रन्दति देवदत्तः । क्रन्दयति देवदत्तेन ॥ शब्दायते देवदत्तः । शब्दाययति देवदत्तेनेति । शृणोत्यादीनामुपसंख्यानमशब्दक्रियत्वात् ॥ 2 ॥ शृणोत्यादीनां चोपसंख्यानं कर्तव्यम् । के पुनः शृणोत्यादयः ? शृणोति विजानाति उपलभ्यते ॥ शृणोति देवदत्तः । श्रावयति देवदत्तम् ॥ विजानाति देवदत्तः । विज्ञापयति देवदत्तम् ॥ उपलभते देवदत्तः । उपलम्भयति देवदत्तम् । किं पुनः कारणं न सिध्यति ? अशब्दक्रियत्वात् । अस्तु तर्हि - शब्दो येषां कर्मेति । शब्दकर्मण इति चेज्जल्पतिप्रभृतीनामुपसंख्यानम् ॥ 3 ॥ शब्दकर्मण इति चेज्जल्पतिप्रभृतीनामुपसंख्यानं कर्तव्यम् । के पुनर्जल्पतिप्रभृतयः ? जल्पति विलपति आभाषते ॥ जल्पति देवदत्तः । जल्पयति देवदत्तम् ॥ विलपति देवदत्तः । विलापयति देवदत्तम् ॥ आभाषते देवदत्तः । आभाषयति देवदत्तम् । दृशेः सर्वत्र ॥ 4 ॥ दृशेः सर्वत्रोपसंख्यानं कर्तव्यम् । पश्यति रूपतर्कः कार्षापणम् । दर्शयति रूपतर्कं कार्षापणम् । अदिखादिनीवहीनां प्रतिषेधः ॥ 5 ॥ अदिखादिनीवहीनां प्रतिषेधो वक्तव्यः ॥ अत्ति देवदत्तः । आदयते देवदत्तेन ॥ अपर आह - सर्वमेव प्रत्यवसानकार्यमदेर्न भवतीति वक्तव्यं परस्मैपदमपि। । इदमेकमिष्यते - क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसनार्थेभ्यः (3.4.76) । इदमेषां जग्धम् ॥ खादि - खादति देवदत्तः । खादयति देवदत्तेन ॥ नी-नयति देवदत्तः । नाययति देवदत्तेन । वहेरनियन्तृकर्तृकस्य ॥ 6 ॥ वहेरनियन्तृकर्तकस्येति वक्तव्यम् । वहति भारं देवदत्तः । वाहयति भारं देवदत्तेन ॥ अनियन्तृकर्तृकस्येति किमर्थम् ? वहन्ति बलीवर्दाः यवान् । वाहयति बलीवर्दान् यवान् । भक्षेरहिंसार्थस्य ॥ 7 ॥ भक्षेरहिंसार्थस्येति वक्तव्यम् । भक्षयति पिण्डीं देवदत्तः । भक्षयति पिण्डीं देवदत्तेन ॥ अहिंसार्थस्येति किमर्थम् ? भक्षयन्ति यवान्बलीवर्दाः । भक्षयति बलीवर्दान् यवान् । अकर्मकग्रहणे कालकर्मणामुपसंख्यानम् ॥ 8 ॥ अकर्मकग्रहणे कालकर्मणामुपसंख्यानं कर्तव्यम् ॥ मासमास्ते देवदत्तः । मासमासयति देवदत्तम् । मासं शेते देवदत्तः । मासं शाययति देवदत्तम् । सिद्धं तु कालकर्मणामकर्मकवद्वचनात् ॥ 9 ॥ सिद्धमेतत् । कथम् ? कालकर्मका अकर्मकवद्भवन्तीति वक्तव्यम् ॥ तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । अकर्मकाणामित्युच्यते न च केचित्कदाचित्कालभावाध्वभिरकर्मकाः । तं एवं विज्ञास्यामः क्वचिद्येऽकर्मका इति ॥ अथवा येन कर्मणा सकर्मकाश्चाऽकर्मकाश्च भवन्ति तेनाऽकर्मकाणाम्, न चैतेन कर्मणा कश्चिदप्यकर्मकः ॥ अथवा यत्कर्म भवति, न च भवति, तेनाऽकर्मकाणाम् । न चैतत्कर्म क्वचिदपि न भवति ॥ 52 ॥
Kashika¶
अर्थशब्दः प्रत्येकमभिसंबध्यते। गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानां च धातूनां तथा शब्दकर्मकाणामकर्मकाणां चाण्यन्तानां यः कर्ता, स ण्यन्तानां कर्मसंज्ञो भवति। गच्छति माणवको ग्रामम्। गमयति माणवकं ग्रामम्। याति माणवको ग्रामम्। यापयति माणवकं ग्रामम्॥ गत्यर्थेषु नीवह्योः प्रतिषेधो वक्तव्यः॥ नयति भारं देवदत्तः। नाययति भारं देवदत्तेन। वहति भारं देवदत्तः। वाहयति भारं देवदत्तेन॥ वहेरनियन्तृकर्तृकस्येति वक्तव्यम्॥ इह प्रतिषेधो मा भूत् — वहन्ति यवान् बलीवर्दाः। वाहयति यवान् बलीवर्दानिति। बुद्धि — बुध्यते माणवको धर्मम्। बोधयति माणवकं धर्मम्। वेत्ति माणवको धर्मम्। वेदयति माणवकं धर्मम्। प्रत्यवसानमभ्यवहारः — भुङ्क्ते माणवक ओदनम्। भोजयति माणवकमोदनम्। अश्नाति माणवक ओदनम्। आशयति माणवकमोदनम्॥ आदिखाद्योः प्रतिषेधो वक्तव्यः॥ अत्ति माणवक ओदनम्। आदयते माणवकेनौदनम्। खादति माणवकः। खादयति माणवकेन॥ भक्षेरहिंसार्थस्य प्रतिषेधो वक्तव्यः॥ भक्षयति पिण्डीं देवदत्तः। भक्षयति पिण्डीं देवदत्तेनेति। अहिंसार्थस्येति किम्? भक्षयन्ति बलीवर्दाः सस्यम्, भक्षयन्ति बलीवर्दान् सस्यम्। शब्दकर्मणाम् — अधीते माणवको वेदम्। अध्यापयति माणवकं वेदम्। पठति माणवको वेदम्। पाठयति माणवकं वेदम्। अकर्मकाणाम् — आस्ते देवदत्तः। आसयति देवदत्तम्। शेते देवदत्तः। शाययति देवदत्तम्। एतेषामिति किम्? पचत्योदनं देवदत्तः। पाचयत्योदनं देवदत्तेनेति। अण्यन्तानामिति किम्? गमयति देवदत्तो यज्ञदत्तम्, तमपरः प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः॥
Siddhanta Kaumudi¶
गत्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ॥ शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ 1 ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ॥गतीत्यादि किम् ? पाचयत्योदनं देवदत्तेन । अण्यन्तानां किम् ? गमयति देवदत्तो यज्ञदत्तं तमपरः प्रयुङ्क्ते गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ।<!नीवह्योर्न !> (वार्तिकम्) ॥ नाययति वाहयति वा भारं भृत्येन ॥<!नियन्तृकर्तृकस्य वहेरनिषेधः !> (वार्तिकम्) ॥ वाहयति रथं वाहान् सूतः ।<!आदिखाद्योर्न !> (वार्तिकम्) ॥ आदयति खादयति वा अन्नं बटुना ॥<!भक्षेरहिंसार्थस्य न !> (वार्तिकम्) ॥ भक्षयत्यन्नं बटुना । अहिंसार्थस्य किम् ? भक्षयति बलीवर्दान् सस्यम् ॥<!जल्पतिप्रभृतीनामुपसङ्ख्यानम् !> (वार्तिकम्) ॥ जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः ।<!दृशेश्च !> (वार्तिकम्) ॥ दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं न तु तद्विशे0षार्थनामित्यनेन ज्ञाप्यते । तेन स्मरति जिघ्रतीत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन ॥<!शब्दायतेर्न !> (वार्तिकम्) ॥ शब्दाययति देवदत्तेन । धात्वर्थसङ्गृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न संभवति तेऽत्राकर्मकाः । न त्वविवक्षितकर्माणोऽपि । तेन मासमासयति देवदत्तमित्यादौ कर्मत्वं भवत्येव । देवदत्तेन पाचयतीत्यादौ तु न ॥
Balamanorama¶
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौ - गतिबुद्धि । गतिश्च बुद्धिश्च प्रत्यवसानं च तानीति द्वन्द्वः । प्रत्यवसानं-भक्षणम् । गतिबुद्धिप्रत्यवसानानि अर्थो येषामिति विग्रहः । शब्दः कर्म येषां ते शब्दकर्मणः, तेषामिति बहुव्रीहिः । अविद्यमान कर्म येषां ते अकर्मकाः । उभयत्रापि कर्मशब्दः कारकपरः । गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकाश्च तेषामिति द्वन्द्वः । अणौ कर्ता-अणिकर्ता । यच्छब्दोऽध्याहार्यः । तदाह — हत्याद्यर्थानामित्यादिना । णौ अनुत्वपन्ने सति शुद्धधातुवाच्यां क्रियां प्रति यः कर्ता स ण्यन्ताधातुवाच्यां प्रयोजकव्यापारात्मिकां क्रियां प्रति कर्मसंज्ञकः स्यादित्यर्थः । क्रमेणोदाहरति — शत्रूनिति ।शत्रूनगमयत् स्वर्ग॑मिति गत्यर्थकस्योदाहरणम् । शत्रवो युद्धे मृताः स्वर्गमगच्छन्, तान् यः शस्त्रवातेनाऽगमयत् स्वर्गं, स श्रीहरिर्मे गतिरित्यत्रान्वयः । अत्र गमेरण्यन्तावस्थायां शत्रवो गमनक्रियां प्रति कर्तारः, स्वर्गस्तु कर्म । ण्यन्तावस्थायां तु णिज्वाच्यां प्रयोजकव्यापारात्मिकां शस्त्रघातक्रियां प्रति घातयिता हरिः कर्ता । शत्रवस्तु कर्म । शस्त्रघातजन्या या क्रिया स्वर्गप्राप्तिस्तदाश्रयत्वात् । एवंच हरिः प्रयोजककर्ता, शत्रवस्तु प्रयोज्यकर्तारः । प्रयोजककर्तुर्हरेः शाब्दं प्राधान्यम्, अन्यानधीनत्वलक्षणं चार्थप्राधान्यमस्ति । शत्रूणां तु अन्याधीनस्वर्गप्राप्तिकर्तृत्वं प्रयोकधीनत्वाद्गुणभूतमेव । सेषित्वलक्षणमार्थप्राधान्यं तु प्रयोज्यशत्रुगतकर्तृत्वस्यैव, प्रयोजकव्यापास्य प्रयोज्यस्वर्गप्राप्त्यर्थत्वादिति स्थितिः । तत्रान्यानधीनत्वलक्षणस्यार्थप्राधान्यस्य शाब्दप्राधान्यस्य च प्रयोजकव्यापारे सत्त्वात्तदनुरोधि शत्रुगतं कर्मत्वंकर्तुरीप्सिततम॑मित्येव सिद्धम् । अतो नियमार्थमिदं सूत्रेणिजर्थनाऽऽप्यमानस्य प्रयोज्यकर्तुर्यदि कर्मत्वं भवति तर्हि गत्यर्थादीनामेवे॑ति । तेन ‘पाचयति देवदत्तेन’ इत्यादौ प्रयोज्यकर्तुर्न कर्मत्वं, किंतु कर्तृत्वमेव । तदेतत्हेतुमिति चे॑ति सूत्रे भाष्यकैयटयोः स्पष्टम् । उक्तं च हरिणा — ॒गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः । नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ।॑ इति स्वधर्मेणेति । तृतीययेत्यर्थः । एवंच स्वर्गकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो यन्निष्ठो व्यापारः स श्रीहरिर्मे गतिरिति वाक्यार्थः । एवमग्नेऽप्यूह्रम् । वेदार्थं स्वानवेदयदिति । बुद्ध्यर्थधातोर#उदाहरणम् । स्वशब्द आत्मीयपरः । स्वे=स्वकीयाविधिप्रमुखा वेदार्थमविदुः, तान् हरिर्वेदार्थमवेदयदित्यर्थः । अत्र स्वेषां प्रयोज्कर्त्तृणां कर्मत्वम् । आशयच्चामृतं देवानिति । प्रत्यवसानार्थस्य उदाहरणम् । देवा अमृतमाश्नन्, तान् हरिराशयदित्यर्थः । वेदमध्यापयद्विधिमिति । शब्दकर्मण उदाहरणमेतत् । विधिब्र्राहृआ वेदमधीतवान्, तं हरिरध्यापयदित्यर्थः । अत्र प्रयोज्यकर्तुर्विधेः कर्मत्वम् । आसयत्सलिले पृथ्वीमिति । अकर्मकस्योदाहरणम् । सलिले पृथ्वी आस्त, तां हरिरासयदित्यर्थः । अत्र पृथिव्याः प्रयोज्यकर्त्र्याः कर्मत्वम् । यः स मे श्रीहरिर्गतिरिति प्रतिवाक्यमन्वयः ।नीवह्र्रोनेति । ‘णीञ् प्रापणे,’ ‘वह प्रापणे’ इत्यनयोण्र्यन्तयोः प्रयोज्यकर्तु॒र्गतिबुद्धी॑त्युक्तं नेति वक्तव्यमित्यर्थः । नाययति वाहयति वेति । भृत्यो भारं नयति वहति वा, तं प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुर्भृत्यस्य णिच्प्रकृत्यर्थं नयं वहनं च प्रति कर्तुः प्रयोजकव्यापारं प्रतिकर्मत्वे निवृत्ते णिच्प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वे नावस्थानात्तृतीया बोध्या । यद्यपि नीवग्योः प्रापणमर्थः, तथापि गत्यनुकूलव्यापारार्थके प्रापणे गतेर्विशेषणत्वेन प्रविष्टतया गत्यर्थत्वात्प्राप्तिरिति भावः । नियन्तृकर्तृकस्येति । एवंच तत्र प्रयोज्यकर्तुरुक्तस्यनीवह्रोर्ने॑ति प्रतिषेधस्याऽभावे सति प्रयोज्यस्य कर्मत्वं वक्तव्यमिति फलितम् । वाहयतीति । बाहाः=अआआ वहन्ति, तान् सूतः प्रेरयतीत्यर्थः ।नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॑ इत्यमरः ।वहन्ति बलीवर्दा यवान्, वाहयति बलीवर्दान् देवदत्तः॑ इति बाष्योदाहरणान्नियन्ता पशुप्रेरक एव विवक्षितः ।अदिखाद्योर्नेति । अद भक्षणे, खादृ भक्षणे, अनयोः प्रयोज्यकर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । प्रत्यवसानार्थकत्वात् प्राप्तिः । आद्यति खादयति वेति । अत्ति खादति वा अन्नं बटुः, तं प्रेरयतीत्यर्थः । भक्षेरिति । अहिंसार्थकस्य भक्षधातोः प्रयोजकर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । ननुगतिबुद्धी॑ति सूत्रे अणौ कर्तुर्णौ कर्मत्वमुक्तम् । भक्षधातुस्तु चुरादित्वान्नित्यं स्वार्थिकण्यन्तः, तस्याऽणिकर्ता नास्त्येव । अतस्तस्य कर्मत्वनिषेधोऽनुपपन्नः, अप्रसक्तत्वादिति चेन्न, अत एव निषेधाल्मलिङ्गात्गतिबुद्धी॑ति सूत्रे णिग्रहणेन हेतुमत एव विवक्षितत्वात् । एवंच हेतुमण्णिचि अनुत्पन्ने सति अण्यन्तभक्षिधातुवाच्यां क्रियां प्रति कर्तुर्हेतुमण्ण्यन्तवाच्यां क्रियां प्रति कर्मत्वमित्यर्थः पर्यवस्यतीति न दोषः । भक्षयत्यन्नं बटुनेति । चुरादिण्यन्ताद्भक्षधातोर्हेतुमण्णिचि पूर्वणेर्लोपे हेतुमण्ण्यन्तात्तिबादौ सति भक्षयतीति रूपम् । एवंच भक्षयत्यन्नं बटुः । खादतीत्यर्थः । तं प्रेरयतीति ण्यन्तस्यार्थः । भक्षयति बलीवर्दानिति । क्षेत्रे प्ररूढमूलनं सस्यमिह विवक्षितम् । तस्य तदानीमन्तःप्रज्ञजीवत्वात्तद्भक्षणं हिंसैवेति भावः ।जल्पतिप्रभृतीनामिति । एतेषामणौ यः कर्ता स णौ कर्म स्यादिति वक्तव्यमित्यर्थः । जल्पयति भाषयति वेति ।धर्म मिति शेषः । पुत्रो धर्मं जल्पति भाषते वा, तं देवदत्तः प्रेरयतीत्यर्थः । गत्यर्थादिष्वनन्तर्भावाद्वचनम् । नच शब्दनक्रियार्थत्वादेव सिद्धे वचनमिदं व्यर्थमिति वाच्यम्, अत एवशब्दकर्माकर्मकाणा॑मित्यस्य शब्दः कर्म कारकं येषामित्यर्थात् । अन्यथा वेदमध्यापयद्विधिमित्यसिद्धेः । वार्तिके आदिना व्याहरतिवदत्यादीनां सङ्ग्रहः । भाष्ये तुके पुनर्जल्पतिप्रभृतयः । जल्पति विलपति आभाषते॑ इत्येवोक्तम् । परिगणनमित्येके, उदाहरणमात्रप्रदर्शनमित्यन्ये ।दृरोश्चेति । ‘दृशिर्प्रेक्षणे’ अस्याप्यणौ यः कर्ता स णौ कर्म स्यादिति वक्तव्यमित्यर्थः । दर्शयतीति । हरि भक्ताः पश्यन्ति, तान् गुरुः प्रेरयतीत्यर्थः । ननु दृशेर्बुद्धिविशेषात्मकत्वादेव सिद्धे किमर्थमिदं वचनमित्यत आह-सूत्रे इति ।गतिबुद्धी॑ति सूत्रे बुद्धिग्रहणेन ज्ञानसामान्यवाचिनांविद ज्ञाने, ज्ञा अवबोधने॑ इत्यादीनामेव ग्रहणं नतु ज्ञानविशेषवाचिनामित्येतत्दृरोश्चे॑त्यनेन विज्ञायते । अन्यथादृरोश्चे॑त्यस्य वैयथ्र्यप्रसङ्गात् । तेनेति । ज्ञापनेनेत्यर्थः । स्मरति जिघ्रतीत्यादीनामिति । आदिना प्रेक्षते इत्यादीनां सङ्ग्रहः । स्मारयतीति । स्मरति प्रियां देवदत्तः, जिघ्रति चन्दनं देवदत्त, तं यज्ञदत्तः, प्रेरयतीत्यर्थः ।शब्दायतेर्नेति । शब्दं करोतीत्यर्थेशब्दवैरे॑त्यादिना क्यङि,अकृत्सार्वधातुकयो॑रिति दीर्घे, ‘सनाद्यन्ताः’ इति धातुत्वे श्तिपा निर्देशोऽयम् । शब्दायेति क्यङ्न्तधातोरणौ कर्ता णौ कर्म नेति वक्तव्यमित्यर्थः । शब्दाययति देवदत्तेनेति । शब्दायते देवदत्तः, तं यज्ञदत्तः प्रेरयतीत्यर्थः । देवदत्तस्य कर्मत्वाऽभावात्प्रयोज्यकर्तृत्वमादाय तृतीयैव । अत्र शब्दकर्मकत्वात्प्राप्तिरिति भ्रमं निरस्यति-धात्वर्थेति । शब्दकर्मकमुत्पादनं शब्दायेति क्यङन्तस्य धातोरर्थः । एवं च शब्दात्मकं कर्म धात्वर्थेऽन्तर्भूतम्, अतः शब्दस्येति क्यङन्तदातुरकर्मकः,धात्वर्थबहुर्भूतकर्मकत्वमेव सकर्मकत्वमि॑ति ‘सुप आत्मनः’ इति सूत्रे भाष्ये प्रपञ्चितत्वात् । तस्मादकर्मकत्वादेवात्र प्राप्तिरित्यर्थः । एवं चशब्दाययति सैनिकै रिपून् इति कर्म प्रयुञ्ज्ञानाः परास्ताः । ननु मासमास्ते देवदत्तः, तं प्रेरयति मासमासयति देवदत्तं यज्ञदत्त इत्यत्र देवदत्तस्य प्रयोज्यकर्तुः कर्मत्वं न स्यात् । आसधातोर्गत्यादिष्वनन्तर्भावात् । नचाकर्मकत्वात्तदन्तर्भाव इति वाच्यम्,अकर्मकधातुभिर्येगे॑इति मासस्य कर्मतया आसेरकर्मकत्वाऽसंभवात् । किं च ओदनादिकर्मणोऽविवक्षायां देवदत्तः पचति,पाचयति देवदत्तेन यज्ञदत्त #इत्यत्र प्रयोज्यकर्तुर्देवदत्तस्य कर्मत्वं स्यात्, तदानीं पचेरकर्मकत्वेन गत्यादिष्वन्तर्भावादित्यत आह — येषामिति । इदं च प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् ।
Tattvabodhini¶
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौ - गतिबुद्धि । प्रत्यवसानं-भक्षणम् । शब्दकर्मणामिति । शब्दः कर्म कारकं येषां तेषामित्यर्थः । कर्मशब्दो ह्यत्र कारकपरः, न तुकर्तरि कर्मव्यतिहारे॑इत्यत्रेव क्रियापरः, कृत्रिमे कार्यसम्प्रत्ययात्, कर्मग्रहणसामर्थ्याच्च । अन्यथा हिगतिवुद्धिप्रत्यवसानशब्दार्थाऽकर्मकाणाम्इत्येव ब्राऊयात् । अणौ यः कर्तेति । अनुपत्पन्ने णिचि — शुद्ध धातुवाच्यां क्रियां प्रतिः यः कर्ता स ण्यन्तधातुवाच्यां क्रियां प्रति कर्मसञ्ज्ञः स्यादित्यर्थः । नियमार्थमेतत्सूत्रमिति प्राञ्चः ।णिजर्थेनाऽऽप्यमानस्य यदि भवति तर्हि गत्यर्थादीनामेव कर्तु॑रिति । तेन पाचयति देवदत्तो यज्ञदत्तेनेत्यत्र प्रयोज्ये कर्तरि प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वेनाऽवस्तानात्तृतीय सिध्यति । उक्तं च — ॒गुणिक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः । नियमात्कर्मसञ्ज्ञायाः स्वधर्मेणाभिधीयते॑ इति । कर्तुः स्वधर्मेण — तृतीययेत्यर्थः । ननु णिजर्थं प्रति कर्तृत्वं बाधित्वा प्रकृत्यर्थं प्रति कर्तृत्वं परत्वादेव सिद्धम्, अन्तरङ्गत्वाच्च । स्वकारकविशिष्टा हि क्रिया णिजर्थेन सम्बध्यते, हेतुमति णिज्विधानात् । कर्तृप्रयोजकस्य हेतुत्वात् । अतएव उपजीव्याऽपि कर्तृसञ्ज्ञा । एवञ्च -॒परत्वादन्तरङ्गत्वादुपजीव्यतयाऽपि च । प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेर्विधितोचिता॑ । यद्यपि विधिपक्षेऽपि लक्ष्यं निर्बाधमेव, तथापि नियमसूत्रमिदमिति प्राचां ग्रन्थो विरुध्यत इति चेत् । अत्राहुः — णिजर्थस्य शाब्दं प्राधान्यं पुरस्कृत्य प्रधानानुरोधिन्याः कर्मसञ्ज्ञायाः प्राबल्याद्विप्रतिषेध एव नास्तीति परत्वात्कर्तृत्वसिद्धिरित्येतन्न सङ्गच्छते । अन्तरङ्गत्वेपजीव्यत्वे अपि प्रधानं प्रति प्राबल्यं न प्रयोजयतः, ततश्च नियमार्थत्वेक्तिः प्राचां निर्बाधैवेति । गत्यादिण्यन्तान्क्रमेणोदाहरति — शत्रूनिति । शत्रवः स्वर्गमगच्छन्, तान् श्रीहरिः स्वर्गमगमयदिति — गमेरण्यन्तावस्थायां शत्रवः कर्तारस्ते ण्यन्तावस्थायां कर्म अभवन् । स्वकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो यन्निष्टो व्यापारः स श्रीहरिर्मे गतिरिति वाक्यार्थः । एवमग्रेऽप्यूह्रम् । वेदार्थमिति । स्वे=स्वकीया वेदार्थमविदुः, तान् श्रीहरिवेदार्थमवेदयत् । तथा देवा अमृतमाश्रन्, तानाशयत् । विधिः वेदमध्यैत, तं ब्राहृआणं वेदमध्यापयत् — अपाठयत् । सलिले पृथ्वी आस्त, तां यो हरिरासयत्स्थापयतिस्म स हरिर्मे गतिरित्यन्वयः । ननु शत्रूण#आमनेन कर्मत्वे कृते कर्मण ईप्सिततमः स्वार्गो, न तु कर्तुरिति कर्तुरीप्सिततमत्वाऽभावात्स्बर्गस्य कर्मत्वं न स्यात् । अत्र केचित् -॒गतिबुद्धि -॑इति कर्मत्वस्य बहिरङ्गत्वेन ततः पूर्वमेव धात्वर्थव्यापारप्रयुक्तं कर्मत्वं स्वर्गस्य निर्वाधमित्यदोष इति । अन्येतु -॒कर्तुरीप्सिततमम् -॑इत्यत्र कर्तृग्रहणं स्वतन्त्रस्योपलक्षणम् । स्वातन्त्रे सङ्केतितस्य कर्तृ पदस्य तत्रैव लक्षणा न सङ्गच्छते, एकस्यैकस्मिन्नेवार्थे शक्तिलक्षणोभयाभ्युपगस्य शास्त्रकाराऽसम्मतत्वादिति वाच्यम्, सञ्ज्ञान्तरानुपहितस्वतन्त्रे सङ्केतितस्य सञ्ज्ञान्तरोपहितानुपहितसाधारणे स्वतन्त्रे लक्षणाभ्युपगमे बाधकाऽभावात् । अतएव जिधातोर्जये शक्तिः, प्रकृष्यजये लक्षणा ।शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा॑इति । तेन प्रजयतीत्यत्र प्रशब्दो द्योतकः, प्रकृष्टजयस्तु जिधातोरेवार्थ इति नैयायिकोक्तिः सङ्गच्छते । नापि कर्तृपदस्य स्वतन्त्रलक्षणायां प्रमाणाऽभावः शङ्क्यः ।प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम् । अप्रधाने दुहादीनाम् इत्युक्त्वाण्यन्ते कर्तुश्च कर्मणः॑इतिवदतो भाष्यकारस्यैव प्रमाणत्वात् । न हि लक्षणां विना णिजन्तानां द्विकर्मकता लभ्यते, येनण्यन्ते क्रतुः॑इति वचनं सावकाशं स्यादित्याहुः ।नीवह्रोर्न । नीवह्रोरिति । यद्यप्यनयोः प्रपणमर्थो न गतिः, तथापि गतिरपि विशेषणीभूय प्रापणममध्ये प्रविष्टेत्येतावन्मात्रेण प्राप्त मत्वा प्रतिषेध उक्तः ।नियन्तृकर्तृकस्य वहेरनिषेधः । नियन्त्रिति । नियन्ता पशिप्रेरकः, न तु सारथिरेवेति । तेनवाहयति बलीवर्दान्यवा॑निति सिध्यति । अस्मादेव भाष्योदाहरणात्रूढिर्योगमपहरति॑इति न्यायोऽत्र न स्वीक्रियते । अनिषेध इति ।प्रयोज्यः कर्मे॑ति वक्तव्यमिति फलितोऽर्थः । यैस्तु प्रापणं गतिशब्देन गृह्रते यौर्वा न गृह्रते उभयेषामपीदं वचनमावस्यकम् ।नीवह्रोर्ने॑ति वचनं तु यैः प्रापणं गतिशब्देन गृह्रते तेषामनावश्यकमिति बोध्यम् । सूत इति ।नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॑ इत्यमरः । प्रत्यवसानार्थत्वात्कर्मत्वे प्राप्ते निषेधमाह - ।अदिखाद्योर्न । अदिखाद्योरिति ।अद भक्षणे॑खादृ भक्षणे॑ । प्राचा तु आदीति पटते, तत्तु ण्यन्तावस्थानुकरणमिति बोध्यम् । आदयतीति ।इह निगरणचलनार्थेब्यश्च॑इति परस्मैपदनियमो न प्रवर्तते,अदेः प्रतिषेधः॑ इथि तस्य निषिद्धत्वात् । तेनाऽक्रत्र्रभिप्राये क्रियाफलेशेषात्कर्तरि॑ — इति परस्मैपदम्, कत्र्रभिप्राये तुणिचश्च॑इत्यात्मनेपदं भवत्येवेति बोध्यम् ।भक्षेरहिंसार्थस्य । ननुगतिबुद्धि — ॑इति सूत्रेणाऽणौ कर्तृर्णौ कर्मत्वं विधीयते न तु णौ कर्तुरिति प्राप्तेरेवाऽभावान्निषेधोऽयं व्यर्थ इति चेत् । अत्राहुः — हेतुमण्णिजन्ते विधिरिति निषेधोऽप्यणावित्ययं सन्निधानाद्धेतुमण्णिज्विषय एव, तेन चुरादिणिजन्तेऽपि भक्षयतौ प्राप्तिसत्त्वात्तन्निषेध उपसङ्ख्यात इति । भक्षयतीति । बलीवर्दाः सस्यं भक्षयन्ति । तान् भक्षयतीत्यर्थः । क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिंसा ज्ञेया, तस्यामवस्थायां तेषां चेतनत्वात् ।जल्पति प्रभृति नामुपसङ्ख्यानम् । जल्पपतिपर्भृतीनाममिति ।जप जल्प व्यक्तायां वाचि॑ । पुत्रो धर्मं जल्पति, तं देवदत्तो जल्पयतीति अण्यन्तावस्थायां पुत्रः कर्ता, ण्यन्तावस्थयां कर्म अभवत् । तथा पुत्रो धर्म भाषते, तंत भाषयति देवदत्तः । नच जल्पतिभाषत्योः शब्दक्रियत्वेनगतिबुद्धि — ॑इति सूत्रेणैव सिद्धे उपसङ्ख्यानामिदं व्यर्थमिति भ्रमितव्यम् ।शब्दकर्मणा॑मित्यस्य शब्दः कर्मकारकं येषामित्यर्थात् । अन्यथावेदमध्यापयद्विधिम्इत्यादेरसिद्धिप्रसङ्गात् । एवं पुत्रो यत्किञ्चिद्विलपति, तं विलापयतीत्याद्यप्यूह्रम् ।दृशेश्च । स्मारयतीति । आध्यानार्थकस्यैव स्मरतेःघटादयो मितः॑इति मित्त्वं, न चिन्तार्थकस्येति भावः ।शब्दायतेर्न । देवदत्तेनेति ।स्मारयत्येनं वनगुल्म॑इत्यत्र तुणेरणौ -॑इति सूत्रे भाष्ये प्रयोगादेब कर्मत्वं बोध्यम् । शब्दाययतीति । शब्दं करोतीत्यर्थेशब्दवैर -॑इत्यादीना क्यङ् । ततो हेतुमण्णिच् । धात्वर्थ संगृहीतेति । एतेनशब्दाययति सैनिकै रिपू॑निति कर्म प्रयुञ्जानाः परास्ताः । न त्वविवक्षितकर्माणोऽपीति । यथालः कर्मणि च॑इति सूत्रे अविवक्षितकर्माणोऽप्यकर्मका इति गृह्यन्ते, तथैवेहापि यदि गृह्रेरन् तदा ओदनादिकर्मणोऽविवक्षायांपाचयति देवदत्त॑मिति स्यात्, न तु देवदत्तेन पाचयतीति । एवंगत्यार्थाकर्मक -॑इति सूत्रेऽप्यविवक्षितकर्माणोऽकर्मका इति न गृह्यन्ते । दत्तवान् पक्ववान् इत्यर्थे दत्तः पक्व इत्यापत्तेः । यत्तु प्राचा — ॒अयक्रन्दशब्दायह्वेञां न॑इत्युक्तं, तदयुक्तम् । अयतेर्निषेधस् निर्मूलत्वेन अणौ कर्तुर्णौ कर्मत्वस्य तत्रेष्टत्वात् । क्रन्दह्वेञोस्तु शब्दक्रियत्वेऽपि शब्दः कर्म कारकं नेति प्राप्तेरेवाऽभावाच्चेतिस्थितं मनोरमायाम् । यद्यपिश्रुग्रहदृशाम्इति कर्मत्वमुक्तं, तत्र दृशिग्रहणं प्रामाणिकमेव । शृणोतेस्तु शब्दकर्मकत्वात्सिद्धम् । ग्राहेर्द्विकर्मकत्वं यद्यपिअञि ग्रहत्तं जनक#ओ धनुस्तत्इति भट्टिप्रयोगस्य,अयाचितारं न हि देवदेवमद्रिः सुतां ग्रहयितुं शशाके॑ति कालिदासप्रयोगस्य चाऽनुगुणं, तथापि बहूनामसम्मतमेव । अतएवतं बोधितवान्, सुतां ग्राहयितुमुद्वाह्रत्वेन बोधयितुम्इत्येवमुक्तप्रयोगं समर्थयाञ्चक्रिरे । न च बुद्द्यर्थत्वं विनापि यथाश्रुतार्थेस एव ग्राहोर्द्विकर्मकत्वमस्त्विति वाच्यम्, तथा हि सतिजायाप्रतिग्राहितगन्धमाल्या॑मित्यत्र क्तप्रत्ययेनाऽभिधानं प्रयोज्यकर्मीभूतधेनोः स्यान्न तु गन्दमाल्यकर्मणः,ण्यन्ते कर्तुश्च कर्मणः॑इत्युक्तेः । जायाप्रेरिता हि धेनुर्गन्धमाल्ये प्रतिगृह्णातीति भवत्येव धेनुः प्रयोज्यकर्म । ततश्चजयया गन्धमाल्ये प्रतिग्राहिता॑मिति स्यात्, क्तप्रत्ययानभिहितत्वेन गन्धमाल्यकर्मणि द्वितीयायाः प्रवृत्तेः । सिद्धान्तेः । सिद्धान्ते तु जायया प्रतिग्राहिते गन्धमाल्ये ययेति विग्रहः, द्विकर्मकत्वाऽभावेन गन्धमाल्यस्यैव क्तप्रत्ययेनाऽभिहितत्वात् ।यये॑ति तृतीया तु णिजर्थं प्रति जायायाः कर्तृत्वेऽपि णिच्प्रकृत्यर्थं प्रतिग्रहं प्रति धेनोः कर्तृत्वादुपपद्यते । एवञ्चेह जायानिष्ठप्रेरणविषयीभूतं गन्धमाल्यकर्मकं यत्प्रतिग्रहणं तत्तत्र्रीमिति वृत्त्यर्थः । यद्यपि धेनुकर्तृकं जायानिष्ठप्रेरणाविषयीभूतं गन्धमाल्यकर्मकं यत्प्रतिग्रहणं तत्कर्मीभूते गन्धमाल्ये इथि विग्रहार्थः, तथाप्यन्यपदार्थान्तरभावेणैव विशेषणविशेषष्यभाववैपरीत्येनैकार्थीभावः कल्प्यत इति नास्त्यत्राऽनुपपत्तिरिति दिक् ।
Padamanjari¶
गमयति माण वकं ग्राममिति। कथमत्र ग्रामस्य कर्मत्वम्, यावता कर्तुरीप्सिततमं कर्मेत्युच्यते,न च संप्रति माणवकः कर्ता; अनेन कर्मसंज्ञकत्वात्। तत्र यथा माषेष्वश्वं बध्नातीत्यत्र वस्तुतो बक्षणेनेप्सिततमानामपि माषाणां कर्मसंज्ञा न भवति, तत्कस्य हेतोः? अश्वस्य संप्रत्यकर्तृत्वात्, तद्वदत्रापि न प्राप्नोति; मा भूण्णिच्युत्पन्ने माणवकः कर्ता, प्राक्तदुत्पतेः प्रकृत्यर्थे कर्ता भवति, तदानीमेव च ग्रामस्याभिसम्बन्धः ग्रामकर्मण्यसौ गमने प्रेष्यते - ग्रामं गच्छेति। अतो यस्यामवस्थायां ग्रामस्य कर्मत्वं न तस्यां माणवकस्य कर्मत्वम्, यस्यां च ण्यन्तावस्थायां माणवकस्य कर्मत्वं न तस्यां ग्रामस्य कर्मत्वम्; पूर्वप्रवृतत्वाद्। माषेष्वश्वमित्यत्र तु नैवं संभवति। यापयतीति।’या प्रापणे’ इत्यत्र प्राप्त्या गतिर्लक्ष्यतैति यातिर्गत्यर्थः। नीवह्यएरिति। नन्वेतयोर्गतिफलं प्रापणमर्थो न गतिः,’न गतिहिंसार्थेभ्यः’ इत्यत्र च भाष्यम् - न’वहिर्गत्यर्थः’ इति, सत्यम्; गुणभावेनापि गतिः प्रतीयत इति मत्वा प्रतिषेध उक्तः। वहेरनियन्तृकस्येति। वक्ष्यामीति चोपक्षेपः। वाहयति बलीवर्दान्यवानित्यत्राणौ बलीवर्दाः कर्तारः, ण्यन्ते तु नियन्ता सारथिः कर्ताः, तत्र प्रतिषेधप्रतिषेधाद्विधिरेव भवति। बुध्यर्थग्रहणेन ज्ञानमात्रवाचिनामेव ग्रहणम्, न तु तद्विशेषवाचिनां स्मरत्यादीनामित्याहुः। वृतावपि तथैवोदाहृतम्। आदिखाद्योरिति। अपर आह - सर्वमेव प्रत्यवसानकार्यमदेर्न भवति, नावश्यमियमेव कर्मसंज्ञेति’निगरणचलनार्थेभ्यश्च’ इति पदमपि न भवति, इदमेकमिष्यते -‘क्ते’ धिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यःऽ - इदमेषां जग्धमिति। भक्षेरिति। गत्यर्थादिषु प्रायेण हेतुमण्णिच एव संभवाद् हेतुमण्णिचो विधिरिति प्रतिषेधोऽपि प्रत्यासतेस्तस्यैव न्याय्य इति चुरादिणिजन्तोऽप्यण्यन्तएवेति भक्षेः प्राप्तिः। भक्षयति बलीवर्दान् सस्यमिति। क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिसा भवति, तस्यामवस्थायां कैश्चिच्चैतन्याभ्युपगमात्। स्वामिनो वा हिसा द्रष्यव्या। इह कर्मशब्देन क्वचित्क्रिया गृह्यते, यथा -‘कर्तरि कर्मव्यतीहारे’ इति, क्वचित् साधनकर्मा -‘वेः शब्दकर्मणः’ इति, इह शब्दक्रियाणामिति चेत्?’ह्वयत्यादीनां प्रतिषेधः’ - ह्वयति पुत्रं देवदतः, ह्वापयति पुत्रं देवदतेन; क्रन्दति पुत्रं देवदतः, क्रन्दयति पुत्रं देवदतेन; शब्दायते देवदतः, शब्दाययते देवदतेन। अकर्मकत्वादथात्र प्रसङ्गः, शब्दलक्षणकस्य कर्मणोऽन्तर्भावात् कर्मान्तरायोगाच्च।’शृणोतेश्चोपसङ्ख्यानम्’ - अशब्दक्रियत्वात् शृणोति श्लोकं देवदतः, श्रावयति श्लोकं देवदतम्; न च बुध्यर्थत्वादत्र सिद्धिः, चेतत्यादयो हि ज्ञानमात्रवचना बुध्यर्थाः। अस्तु तर्हि साधनकर्मणो ग्रहणम्, शब्दकर्मण इति चेत्? जल्पतिप्रभृतीनामुपसंख्यानम्, जल्पति पुत्रं देवदतः, जल्पयति पुत्रं देवदतम्; विलपति पुत्रं देवदतः, विलापयति पुत्रं देवदतम्; आभाषते पुत्रं देवदतः आभाषयति पुत्रं देवदतम्। द्दशेः सर्वत्र, यद्यपि क्रियाग्रहणमथापि साधनग्रहणम्, अथाप्युभयग्रहणम्-सर्वथा द्दशेरुपसंख्यानम्। पश्यति रूपतर्क कार्षापणम्, दर्शयति रूपतर्क्ंअ कार्षापणम्। यदा चायंद्दशिः चक्षुः साधनके ज्ञानविशेषे वर्तते तदेतद्वक्तव्यम्; ज्ञानमात्रवचनत्वे तु बुध्यर्थत्वादेव सिद्धम्; तदेवमुभयोरपि पक्षयोर्द्दोषान्तं भाष्यं नान्यतरः पक्षो निरणायि। वृत्तिकारस्तु ये शब्दक्रियाः शब्दसाधनकर्माणश्च तानविवादसिद्धानुदाहरतिवचनेन बोधयतीत्यर्थः। एमन्यत्रापि। तत्र बुद्ध्यर्थत्वादेव सिद्धम्। यद्यप्यन्या बुद्धिरन्या बोधना, उपसर्जनीभूतापि तावद्बुद्धिरस्तीति बुद्धर्थत्वमस्त्येव, उपसर्जनीभूतोऽपि च गत्यादिरर्थो गृह्यते, अन्यथा गमयतीत्यादीनामगत्यर्थत्वादेवाप्रसङ्गादणिग्रहणमनर्थकं स्यादिति, अस्तु चेतनविषये, एवमचेतनविषये कथम्? यः कंचिज्जल्पति तमन्यो जल्पयति, न ह्यत्र प्रबोधनाप्यस्ति। अकर्मकाणामिति। कालभावाध्वगन्तव्यदेशव्यतिरिक्तकर्मरहितानामित्यर्थोऽत्र ग्राह्यः, अन्यथा मासमास्ते देवदतः, मासमासयति देवदतम्, गोदोहमासयति, क्रोशमासयति, कुरूनासयतीत्यत्र न स्यात्; कालादिकर्मणा सकर्मकत्वात्। एवं’लः कर्मणि च’ इत्यादावपि यत्राकर्मकग्रहणं तत्र सर्वत्र द्रष्टव्यम्, तेन मासमास्यते देवदतेनत्यादौ भावे लादयः सिद्धा भवन्ति। उक्तञ्च - सिद्धं तु कालकर्मणाकर्मकत्वद्वचनादिति। कालग्रहणमुपलक्षणम्। वत्करणात्स्वाश्रयमपि भवति - मास आस्यते देवदतेन - मासकर्मणि लो भवति। स तर्ह्यकर्मकवचनाद् भावे वक्तव्यः? न वक्तव्यः; अकर्मकाणामित्युच्यते, न च कालादिभिः केचिदकर्मकाः। कालादिभिरप्यकर्मकाः यदा ते न विवक्ष्यन्ते, तद्यथा - शेते देवदतो न भुङ्क्ते इति। नाप्यविवक्षितकर्माणोऽकर्मकाः, किं तर्हि? येऽत्यन्ताविद्यमानकर्माणो धातवोऽकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मणा स्वरूपावधिकमकर्मकत्वं कस्यापि सम्भवतीति सामर्थ्यातद्व्यतिरिक्तेन कर्मणाऽकर्मकत्वं विज्ञायते। किमर्थं पुनरिदमुच्यते, यावता स्वव्यापारे स्वतन्त्रस्यापि प्रयोज्यस्य प्रयोजकव्यापारे विवक्षिते तेन प्रधानभूतेनाप्यमानत्वाद् अन्तरङ्गत्वेन पूर्वप्रवृतामपि कर्तृ संज्ञां बाधित्वा कर्मसंज्ञा भविष्यतीति? एवं तर्हि सिद्धे सत्यारम्भो नियमार्थः-प्रयोजकव्यापारेणाप्यमानस्य यदि भवति गन्यर्थादीनामेव, नान्येषामिति। तेन पाचयत्योदनं देवदतो यज्ञदतेनेत्यत्र पूर्वं प्रवृताया एव कर्तृ संज्ञाया अवस्थानात् कर्तरि तृतिया भवति। उक्तं च - गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः। नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते॥ इति। कर्तुः स्वधर्मार्तृतीया। अथ कथम् - अयचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक। इति? स्वतन्त्राः कवयः। यद्वा - सुतां प्रति किञ्चिदुद्वाहविषये ग्राहयितुं बोधयितुं न शशाकेत्येवं व्याख्येयम्; तत्र बुध्यर्थत्वात् सिद्धम्॥
Nyaas¶
यापयति इति। अर्तिह्यी (7.3.36) इत्यादिना पुक्।वक्तव्यः इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - उत्तरसूत्रे (1.4.53) अन्यतरस्यांग्रहणमुभयोर्योगयोः शेषभूतो विज्ञायते, सा च व्यवस्थितविभाषा; तेन नीवह्रोर्न भविष्यति।वहेः इत्यादि। नियच्छति = विशिष्टे विषयेऽवस्थापयतीति नियन्ता सारथिः, अविद्यमानो नियन्ता कर्ता यस्य स तथोक्तः, तस्य। नीवह्योः प्रतिषेधो वक्तव्यः (वा।62) इति योऽनन्तरोक्तः स वहेरनियन्तृकर्त्तृकस्य भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - तस्यैवान्यतरस्यांग्रहणस्य व्यवस्थितविभाषा त्वान्नियन्तृकर्त्तृकस्य वहेः कर्मसंज्ञा भविष्यतीति।आदिखाद्योः इत्यादि। अत्रापि वक्तव्यशब्दस्य पूर्ववदेवार्थः। व्याख्यानमपि पूर्ववदेव कर्तव्यम्। भक्ष्यति पिण्डी देवदत्तः इति। चुरादिणिच्। भक्षयति पिण्डीं देवदत्तेन` इति। हेतुमण्णिच्। भक्षयति बलीवर्द्दान् शस्यम् इति। भक्षिरत्र हिंसार्थः। सर्वे सचेतना भावाः इत्यस्मिन् दर्शे हिंसितं शस्यमिति शस्यस्य भक्षणेन देवदत्तो हिंसितो भवति। यस्य हि तच्छस्यं तस्य हिंसा गम्यते।शब्दकर्मणाम् इति। शब्दग्रहणेनेह पारिभाषिकं कर्म गृह्र।ते, न तु क्रिया। क्रिया ग्रहणे हि कर्म ग्रहणमनर्थकं स्यात्। कारकाधिकारादेव कारकस्य क्रियापेक्षत्वाच्छब्दात्मिकायां क्रियायां वर्तमाना धातवो ग्रहीष्यन्त इति, तत् किं कर्मग्रहणेन? यदि तर्हि पारिभाषिकं कर्म गृह्रते, जल्पति देवदत्तो जल्पयति देवदत्तम्, विलपति देवदत्तं कार्षापणमित्यत्र न प्राप्नोति, शब्दादन्यस्य पारिभाषिकस्य कर्मणो विवक्षितत्वात्, नैष दोषः; बुद्ध्यर्थत्वात् भविष्यति। अत्र हि जल्पतिप्रभृतयस्तावच्छब्दसाधने बोधने वर्तन्ते। जल्पति देवदत्त इति। वचनेन बोधयतीत्यर्थः। एवमन्यत्रापि। पश्यति कार्षापणमित्यत्र दृशिश्चक्षुः साधने ज्ञाने वर्तते। चक्षुषा जानीत इत्यर्थः। तस्माद्बुद्धर्थत्वात् सिद्धम्। अध्यापयति इति। क्रीङजीनां णौ (6।1॥48) इत्यात्त्वम्। अर्तिह्यी (7.3.36) इत्यादिना पुक्। किमर्थं पुनरिदं सूत्रम्, यावता ण्यन्ते धातौ प्रयोजनकव्यापारेण प्रेषणाध्येषणाख्येन व्याप्तुमिष्टतमत्वात् प्रयोज्यस्य कर्त्तुरीप्सिततमं कर्म (1.4.49) इत्यनेनैव कर्मसंज्ञा सिद्धा? सत्यम्, नियमार्थं वचनम् - प्रयोजकव्यापारेण व्याप्यमानस्य यदा कर्मसंज्ञा तदा गत्यर्थादीनामेव,नान्येषामिति॥
Praudhamanorama¶
प्रत्यवसानं भक्षणम्। शब्दकर्मकाणामिति। शब्दः कर्मकारकं येषां, तेषामित्यर्थः। न त्विह ‘कर्तरि कर्मव्यतिहारे’ इतिवत् कर्मशब्दः क्रियापरः, कृत्रिमे कार्यसम्प्रत्ययात्, कर्मग्रहणसामर्थ्याच्च। अन्यथा ‘गतिबुद्धिप्रत्यवसानशब्दार्थकर्मकाणाम्’ इत्येवावक्ष्यत्। नियमार्थं चैतत्सूत्रमिति प्राञ्चः। णिजर्थेनाप्यमानस्य यदि भवति तर्हि गत्याद्यर्थानामेव कर्तुरिति। तेन पाचयति देवदत्तो यज्ञदत्तेनेत्यत्र प्रयोज्ये प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वेनावस्थानात् तृतीया सिद्ध्यति। उक्तं च— गुणक्रियायां स्वातन्त्र्यात् प्रेरणे कर्मताङ्गतः। नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयते॥ इति। कर्तुः स्वधर्मेण= तृतीययेत्यर्थः। ननु णिजर्थं प्रति कर्मत्वं बाधित्वा प्रकृत्यर्थं प्रति कर्तृत्वं परत्वादेव सिद्धम्, अन्तरङ्गत्वाच्च। स्वकारकविशिष्टा हि क्रिया णिजर्थेन सम्बद्ध्यते हेतुमति णिज्विधानात्, कर्तृप्रयोजकस्य हेतुत्वात्। अत एवोपजीव्याऽपि कर्तृसंज्ञा। एवं च— परत्वादन्तरङ्गत्वादुपजीव्यतयाऽपि च। प्रयोज्यस्यास्तु कर्तृत्वं; गत्यादेर्विधितोचिता ॥ इति चेत्? अस्त्वेवं, लक्ष्यस्य निर्बाधत्वात्। नियमसूत्रमिदमिति ग्रन्थानां का गतिरिति चेत्? शृणु, णिजर्थस्य शाब्दं प्राधान्यं पुरस्कृत्य प्राधानानुरोधिन्याः कर्मसंज्ञायाः प्राबल्याद् विप्रतिषेध एव नास्ति, अन्तरङ्गोपजीव्यत्वे अपि प्रधानं प्रति न प्राबल्यं प्रयोजयत इत्याशयेन ग्रन्थानामुक्तिसम्भवः। अर्थप्राधान्यपुरस्कारे तु विधायकत्वमेवोचितमिति ध्येयम्। शत्रूनिति। स्वर्गकर्मकं शत्रुनिष्ठं यद् गमनं तदनुकूलो यन्निष्ठो व्यापारः, स श्रीहरिर्मे गतिरित्यर्थः। नन्विह कथं स्वर्गस्य कर्मत्वं, कर्तुरीप्सिततमं हि कर्म, न च शत्रवः कर्तारः, तेषां गत्यादिसूत्रेण कर्मत्वादिति चेत्? मैवम्, कर्मसंज्ञायां हि कर्तृग्रहणं स्वतन्त्रोपलक्षणम्। स्वातन्त्र्यं च धातूपात्तव्यापाराश्रयत्वमेव। तच्च प्रयोजकसन्निधानेऽपि प्रयोज्यस्यास्त्येव। न चोपलक्षणत्वे प्रमाणाभावः, ‘प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्। अप्रधाने दुहादीनां।’ इत्युक्त्वा ‘ण्यन्ते कर्तुश्च कर्मणः’ इति वदतो भाष्यकृत एव तत्र प्रमाणत्वात्। न हि लक्षणां विना णिजन्तानां द्विकर्मकता लभ्यते, येन ‘ण्यन्ते कर्तुः’ इति वचनं सावकाशं स्यात्। ननु स्वतन्त्रे सङ्केतितस्य तत्रैव लक्षणा कथमिति चेत्? सञ्ज्ञान्तरानुपहिते सङ्केतितस्य तदुपहितसाधारणे स्वतन्त्रमात्रे सेत्यवधेहि। नीवह्योरिति। यद्यप्यनयोः प्रापणमर्थो न गतिस्तथाऽपि गतिरपि विशेषणीभूय प्रापणमध्ये प्रविष्टेत्येतावन्मात्रेण प्राप्तिं मत्वा प्रतिषेध उक्तः। नियन्त्रिति। नियन्ता पशुप्रेरको न तु सारथिरेव । तेन ‘वाहयति बलीवर्दान् यवान्’ इति सिद्ध्यति। अनिषेध इति। प्रयोज्यः कर्मेति वक्तव्यमिति फलितोऽर्थः। सूत इति। नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः। आदयतीति। अकर्त्रभिप्राये फले ‘शेषात्कर्तरि’ इति परस्मैपदम्। कर्त्रभिप्राये तु ‘णिचश्च’ इत्यात्मनेपदमेव, तदपवादस्य ‘निगरणचलनार्थेभ्यश्च’ इत्यस्य ‘अदेः प्रतिषेधः’ इति निषिद्धत्वात्। सस्यमिति। क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिंसा द्रष्टव्या, तस्यामवस्थायां तेषां चेतनत्वात्। स्मारयतीति। यत्तु— ‘णेरणौ’ इति सूत्रे ‘स्मरयत्येनं वनगुल्मः स्वयमेव’ इत्युदाह्रियते; तत्र भाष्यप्रयोगादेव कर्मत्वं बोध्यम्। शब्दायतेरिति। शब्दं करोतीत्यर्थे ‘शब्दवैर’ इत्यादिना क्यङ्, ततो हेतुमण्णिच्। धात्वर्थेति। एतेन ‘शब्दाययति सैनिकैरिपून्’ इति कर्म प्रयुञ्जानाः परास्ताः। यत्तु प्राचा— ‘अय-क्रन्द-शब्दाय-व्हेञां न’ इत्युक्तम्। तत्राऽयतेरुक्तिस्तावन्निर्मूलैव। क्रन्द-ह्वेञोस्तु शब्दक्रियात्वमात्रेण प्राप्तिसम्भावना। वस्तुतस्तु नासौ सूत्रार्थ इत्युक्तम्। यदपि ‘श्रुग्रहदृशाम्’ इति कर्मत्वमुक्तम्। तत्र दृशिग्रहणं प्रामाणिकमेव। शृणोतेस्तु शब्दकर्मकत्वात्सिद्धम्। ग्रहेस्तु द्विकर्मकत्वं यद्यपि सुधाकरादीनां संमतं तथाऽपि बहूनामसम्मतम्। अत एव ‘अजिग्रहत्तं जनको धनुस्तद्’ इति भट्टिप्रयोगमजिग्रहत् बोधितवानिति व्याचख्युः। तथा— अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक॥ इत्यत्र ग्राहयितुम्— उद्वाह्यत्वेन बोधयितुमिति। युक्तं चैतत्। ग्राहेर्द्विकर्मकत्वे हि जायाप्रतिग्राहितगन्धमाल्यामित्यत्र क्तेन प्रयोज्याया धेनोरभिधानं स्यात्, ‘ण्यन्ते कर्तुश्च कर्मणः’ इत्युक्तेः। ततश्च जायया गन्धमाल्ये प्रतिग्राहितामिति स्यात्। सिद्धान्ते तु प्रतिग्राहिते गन्धमाल्ये ययेति विग्रहः। जायानिष्ठप्रेरणविषयीभूतं गन्धमाल्यकर्मकं यत्प्रतिग्रहणं तत्कर्त्रीमित्यर्थः। अन्यपदार्थान्तर्भावेण विशेषणविशेष्यभाववैपरीत्येनैवैकार्थीभावकल्पनात्।
Prakriyasarvasvam¶
गतिविज्ञानभक्षणार्थानां शब्दक्रियाणामकर्मकाणामप्यण्यन्तावस्थायां यः कर्ता स ण्यन्तावस्थायां कर्म स्यात् । प्रयोज्यकर्ता कर्मसंज्ञ इत्यर्थः ॥ <karika>मां मोदं गमयार्थान् मां बोधयाशय मां सुधाम् । मामध्यापय शास्त्राणि रमयास्मान् जनार्दन ॥ ५१४ ॥</karika> शब्दकर्मेत्युक्तेः शब्दरूपस्य कर्मत्व एवेति केचित् । तन्मते धर्मं गादयति मुनिनेत्यादौ न । मतान्तरे मुनिमित्यपि । <karika>लम्भेयं विधिर्वेति वामनेन प्रदर्शितम् । मां सुखं लम्भयेत् कृष्णो मया वा लम्भयेत् सुखम् ॥ ५१५ ॥</karika> ‘नीवह्योर्न’ नाययति वाहयति वा भारं भृत्येन । फलतो गत्यर्थत्वात् प्राप्तिः । ‘नियन्तृकर्तृकस्य वहेरनिषेधः’ । वाहयति रथं वाहान् सूतः । ‘अत्तिखाद्योर्न’ आदयति खादयति वान्त्रं द्विजैः । ‘भक्षेरहिंसार्थस्य न’ । भक्षयत्यन्नं द्विजैः । हिंसार्थस्य तु ‘भक्षयत्यमात्यानरीन् राजे’ति कौमुदी । तत्र हिंसयतीत्येवार्थः । सस्यादेः सचेतनत्वाद् भक्षयति सस्यं गामित्यन्ये । ‘अयक्रन्दशब्दायतिह्वेञां ने’ति कौमुदी । आययति सैनिकैररीन् । क्रन्दयति शब्दाययति ह्वाययति वा शूरैः शत्रुम् । <karika>शृदृशोर्णौ द्विकर्मत्वमाह भोजश्च कौमुदी । मां वेणुं श्रावयेत्कृष्णो रूपं मां दर्शयेदसौ ॥ ५१६ ॥</karika> <karika>तारेर्ग्रहेस्तथा मोचेस्त्याजेर्दापेश्च संग्रहः । इत्युक्तं माधवेनापि भवाब्धिं तारयेत् स माम् ॥ ५१७ ॥</karika> <karika>ग्राहयेन्मां निजं रूपं रागादीन् मां विमोचयेत् । मां पापं त्याजयेत्, सद्भ्यो धनं मां दापयेद्धरिः ॥ ५१८ ॥</karika> ‘त्यजेर्ने’ति हरः । मया पापं त्याजयेत् ॥
Vartika¶
जल्पतिप्रभृतीनामुपसंख्यानम् ।
Sutra Prayogas¶
मतेन (रघुवंशम्): गतिबुद्धि- इत्यादिना वर्तमाने क्तः।
किंनरान् (रघुवंशम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति किंकराणां कर्मत्वम्।
सुरवधूः (रघुवंशम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति अणौ कर्तुः (सुरवधूनां) णौ कर्मसंज्ञा।
सिन्धूः (रघुवंशम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति सिन्धूनां कर्मत्वम्।
गापयामास (रघुवंशम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ इति सूत्रेण शब्दकर्मत्वात् द्विकर्मकत्वम्।
अध्यापितस्य (कुमारसम्भवम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति सूत्रेण अणौ कर्तुः (शिष्यस्य) णौ कर्मसंज्ञा।
प्रणमय्य (कुमारसम्भवम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति अणिकर्तुः कर्मसंज्ञा।
तरून् (किरातार्जुनीयम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति तरूणां कर्मत्वम्।
लम्भितः (किरातार्जुनीयम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति अणिकर्तुः कर्मत्वम्।
लम्भयन् (शिशुपालवधम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति अणि कर्तुर्न कर्मत्वम्।
रसहासवतोपितेन (शिशुपालवधम्): गतिबुद्धि- इत्यादिसूत्रे चकाराद्वर्तमानार्थता।
कमलम्भयदम्भसि (शिशुपालवधम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ इति अणिकर्तुः कर्मत्वे द्विकर्मकता।
पयांसि (शिशुपालवधम्): गतिबुद्धि… इत्यादिना अणिकर्तुः कर्मत्वम्।
वधूः (शिशुपालवधम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इत्यादिना अणिकर्तुः कर्मत्वम्।
गजपतिम् (शिशुपालवधम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति अणि कर्तुः कर्मत्वम्।
निषादिनम् (शिशुपालवधम्): गतिबुद्धि- इत्यादिना अणि कर्तुर्निषादिनः कर्मत्वम्।
पथ (शिशुपालवधम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति अणिकर्तृणां पथां णौ कर्मत्वम्।
अजिग्रहत्तं (भट्टिकाव्यम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इत्यादिना रामस्य कर्मसंज्ञा।
तमेत्य (भट्टिकाव्यम्): तमिति गति-बुद्धि इत्यादिना कर्मसंज्ञा।
रानायि (भट्टिकाव्यम्): गति - बुद्धि इत्यादिना प्रयोज्यकर्तरि द्वितीया न भवति ।
भवन्त (भट्टिकाव्यम्): गति-बुद्धि… इत्यादिना अस्तेरण्यन्तावस्थायामकर्मकत्वात् भवन्तमिति कर्मत्वम्।
समाहारम् (भट्टिकाव्यम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इत्यादिना समाहारस्य कर्मसंज्ञा।
रावणं (भट्टिकाव्यम्): गति-बुद्धि इत्यादिना कर्मसंज्ञा।
अन्यान् (भट्टिकाव्यम्): गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ इति कर्मसंज्ञा।
अस्मान् (भट्टिकाव्यम्): गति- बुद्धि इत्यादिना मुहेरकर्मकत्वाद् कर्मसंज्ञा।