14046: अधिशीङ्स्थाऽऽसां कर्म

Padacheda: अधि-शीङ्-स्था-आसाम् | S | 6 | 3 |

कर्म | S | 1 | 1 |

Sutrartha

अधि +शीङ्, अधि + स्था, अधि + आस् - एतेषाम् यः आधारः, तत् कारकं कर्मसंज्ञकं भवति । यथा = हरिः वैकुण्ठम् अधिशेते, अधितिष्ठति, अध्यास्ते ।

कारके (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं तृतीयं सूत्रम् । अनेन सूत्रेण **अधि-उपसर्गपूर्वकस्य शीङ् (स्वप्ने) (2.26), स्था (गतिनिवृत्तौ) (1.1077), तथा च आस् (उपवेशने) (2.11) इत्येतेषां धातूनाम् आधारस्य आधारोऽधिकरणम् (1.4.45) इत्यनेन प्राप्ताम् अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा विधीयते** । यथा, <ex>हरिः वैकुण्ठम् अधिशेते</ex> (विष्णुः वैकुण्ठे शेते इत्यर्थः), <ex>हरिः वैकुण्ठम् अधितिष्ठति</ex> (विष्णुः वैकुण्ठे तिष्ठति इत्यर्थः), <ex>हरिः वैकुण्ठम् अध्यास्ते</ex> (विष्णुः वैकुण्ठे आस्ते / उपविशति इत्यर्थः) । अत्र त्रिषु अपि वाक्येषु उपसर्गस्य योगे अर्थे परिवर्तनं न भवति (इत्युक्ते, शेते = अधिशेते; तिष्ठति = अधितिष्ठति, आस्ते = अध्यास्ते) । केवलम् आधारस्य अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा भवति ।

<hlb>अधिशीङ्स्थास्</hlb> इति शब्दः

सूत्रे प्रयुक्तः अधिशीङ्स्थासाम् इति शब्दः अधिशीङ्स्थास् इति शब्दस्य षष्ठीबहुवचनम् अस्ति । अधिशीङ्स्थास् इति शब्दः आदौ द्वन्द्वसमासं कृत्वा तदनन्तरं च उत्तरपदलोपिसमासेन सिद्ध्यति । तदित्थम् - शीङ् च स्था च आस् च इति शीङ्स्थाऽसः । अयम् इतरेतरद्वन्द्वसमासः । ततः अधिपूर्वकाः शीङ्स्थासः इति अधिपूर्वशीङ्स्थासः । अयम् उत्तरपदलोपीसमासः अस्ति, यः <!शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसङ्ख्यानम्!> इत्यनेन सिद्ध्यति । द्वन्द्वादौ श्रूयमाणं पदं प्रत्येकमभिसम्बद्ध्यते इति न्यायेन द्वन्द्वसमासस्य आदौ प्रयुक्तः <qt>अधि<qt> इति शब्दः द्वन्द्वसमास्य प्रत्येकं पदेन सह अन्वेति, अतः अत्र अधिपूर्वकः शीङ्, अधिपूर्वकः स्था, तथा च अधिपूर्वकः आस् इति अर्थः जायते । एतेषां सर्वेषाम् यः आधारः, तस्य प्रकृतसूत्रेण कर्मसंज्ञा भवति ।

बाध्यबाधकभावः

अधि+शीङ्, अधि+स्था, अधि+आस् - एतेषां धातूनां विषये कर्तुः आधारस्य आधारोऽधिकरणम् (1.4.45) इत्यनेन प्राप्ताम् अधिकरणसंज्ञाम् अपवादत्वात् बाधित्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयते ।

Vasu English Summary

That which is the site of the verbs शीङ् ‘to lie down’, स्था ‘to stand’, आस् ‘to sit’, when preceded by the preposition अधि , is however called कर्म कारक or object.

Vasu English Translation

That which is the site of the verbs शीङ् ‘to lie down’, स्था ‘to stand’, आस् ‘to sit’, when preceded by the preposition अधि , is however called कर्म कारक or object. This ordains accusative case, where otherwise by the last sutra there would have been the Locative case. As ग्राममधिशेते अधितिष्ठति or अध्यास्ते he lies down, occupies or lies in the village.

Kashika

पूर्वेणाधिकरणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। अधिपूर्वाणां शीङ् स्था आस् इत्येतेषामाधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्राममधिशेते। ग्राममधितिष्ठति। पर्वतमध्यास्ते॥

Siddhanta Kaumudi

अधिपूर्वाणामेषामाधारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥

Balamanorama

अधिशीङ्स्थाऽसां कर्म - अधिशीङ् । शीङ्, स्था, आस् एषां द्वन्द्वः । अधिपूर्वा शीङ्स्थाऽऽस इति विग्रहे शाकपार्थिवात्वादुत्तरपदलोपः । तदाह — अधिपूर्वाणामिति । अधिकरणसंज्ञापवादोऽयम् । अधिशेतीति । अधिशेते वैकुण्ठं हरिः, अधितिष्ठति वैकुण्ठं हरिः, अध्यास्ते वैकुण्ठं हरिरित्यन्वयः । अधिस्तु सप्तम्यर्थस्याधारस्य द्योतकः । वैकुण्ठे शेते तिष्ठत्यास्ते वेत्यर्थः ।

Nyaas

अध्यास्ते इति। आस उपवेशने (धातुपाठः-1021) अदादिः अनुदात्तेत्॥

Prakriyasarvasvam

अधिपूर्वाणां शीङ्स्थासामाधारः कर्माख्यः । अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥

Sutra Prayogas

  • पातालमधितिष्टति (रघुवंशम्): अधिशीङ्स्थासां कर्म इति कर्मत्वम्।

  • पर्णशालाम् (रघुवंशम्): अधिशीङ्स्थासां कर्म इत्यादिना आधारस्य कर्मत्वम्।

  • दृषदो (रघुवंशम्): अधिशीङ्स्थासां कर्म इति कर्मसंज्ञा।

  • रथं (रघुवंशम्): अधिशीङ्स्थासां कर्म इति कर्मत्वम्।

  • पदम् (कुमारसम्भवम्): अधिशीङ्स्थासां कर्म इति कर्मत्वम्।

  • शयनं (कुमारसम्भवम्): अधिशीङ्स्थासां कर्म इति कर्मत्वम्।

  • स्थलीं (किरातार्जुनीयम्): अधिशीङ्स्थासां कर्म इति कर्मत्वम् ।

  • हेमपीठानि (शिशुपालवधम्): अधिशीङ्स्थासां कर्म इति कर्मत्वम्।

  • आसनम् (भट्टिकाव्यम्): अधिशीङ्… इत्यादिना आसनस्य अधिकरणे कर्मसंज्ञा।

  • अध्यास्त (भट्टिकाव्यम्): अधि-शी इत्यादि- नाधिकरणस्य कर्मसंज्ञा ।

  • अध्यास्ते (भट्टिकाव्यम्): अधि-शी-स्थाssसा- म् इति कर्मसंज्ञा।

  • वनम् (भट्टिकाव्यम्): अधि-शी-स्थासां कर्म इत्यधिकरणे कर्मसंज्ञा।

  • अध्यतिष्ठन् (भट्टिकाव्यम्): अधि- शीङ् इति अधिकरणस्य कर्मसंज्ञा।

  • वाहनान्यधिशिश्यिरे (भट्टिकाव्यम्): अधिशीङ् इति कर्मसंज्ञा।

  • अधिष्ठास्यसि (भट्टिकाव्यम्): अधिशीङ्स्थासां कर्म इति कर्मत्वम्।