14047: अभिनिविशश्च

Padacheda: अभिनि-विशः | S | 6 | 1 |

च | S | 0 | 0 |

Sutrartha

“अभि + नि + विश्” इति धातोः यः आधारः, तत् कारकं कर्मसंज्ञं भवति । यथा - सन्मार्गम् अभिनिविशते ।

कारके (1.4.23) इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं चतुर्थं सूत्रम् । अनेन सूत्रेण **अभि तथा नि इति उपसर्गद्वयात् परस्य विश् (प्रवेशने) (6.160) इति धातोः आधारस्य आधारोऽधिकरणम् (1.4.45) इत्यनेन प्राप्ताम् अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा विधीयते** । यद्यपि केवलस्य विश्-धातोः अर्थः “प्रवेशनम्” इति अस्ति, तथापि अभि + नि इति उपसर्गद्वयस्य युगपत् योजनेन अस्य अर्थः परिवर्त्य आसक्तः भवति, निश्चिनोति इति भवति । एतादृशे अर्थे जाते, आसक्तेः / निश्चयस्य यः आधारः, तस्य प्रकृतसूत्रेण अधिकरणसंज्ञा भवति । यथा, <ex>सन्मार्गम् अभिनिविशते</ex> । सन्मार्गस्य विषये आसक्तः भवति, सन्मार्गवर्तनस्य निश्चयं करोति इति अस्य अर्थः ।

<hlb>अभि + नि</hlb> इत्येतयोः युगपत् उपस्थितिः

प्रकृतसूत्रस्य प्रयोगः तदा एव भवति यदा अभि तथा नि इत्येतयोः उपसर्गयोः युगपत्, अनेनैव क्रमेण विश्-धातुना सह प्रयोगः भवति । इत्युक्ते, अभि + नि + विश् इत्यस्यैव विषये प्रकृतसूत्रं प्रवर्तते, न हि केवलम् “अभि + विश्” उत केवलं “नि + विश्” इत्यस्य विषये । पाणिनिमहर्षिभिः “अभिनिविश” इति यः शब्दः प्रकृतसूत्रे प्रयुक्तः अस्ति, सः एव अस्य ज्ञापकरूपेण स्वीक्रियते । “अभिनिविश” इत्यत्र अभि तथा नि इत्येतयोः द्वन्द्वसमासः वर्तते । अस्मिन् द्वन्द्वसमासे अल्पाच्तरम् (2.2.34) इति सूत्रम् अनुसृत्य नि इत्यस्य ग्रहणम् वस्तुतः अभि इत्यस्मात् पूर्वं भवेत् । इत्युक्ते, सूत्रम् वस्तुतः “न्यभिविशश्च” इत्येव उचिततरम्, अल्पाक्षरतरं च । तथापि पाणिनिमहर्षिभिः “अभिनिविशश्च” इति दीर्घं सूत्रं यत् क्रियते, तद् अस्यैव प्रमाणरूपेण स्वीक्रियते यत् आचार्याः अत्र अभि + नि इत्येतयोः युगपत् प्रयोगम् एव इच्छन्ति ।

<hlb>अभिनिविशते</hlb> इति आत्मनेपदे एव

यद्यपि विश्-धातुः परस्मैपदी अस्ति, तथापि नेर्विशः (1.3.17) इत्यनेन नि-उपसर्गपूर्वकः विश्-धातुः केवलम् आत्मनेपदस्यैव प्रत्ययान् स्वीकरोति । इदानीम् अभि + नि + विश् इत्यत्र नि-उपसर्गपूर्वकः विश्-धातुः अस्त्येव, अतः अत्रापि केवलम् आत्मनेपदस्यैव प्रत्ययाः भवन्ति ।

<hlb>अन्यतरस्याम्</hlb> इति व्यवस्थितविभाषा-आश्रयणात् कुत्रचित् कर्मसंज्ञा न

यद्यपि प्रकृतसूत्रेण अभि + नि + विश् इत्यस्य प्रयोगे आधारस्य अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा उक्ता अस्ति, तथापि केषुचन उदाहरणेषु **अभि + नि + विश् इत्यस्य आधारस्य अधिकरणसंज्ञा एव कृता दृश्यते** । यथा - <nex>कल्याणे अभिनिवेशः</nex>, <nex>पापे अभिनिवेशः</nex> इत्यादिकाः प्रयोगाः लोके प्रसिद्धाः सन्ति । ईदृशाम् प्रयोगाणां साधुत्वज्ञापनार्थम् परिक्रयणे सम्प्रदानमन्यतरस्याम् (1.4.44) इत्यस्मात् “अन्यतरस्याम्” इत्यस्य पदस्य प्रकृतसूत्रे मण्डूकप्लुत्या अनुवृत्तिं कृत्वा तस्य अर्थः व्यवस्थितविभाषा इति क्रियते । अनेन प्रकारेण अत्र व्यवस्थितविभाषया <nex>कल्याणे अभिनिवेशः</nex>, <nex>पापे अभिनिवेशः</nex> इत्यादीनां प्रयोगाणां अपि साधुत्वं सिद्ध्यति, तथा च मूलसूत्रस्य आधारेण <ex>सन्मार्गम् अभिनिविशते</ex> इत्यादयः प्रयोगाः अपि साधयितुम् शक्यन्ते । <bg>व्यवस्थितविभाषा इत्युक्ते “व्यवस्थां ज्ञापयितुम्” (इत्युक्ते प्रयोगाणां साधुत्वज्ञापनार्थम्) स्वीकृता विभाषा । यद्यपि इयं “विभाषा” नाम्ना ज्ञायते, तथापि अत्र विकल्पः वक्तुः इच्छाम् नैव अनुसरति, अपितु केवलम् उपलब्धान् प्रयोगान् अनुसरति । एतादृशी व्यवस्थिताविभाषा “अन्यतरस्याम्” ग्रहणेन प्रकृतसूत्रे स्वीकृता अस्ति, येन सप्तमीघटिताः प्रयोगाः अपि साधयितुम् शक्यन्ते । </bg>

प्रकृतसूत्रस्य आवश्यकता

उपसर्गं विना प्रयुक्तस्य विश्-धातोः विषये आधारसंज्ञकस्य (यथा “ग्राम”-इत्यादि पदार्थस्य) आधारोऽधिकरणम् (1.4.45) इत्यनेन अधिकरणसंज्ञायां प्राप्तायाम्, परत्वात् तां बाधित्वा कर्तुरीप्सिततमं कर्म (1.4.49) इत्यनेन कर्मसंज्ञा विधीयते, यतोऽहि आधारसंज्ञकः “ग्राम”-इत्यादि पदार्थः कर्तुः ईप्सिततमः अपि अस्ति । इत्युक्ते, उपसर्ग-भिन्न-विश्-धातोः विषये विप्रतिषेधेनैव आधारस्य कर्मसंज्ञा सिद्धा अस्ति । परन्तु अभि + नि + विश् इत्यस्य प्रयोगे आधारसंज्ञकस्य “सन्मार्ग”पदार्थस्य **कर्तुरीप्सिततमं कर्म (1.4.49) इत्यनेन कर्मसंज्ञा नैव सम्भवति यतः अयं “सन्मार्ग”पदार्थः अत्र न हि कर्तुः ईप्सिततमः वर्तते** । (“सन्मागस्य आसक्तिः” / “सन्मार्गस्य निश्चयः” इति कर्तुः ईप्सिततमम् अस्ति, न हि केवलं सन्मार्गः - इत्याशयः) । अस्यां स्थितौ अभि + नि + विश् इत्यस्य प्रयोगे सन्मार्गादिपदार्थस्य अन्यसूत्रैः अप्राप्ताम् कर्मसंज्ञां विधातुम् प्रकृतसूत्रम् निर्मितम् अस्ति ।

बाध्यबाधकभावः

“अभि + नि + विश्” इत्यस्य विषये कर्तुः आधारस्य आधारोऽधिकरणम् (1.4.45) इत्यनेन प्राप्ताम् अधिकरणसंज्ञाम् अपवादत्वात् बाधित्वा प्रकृतसूत्रेण कर्मसंज्ञा विधीयते ।

Vasu English Summary

That which is the site of the verb अभिनिविश् ‘to enter’, is also called कर्म कारक।

Vasu English Translation

That which is the site of the verb अभिनिविश् ‘to enter’, is also called कर्म कारक। As ग्राममभिनिविशते he resorts to the village. This is an optional rule, as the word “option” of sutra (1.4.44) should be read into it. Thus we have the following forms also पापेऽभिनिवेशः resorting to sin. कल्याणेऽभिनिवेशः resorting to good. The rule here is that of vyavasthita vibhasa.

Kashika

अभिनिपूर्वस्य विशतेराधारो यः, तत् कारकं कर्मसंज्ञं भवति। ग्राममभिनिविशते। कथं कल्याणेऽभिनिवेशः, पापेऽभिनिवेशः, या या संज्ञा यस्मिन् यस्मिन् संज्ञिन्यभिनिविशत इति? अन्यतरस्यामिति वर्तते,**परिक्रयणे संप्रदानमन्यतरस्याम्** (१.४.४४) इत्यतः। सा च व्यवस्थितविभाषा विज्ञायते॥

Siddhanta Kaumudi

अभिनीत्येतत्संघातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । परिक्रयणे संप्रदानम् (SK580) इति सूत्रादिह मण्डूकप्लुत्याऽन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्न । पापेऽभिनिवेशः ॥

Balamanorama

अभिनिविशश्च - अभिनिविशश्च । आधार इति कर्मेति चानुवर्तते । अभिनीति सङ्घातग्रहणम् । तदाह — अभिनीत्येतदिति । अभिनिविशते सन्मार्गमिति । आग्रहवानित्यर्थः । अप्रतिहतप्रवृत्तिमानिति यावत् । नन्वेवं सति ‘पापेऽभिनिवेश’ इत्यत्रापि कर्मत्वाद्द्वितीया स्यादित्यत आह — परिक्रयणे इति । ‘परिक्रयणे’ इति सूत्रादन्यतरस्याङ्ग्रहणमनुवर्त्त्य व्यवस्थितविभाषाश्रयणात्क्वचिन्नेत्यन्वयः । तर्हिअभिनिविशते सन्मार्ग॑मित्यत्रापि विकल्पः स्यादित्यत आह — व्यवस्थितेति ।ननुपरिक्रयणे संप्रदानमन्यतरस्याम्,आधारोऽधिकरणम्,॒अधिशीङ्स्थासां कर्म॑, ‘अभिनिविशश्च’ इति सूत्रक्रमः । तत्रअभिनिविशश्चे॑त्यत्र कथमन्यतरस्याङ्ग्रहणानुवृत्तिः, ‘आधारोऽधिकरणम्’अधिशीङ्स्थासां कर्म॑ इत्यत्र च तदनुवृत्तेरभावादित्यत आह — मण्डूकप्लुत्येति ।तुल्य॑मिति शेषः । मण्डूका यतामध्ये पदानि सन्ततमप्रक्षिपन्त एव उत्प्लुत्य गच्छन्ति तद्वदनुवत्र्येत्यर्थः ।एष्वर्थेष्वभिनिविष्टाना॑मिति समर्थसूत्रे भाष्यप्रयोगोऽत्र मानम् ।

Tattvabodhini

अभिनिविशश्च - अभिनिवि । नेरल्पाच्तरत्वेन पूर्वनिपाते कर्तव्ये विपरीतोच्चारणमीदृशशसङ्घातविवक्षार्थमित्याह — सङ्घातपूर्वस्येति । तेनेह — ॒निविशते यदि शूकशिखा पदे॑इति । क्विचिन्नेति ।एष्वर्थेष्वभिनिविष्टाना॑मिति समर्थसूत्रस्थभाष्यप्रयोगोऽत्र मानमिति भावः ।

Padamanjari

नेरल्पाच्तरस्यापूर्वनिपाताद् ठभिनिऽ इति समुदायानुकरणमित्याह - अभिनिपर्वूस्येति। अन्यथाऽभिपूर्वस्य निपूर्वस्य चेति ब्रूयात्॥

Praudhamanorama

नेरल्पाच्तरत्वेन पूर्वनिपाते कर्तव्ये विपरीतोच्चारणं तादृशसमुदायविवक्षार्थमित्याह— संघातपूर्वकस्येति। तेनेह न- ‘निविशते यदि शूकशिखा पदे’ इति। क्वचिन्नेति। ‘एष्वर्थेष्वभिनिविष्टानाम्’ इति भाष्यप्रयोगश्चेह मानम्। उपपदविभक्तिमाह-

Prakriyasarvasvam

अस्याप्याधारः कर्म । अभिनिविशते सन्मार्गम् । क्वचिन्नेष्टम् । पापेऽ- भिनिविशते । गाहिरुहिविशामाधारः कर्मेत्येके । प्राप्त्यर्थविवक्षया वा सिद्धिः । यमुनां गाहते । तटमरोहति । व्रजं विशति । रथमास्थित इत्यादौ त्वाक्रम्य स्थित इत्याद्यर्थयोगात् कर्मत्वम् ॥

Sutra Prayogas

  • मनः (भट्टिकाव्यम्): अभि-नि-विशश्च इत्यधिकरणे मनसः कर्मसंज्ञा।