14045: आधारोऽधिकरणम्¶
Padacheda: आधारः | S | 1 | 1 |
अधिकरणम् | S | 1 | 1 |
Sutrartha¶
क्रियां कर्तुं कर्ता तथा च कर्म एताभ्याम् यस्य आधाररूपेण प्रयोगः क्रियते तत् कारकं अधिकरणसंज्ञं भवति । यथा - कटे आस्ते, स्थाल्यां पचति ।
कारके (1.4.23) अस्मिन् अधिकारे अधिकरणसंज्ञायाः विधानम् प्रकृतसूत्रेण क्रियते । क्रियां कर्तुम् **कर्ता तथा कर्म यस्य पदार्थस्य आधाररूपेण उपयोगं कुरुतः (इत्युक्ते, यस्य आश्रयेण क्रियां कुरुतः), तस्य प्रकृतसूत्रेण अधिकरणसंज्ञा भवति** । यथा, <ex>देवदत्तः कटे आस्ते</ex> इत्यत्र आसनक्रियायाः कर्ता “देवदत्तः” आसनक्रियार्थम् कटस्य आधाररूपेण उपयोगं करोति, अतः “कट”पदार्थस्य प्रकृतसूत्रेण अधिकरणसंज्ञा भवति । एवमेव, <ex>देवदत्तः स्थाल्यां ओदनं पचति</ex> इत्यत्र पचनक्रियाया: कर्म “ओदनम्” स्थाल्याः आश्रयेण विद्यते, अतः कर्मणः आधारभूतस्य स्थाली**पदार्थस्य प्रकृतसूत्रेण अधिकरणसंज्ञा भवति । उभयत्र अधिकरणसंज्ञायां जातायाम् **सप्तम्यधिकरणे च (2.3.36) इत्यनेन सप्तमीविभक्तेः प्रयोगः भवति ।
<hlb>आधार:</hlb> इत्यस्य व्युत्पत्तिः, अर्थः च
काशिकाकारः आधारः इति शब्दस्य व्युत्पत्तिं प्रदर्शयन् ब्रूते - <inline>आध्रियन्ते अस्मिन् क्रियाः इति आधारः</inline> । आ-उपसर्गपूर्वकात् धृङ् अवस्थाने (6.148) इति धातोः अध्यायन्यायोद्यावसंहाराधारावायाश्च (3.3.112) इति सूत्रेण अधिकरणे घञ्-प्रत्यये कृते आधारः इति शब्दः सिद्ध्यति । यः पदार्थः अन्यान् आश्रयं ददाति, सः आधारसंज्ञकः भवति इति अस्य आशयः । प्रकृतसूत्रं आधारोऽधिकरणम् (1.4.45) इति तु कारकाधिकारे विद्यते, अतः अस्य सूत्रस्य सन्दर्भेण क्रियायाः आधारस्य (आश्रयस्य) ग्रहणम् एव सयुक्तिकं भाति । परन्तु क्रिया इत्युक्ते फलं, व्यापारश्च; किञ्च, तत्र फलम् कर्मणः आश्रयेण तिष्ठति, व्यापारः च कर्तुः आश्रयेण तिष्ठति । अतः अत्र “क्रियायाः आधारः” इत्यनेन कर्ता कर्म च गृह्येते । एतयोः पुनः अधिकरणसंज्ञया न कश्चन लाभः, अतः अत्र “क्रियायाः आश्रयः” इत्यनेन व्यापाराश्रयः यः कर्ता, तस्य अपि आश्रयः, तथा च फलाश्रयं यत् कर्म, तस्यापि आश्रयः इति व्याख्या स्वीक्रियते । अतएव प्रकृतसूत्रे काशिकाकारः <inline>कर्तृकर्मणोः क्रियां प्रति यः आधारः</inline> इति अधिकरणस्य व्याख्यां ददाति । कौमुद्याम् अपि <inline> कर्तृकर्मद्वारा तन्निष्ठक्रियायाः आधारः</inline> इति वचनेन अधिकरणसंज्ञा ज्ञापिता अस्ति । भर्तृहरिणा अपि अस्यैव निर्देशः स्वकारिकायां (<light>वाक्यपदीये <span data=nav=”/vakyapadeeyam/3.7.148”>3.7.148 </span> इत्यत्र)</light> कृत्वा <inline>असाक्षात् क्रियां धारयति तत् अधिकरणम्</inline> इति अधिकरणस्य व्याख्या दत्ता वर्तते । संक्षेपेण,<hlb>क्रियायाः प्रथम-स्तरीयौ आधारौ कर्ता कर्म च, तथा तयोः अपि आधारः अधिकरणम्</hlb> - इति अधिकरणस्य व्याख्या दीयते ।
अधिकरणस्य त्रयः भेदाः
संहितायाम् (6.1.72) अस्मिन् सूत्रे भाष्ये भाष्यकारेण अधिकरणस्य त्रयः भेदाः निर्दिष्टाः लभ्यन्ते । तत्र भाष्यकारः वदति - <hlb>अधिकरणं नाम त्रिः प्रकारम् - व्यापकम्, औपश्लेषिकम्, वैषयिकम्</hlb> । अधिकरणस्य एते त्रयः भेदाः अधः विवृताः सन्ति - <listsp> <li><hlb>1. व्यापकम् अधिकरणम् </hlb> - यत्र एकः पदार्थः अन्यं पदार्थं सम्पूर्णरूपेण एतादृशं व्याप्नोति यत् द्वयोः पदार्थयोः सरलतया पृथक्करणं न शक्यते, तत्र **व्यापकम् अधिकरणम् अस्ति उच्यते** । यथा, <ex>तिलेषु तैलम्</ex> । अत्र वस्तुतः तैलपदार्थः तिलपदार्थात् भिन्नः, परन्तु सः तिलपदार्थे समग्ररूपेण व्याप्तः अस्ति (समवायसम्बन्धेन वसति), तथा च तं सरलतया (इत्युक्ते तन्त्राणां सहायं विना) तिलात् पृथक् अपि न कर्तुं शक्यते । अतः इदम् व्यापक-अधिकरणस्य उदाहरणम् । एवमेव, <ex>दध्नि सर्पिः</ex>, <ex>पुष्पे सुगन्धः</ex>, <ex>घटे रूपम्</ex>, <ex>शर्करायां माधुर्यम्</ex>, <ex>शरीरे चेष्टा (movement)</ex> इत्यादयः प्रयोगाः सङ्गच्छन्ते । <li><hlb>2. औपश्लेषिकम् अधिकरणम् </hlb> - यत्र एकः पदार्थः अन्यपदार्थस्य केवलं कञ्चन अंशं व्याप्नोति, तथा च द्वयोः पदार्थयोः पृथक्करणम् अपि सरलम्, तत्र **औपश्लेषिकम् अधिकरणम् अस्ति इत्युच्यते** । यथा - <ex>देवदत्तः कटे आस्ते</ex> । अत्र देवदत्तः कटस्य प्रत्येकम् अणुं (लघ्वंशं) नैव व्याप्नोति, अतः इदम् औपश्लेषिक-अधिकरणस्य उदाहरणम् । एवमेव <ex>गङ्गायां मीनः</ex>, <ex>हस्ते ग्रन्थः</ex>, <ex>कूप्यां जलम्</ex>, <ex>ग्रामे निवासः</ex> इत्यादयः प्रयोगाः सङ्गच्छन्ते । किञ्च, औपश्लेषिकम् इति शब्दे विद्यमानस्य “उपश्लेष” इति प्रातिपदिकस्य अर्थः सामीप्यम् इत्यपि अस्ति, अतः सामीप्यस्य आधारेण प्राप्तम् अधिकरणम् अपि **औपश्लेषिकम् इति नाम्ना एव ज्ञायते** । यथा, <ex> गङ्गायां घोषः</ex> । गङ्गायाः तीटे विद्यमानानां गोपालगृहाणां समूहस्य अयं निर्देशः अस्ति । अत्रः “गङ्गायाः” इति शब्देन गङ्गासमीपे इति अर्थः प्रतीयते । एवमेव, <ex>द्वारे नियुक्तः</ex> (= द्वारस्य समीपे नियुक्तः), <ex>मासे दीयते</ex> (= मासस्य समीपे दीयते) इत्यत्रापि सामीप्यस्य आधारेण एव औपश्लेषिकम् अधिकरणं विद्यते । एवमेव न, अपितु व्याकरणशास्त्रे वर्णानां सामीप्यम् अपि औपश्लेषिक-अधिकरणत्वेन एव गृह्यते, अतश्च तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इत्यनेन विहिता “परसप्तमी’ अपि औपश्लेषिक-अधिकरणम् एव दर्शयति । <li><hlb>3. वैषयिकम् अधिकरणम् </hlb> - यत्र साक्षात् सामीप्यम् उत व्याप्तिः न वर्तते, परन्तु कथञ्चित् आश्रयस्य बोधः अवश्यं भवति, तत्र **वैषयिकम् अधिकरणम् अस्ति इत्युच्यते** । यथा, <ex>गुरौ भक्तिः</ex> इत्यत्र छात्रस्य मनसि विद्यमानायाः भक्तेः आश्रयस्थानम् गुरुः अस्ति - इति आशयः विद्यते । अत्र साक्षात् व्याप्तिः उत सामीप्यम् नास्ति (भक्तिः गुरुं नैव व्याप्नोति न वा गुरोः समीपे तिष्ठति), परन्तु अत्र आश्रयस्य बोधः अवश्यमेव भवति, अतः अत्र वैषयिकम् अधिकरणम् अस्ति इति उच्यते । एवमेव, <ex>आकाशे खगः</ex>, <ex>मनसि सङ्कल्पः</ex>, <ex>शास्त्रे नैपुण्यम्</ex>, <ex>सुहृदि विश्वासः</ex>, <ex>पुत्रे स्नेहः</ex> इत्यादिषु विद्यमानम् अधिकरणम् अपि “वैषयिकम् अधिकरणम्” अस्ति । कैयटेन तु अत्र <hl>एकः पदार्थः अपरस्य अधीनः अस्ति<hl> इति सन्दर्भं स्वीकृत्य अपि उदाहरणानि दत्तानि सन्ति । यथा, <ex>जगत् ईश्वरे अधीनम्</ex>, <ex>सेवकः राज्ञि वसति</ex> इत्यत्रापि वैषयिकम् अधिकरणम् एव ज्ञेयम् । </listsp> अधिकरणस्य एते त्रयः अपि भेदाः प्रकृतसूत्रेणैव अधिकरणसंज्ञाम् प्राप्नुवन्ति ।तत्कथम् इति चेत्, प्रकृतसूत्रे पाणिनिना “आधारतमम् अधिकरणम्” इति नोच्यते अपि तु केवलम् “आधारः अधिकरणम्” इत्येव विधानं कृतम् अस्ति । अतश्च, साधकतमं करणम् (1.4.42) इत्यत्र भाष्यकारेण पाठितस्य <!कारकसंज्ञायां तरतमयोगो न भवति!> इति भाष्यवचनस्य आधारेण सर्वेषाम् भेदानाम् (इत्युक्ते मुख्य-आधारस्य तथा च गौण-आधारयोः अपि) अनेनैव सूत्रेण अधिकरणसंज्ञा भवति ।
बाध्यबाधकभावः
कारकप्रकरणे प्रकृतसूत्रात् अनन्तरम् पाठितैः त्रिभिः सूत्रैः आधारस्य प्रकृतसूत्रेण प्राप्ताम् अधिकरणसंज्ञां बाधित्वा कर्मसंज्ञा विधीयते । एतानि त्रीणि अपि सूत्राणि प्रकृतसूत्रस्य अपवादाः सन्ति । तानि एतादृशानि -
अधिशीङ्स्थासां कर्म (1.4.46) - अधि + शीङ्, अधि + स्था तथा च अधि + आस् एतेषाम् आधारस्य कर्मसंज्ञा भवति । यथा - <nex>हरिः वैकुण्ठम् अधिशेते, अधितिष्ठति, अध्यास्ते</nex> ।
अभिनिविशश्च (1.4.47) - अभि + नि + विश् इत्यस्य आधारस्य कर्मसंज्ञा भवति । यथा - <nex>ग्रामम् अभिनिविशते</nex> ।
उपान्वध्याङ्वसः (1.4.48) - उप् + वस्, अनु + वस्, अधि + वस्, आङ् + वस् एतेषाम् आधारस्य कर्मसंज्ञा भवति । यथा - <nex>हरिः वैकुण्ठम् उपवसति, अनुवसति, अधिवसति, आवसति</nex> ।
Vasu English Summary¶
That which is related to the action as the site where the action is performed by reason of the agent or the object being in that place is called अधिकरण or location.
Vasu English Translation¶
That which is related to the action as the site where the action is performed by reason of the agent or the object being in that place is called अधिकरण or location. That in which the action is supported or located is called adhara. As कटे आस्ते he is seated on the mat. कटे शेते he is sleeping on the mat. स्थाल्यां पचति he cooks in the pot. The Adhikarana takes the 7th case-affix.
Kashika¶
आध्रियन्तेऽस्मिन् क्रिया इत्याधारः। कर्तृकर्मणोः क्रियाश्रयभूतयोर्धारणक्रियां प्रति य आधारः, तत् कारकमधिकरणसंज्ञं भवति। कट आस्ते। कटे शेते। स्थाल्यां पचति। अधिकरणप्रदेशाः — सप्तम्यधिकरणे च (२.३.३६) इत्येवमादयः॥
Siddhanta Kaumudi¶
कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणसंज्ञः स्यात् ॥
Laghu Siddhanta Kaumudi¶
कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणं स्यात्॥
Balamanorama¶
आधारोऽधिकरणम् - आधारोऽधिकरणं । ‘कारके’ इत्यधिकृतं प्रथमान्ततया विपरिणम्यते, तच्च आधारस्य विशेषणम्, आधारः कारकमधिकरणमिति लभ्यते । क्रियान्वयि कारकम् । एवञ्च कस्याधार इत्याकाङ्क्षायामुपस्थितत्वात्क्रियाया इति लभ्यते । क्रिया च कर्तृकर्मगता विवक्षिता । तदाधारत्वं च न साक्षात्, किंतु कर्तृकर्मद्वारैव, व्याख्यानात् । तदाह — कर्तृकर्मद्वारेति । तन्निष्ठेति । कर्तृकर्मनिष्ठेत्यर्थः ।
Tattvabodhini¶
आधारोऽधिकरणम् - आधारः । आध्रियतेऽस्मिन्नित्याधारः ।अध्यायन्याय -॑इति सूत्रेअवहाराधारे॑ त्युपसङ्ख्यानादधिकरणे घञ् । स चाधारः कस्येत्याकङ्क्षायां कारकाधिकारात्क्रियाया इति लभ्यते । इयं च संज्ञा साक्षात्क्रियाधारयोर्न सम्भवति, पराभ्यां कर्तृकर्मसंज्ञाभ्यां बाधितत्वात् । अतो व्याचष्टे — कतृकमद्वारेति । एवं चभूतले घट॑इत्यादौ अस्तीति क्रियाध्याहारो बोध्यः । त्रिधेति । एतच्चसंहितायाम् इति सूत्रे भाष्ये स्पष्टम् । नद्यमास्त इत्याद्यर्थं सामीपिकमधिकरणं चतुर्थमपि केचिदिच्छन्ति । कटे आस्ते इति । कर्तृद्वारा क्रियाधारस्योदाहरणमिदम् । कर्मद्वारा क्रियाधारस्य तु -स्थाल्यां पचतीति । वैषयिकाधारमुदाहरति -मोक्षे इच्छाऽस्तीति । अभिव्यापकस्य तु -सर्वस्मिन्निति । तिलेषु तैलमित्याद्यप्यभिव्यापकस्योदाहरणमाहुः । चतरुआ इति । प्रातिपदिकार्थमात्र इत्यर्थः । दूरान्तिकार्थेभ्य इत्यस्येहाऽनुवर्तनादधिकरणेऽप्येते बोध्याः । क्तस्येन्विषस्य कर्मण्युपसङ्ख्यानम् । क्तस्येन्विषयस्येति । इन्िन्नन्तः शब्दो, विषयो=वर्तभूतमिर्यस्य क्तान्तस्य तस्येत्यर्थः । अन्ये त्वाहुः — इनो विषय इति षष्ठीसमासः । विषयशब्देनेह प्रकृतिरुच्यते । क्तान्तस्येनः प्रकृतित्वादिति । अधीति व्याकरणे इति । भावे क्तप्रतक्यये ततइष्टादिभ्यश्च॑ इति कर्तरीनौ कृते पश्चाद्गुणभूतक्रियया सम्बध्यमानं व्याकरणमनभिहितं कर्मेति कृतपूर्वी कटमितिवव्द्दितीयाऽत्र प्राप्ता ।मासमधीति व्याकरणे॑ इत्यादौ त्वकर्मकैर्धातुभिरियोगनिमित्तस्य कालकर्मणो बहिरङ्गत्वादिहाऽग्रहणमिति सप्यम्यभावः । न चैवं तत्र द्वितीयापि न स्यादिति वाच्यम् । लक्ष्यानुरोधेन द्वितीयाविधाने व्यक्तिपक्षाश्रयणात् । एतच्च कोस्तुभे स्थितम् ।साध्वसाधुप्रयोगे च । साध्वसाधुप्रयोगे च । यत्राऽर्चा न विवक्षिता, किं तु तत्त्वकथनमात्रं, तत्रापि सप्तम्यर्तं वार्तिकेऽस्मिन् साधुग्रहणं, साधुर्भृत्यो राज्ञीत्यादि यथा ।साधुनिपुणाभ्याम्इति सूत्रे साधुग्रहणं त्वर्चायां ववक्षितायां प्रतियोगे सप्तमीनिवृत्त्यर्थमिति विवेकः ।निमित्तात्कर्मयोगे । निमित्तमिह फलमिति । यदि तुकारणमित्युच्येत तर्हिजाङ्येन बद्ध॑ इत्यादावतिप्रसङ्गः स्यादिति भावः । चर्मणीति । चर्मणीति । चर्मद्वीप्यादीनां समवायः सम्बन्धः । हेतुतृतीयेति । तादर्भ्ये चतुर्थीत्यपि बोध्यम् । सीमाऽन्ण्डकोश इति । तथा च मेदिनीकारः — ॒सीमा घाटस्थितिक्षेत्रेष्वण्डकोशु च स्त्रियाम् इति ।अथ पुष्कलको गन्धमृगे क्षपणकीलयोः॑ इति च । हरदत्तस्तु -॒पुष्कलकः शङ्कुः, सीम्नि=सीमज्ञानार्थं हतो=निहतः निखात॑ इत्याह । अस्मस्तु पक्षे सीमपुष्कलयोः संयोगसम्बन्धः ।
Padamanjari¶
आध्रियन्तेऽस्मिन् क्रिया इत्याधार इति ठध्यायन्यायोद्यावऽ इत्यादिनाऽधिकरणे घञ्। क्रियापेक्षत्वात् कारकभावस्य क्रियाग्रहणम्। यदि क्रियाधारस्याधिकरणसंज्ञा, कर्तृकर्मणोरेव स्यात्। कर्तृस्था हि क्रिया भवति कर्मस्था वा। कर्तृसंज्ञायाः कोऽवकाशः? ये कर्मस्थक्रियाः- पचत्योदनं देवदत इति। नन्वत्राप्यधिश्रयणादेराधारः कर्तेति स्यादेव प्रसङ्गः? अयं तर्ह्यवकाशः- देवदताय रोचते मोदक इत्युक्तम्, अत्र देवदतस्थस्याभिलाषस्य मोदकः कर्तेति। अथाप्यनवकाशा कर्तृसंज्ञा? एवमपि पर्यायः स्यात्। अथ कर्मसंज्ञायाः कोऽवकाशः? ये कर्तृस्थक्रियाः-आदित्यं पश्यतीति। अतः कर्तृकर्मणोरेवाधिकरणसंज्ञाप्रसङ्ग इत्यत आह - कर्तृ कर्मणोरित्यादि। कथं पुनः साक्षात्क्रियाधारे सम्भवति क्रियाधारभूतकर्तृ कर्मव्यवधानेन क्रियाधारस्य गौणस्य ग्रहणं शक्यं विज्ञातुम्? करणसंज्ञायां तमब्ग्रहणेन ज्ञापितमेतद्-यथाकथञ्चित्क्रियाधारस्यापि करणसंज्ञा भवतीति। मुख्यस्यापि तु कस्मान्न स्याद्? आस्त इति कर्तृस्थायाः क्रियाया उदाहरणम्। पचतीति कर्मस्थायाः। त्रिविधं च तदधिकरणम् - औपश्लेषिकम्, वैषयिकम्, अभिव्यापकं चेति। कटे आस्ते,गुरौ आवसति, तिलेषु तैलमिति॥
Nyaas¶
आध्रियन्ते क्रियागुणा अस्मिन्नित्याधारः इति। अध्यायन्यायोद्यावट (3.3.122) इत्यादिनाऽऽधारशब्दोऽधिकरणे घञन्तो व्यत्पादित-। क्रियापेक्षत्वत् कारकस्येति क्रियाग्रहणम्। यद्याध्रियन्ति क्रिया यस्मिन् स आधारः इति, एवं हि सति कर्तृकर्मणोरेवाधिकरणसंज्ञा प्रसज्येत, तयोरेव हि क्रिया आध्रियन्ते। तथा हि- कर्तस्था व #आ क्रिया भवति, कर्मस्था वा, अनवकाशत्वात् कर्त्तृकर्मणोः संज्ञा न भविष्यत्येष दोष प्रसङग् इति, एतच्चानुत्तरम्; सत्यपि ह्रनवकाशत्वे तयोः पर्यायः स्यात्। एकदाधिकरणसंज्ञा भवितव्यं तं दर्शयति। प्रतिराभिमुख्ये। `क्रियां प्रति य आधारः इति॥ क्रियाया अभिमुखो य आधार इत्यर्थः। यश्च क्रियां धारयति स क्रियाया अभिमुखो भवति। क्रियायास्तु धारणं साक्षात्, व्यवधानेन वा; कर्त्तृकर्मणोः क्रियाश्रययोर्धारणात्। अत्र पूर्वस्य व्यवच्छेदार्थं कर्त्तृर्मणोः इत्युक्तम्।तदेतदुक्तं भवति - कर्त्तृकर्मणोः क्रियाधारभूतयोर्धारणात् क्रियाया अभिमुखो य आधारस्तस्याधिकरणसंज्ञा भवतीति। तदेवं क्रियाधारभूतकर्त्तृकर्मधारणद्वारेण क्रियाया अभिमुखो य आधारस्तस्याधिकरणसंज्ञा; यतोऽनेन विधीयते ततो न भवति पूर्वस्य दोषप्रसङ्गः। न हि कर्त्तृकर्मणोरनेन प्रकारेण क्रियां प्रत्याधारत्वम्; अपि तु साक्षादेव क्रियाधारणात्। नन्वेवमपि कर्त्तृकर्मणोर्मुख्यं क्रियाधारत्वम्, साक्षादेव क्रियाधारणात्, कर्त्तृकर्माधारस्य तु कटादेर्गौणत्वं क्रियाश्रयभूतकर्त्तृकर्मधारणद्वारेण क्रियाधारणात्। तत्र मुख्य आधारे सति गौणस्याधिकरणसंज्ञा न प्राप्नोतीति स दोषसत्दवस्थ एव? नैतदस्ति; तमब्ग्रहणेन ज्ञापितमेतत् - गौणस्याप्याधारस्याधिकरणसंज्ञा भवतीति। भवतु गौणस्याधिकरणसंज्ञा, मुख्यस्यापि कर्त्तृ कर्मणश्च कस्मान्न भवतीति चेत्, न; परत्वादनवकाशत्वाच्च कर्त्तृकर्मसंज्ञाभ्यां बाध्यमानत्वात्। अधिकरणसंज्ञा हि पूर्वो गौण आधारे सावकाशा, तद्विपरीते तु कर्त्तृकर्मसंज्ञे इति ताभ्यां बाध्यमाना नोत्सहते तयोर्विषयमवगाहितुम्।कटे आस्ते इति। कर्त्तृस्था क्रिया यत्र पूर्वेण प्रकारेणाध्रियते तस्योदाहरणम्;; विक्लेदनक्रियायाः कर्मस्थत्वात्। स्थाल्यां पचति इति। कर्मस्था क्रिया यत्राध्रियते तस्योदाहरणम्; विक्लेदनक्रियाया कर्मस्थत्वात्।तत्पुनरधिकरणं त्रिप्रकारम् - औपश्लेषिकम्,वैषयिकम्, अभिव्यापकञ्च। तत्राद्ये - कटे आस्ते,स्थाल्यां पचतीति कटादेर्पयाधारस्य ह्राधेयेन सहोपश्लेषः संयोगलक्षणोऽस्तीत्यौपश्लेषिकं तद्भवति। वैषयिकम् - गुरौ वसति, गङ्गायां घोष इति। प्रतिवसतीति विषयो ह्रनन्यत्रभावः, यथा - चक्षुष्वप्रभृतीनां रूपादिभ्योऽनन्यत्रभावाच्चक्षुरादीनां रूपादयो विषया इत्युच्यन्ते, एवं शिष्यादीनां गुर्वादिभ्योऽनन्यत्रभावादेषां ते विषया इति। ननु च आधारोऽधिकरणम् (1.4.45) इत्युक्तम्, आधारश्च को भवति? य आश्रयः; संयोगतः समवायो वा भवति, न च शिष्यादीनां गुरुप्रभृतिभिः सह संयोगः समवायो वाऽस्ति, तदयुक्तं तेषामधिकरणत्वम्? नैतदस्ति; यदायत्ता हि यस्य स्थितिः स विनापि संयोगसमवायाभ्यां तस्याश्रयो भवति, यथा - राजायत्तस्थितित्वात् पुरुषस्य राजेति; न च राज्ञा सह पुरुषस्य संयोगसमवायौ स्त-। तथा हि - तदधीनस्थितित्वात् राजाश्रयः पुरुष इति लोके व्यपदिश्यते, तथा शिष्यादीनां गुर्वाद्यायत्ता स्थितिरिति युक्तस्तान् प्रति गुरुप्रभृतीनामाश्रयभावः। अभिव्यापकं यथा - तिलेषु तैलम्, दघ्नि सर्पिरिति। तिलादिकं तैलदिकमाधेयं व्याप्यावतिष्ठत इति तिलादिकमभिव्यापकमधिकरणम्। यद्यप्यत्र तिलादीनां तैलादिभिः सह संयोगोऽस्ति, तथापि देशविभागाभावादत्र संश्लेषव्यवहारो नास्तीत्यौपश्लेषिकात् तत्पृथगेवोपस्थाप्यते॥
Prakriyasarvasvam¶
क्रियाश्रययोः कर्तृकर्मणोराधारोऽधिकरणाख्यः ॥