14028: अन्तर्द्धौ येनादर्शनमिच्छति ================================== **Padacheda:** अन्तर्द्धौ | S | 7 | 1 | येन | S | 3 | 1 | अदर्शनम् | S | 1 | 1 | इच्छति | T | | | Sutrartha --------- **व्यवधानस्य आधारेण यस्मात् अदर्शनम् इष्यते, तत् कारकम् अपादानसंज्ञं भवति । यथा - कृष्णः मातुः निलीयते ।** **कारके** (1.4.23) इत्यस्मिन् अधिकारे यैः अष्टाभिः सूत्रैः अपादानसंज्ञायाः विधानम् क्रियते, तेषु इदं पञ्चमं सूत्रम् । **यत्र कस्यचित् व्यवधानस्य साहाय्यं स्वीकृत्य "अदर्शनं भवेत्" इति इच्छा विद्यते, तत्र **यस्मात् अदर्शनं भवेत्** तस्य **अपादानसंज्ञा** भवति** । यथा, यदि कृष्णः "माता मां न पश्येत्" इति हेतुना भित्तेः पृष्ठतः तिष्ठति, तर्हि तत्र कृष्णः मातुः निलीयते इति प्रयोगः सम्भवति । अत्र कृष्णः "मातृ"पदार्थात् अदर्शनम् इच्छति, अतः प्रकृतसूत्रेण "मातृ"पदार्थस्य अपादानसंज्ञा भवति । एवमेव, शिष्यः उपाध्यायात् अन्तर्धत्ते इति प्रयोगः अपि सिद्ध्यति । **अन्तर्धिः इति शब्दस्य अर्थः** प्रकृतसूत्रे विद्यमानः **अन्तर्धौ** इति शब्दः **अन्तर्धिः** इत्यस्य सप्तम्येकवचनम् अस्ति । **अन्तर्धिः** इत्युक्ते **व्यवधानम् / आच्छादनम् / तिरोधानम्** (hinderance / cover etc) । "वृक्षः", "भित्तिः", "गौः" इत्यादिकस्य पदार्थस्य व्यवधानरूपेण प्रयोगं कृत्वा "कश्चन माम् न पश्येत्" इति इच्छा यदा क्रियते तदा सः पदार्थः **अन्तर्धिः** इति नाम्ना ज्ञायते । अस्याः अन्तर्धेः उपस्थितौ, **यस्मात् अदर्शनम् इष्यते** तस्य प्रकृतसूत्रेण अपादानसंज्ञा दीयते । **दलकृत्यम्** 1. **"अन्तर्धिः" इति किमर्थम् ?** **यदि व्यवधानं नास्ति तर्हि प्रकृतसूत्रस्य प्रयोगः न भवति** । यथा, चौराः माम् न पश्येयुः इति केवलं इच्छा क्रियते; परन्तु तदर्थम् चौरेभ्यः गूहितुम् अन्तर्धेः आधारः नैव स्वीक्रियते, तत्र प्रकृतसूत्रेण "चौर"पदार्थस्य अपादानसंज्ञा नैव भवति । 2. ** "येन" इति किमर्थम् ? ** यः स्वयं भित्त्यादीनां पृष्ठतः स्थित्वा गूहति, **तेन कृतस्य अदर्शनस्य विषये अत्र चिन्तनं नास्ति**; अपितु **यस्मात् गूह्यते** सः **गूढस्य दर्शनं न कुर्यात्** इति अत्र इच्छा वर्तते । The person who is hiding behind a wall etc wishes that the other person should not see him. Whether the hidden person sees the other person is irrelevant here. एतत् स्पष्टीकर्तुम् एव अस्मिन् सूत्रे **येन** इति शब्दः प्रयुक्तः अस्ति । 3. **"इच्छति" इति किमर्थम्? ** "अदर्शनम् अभवत् उत न" इति विषयं विना एव, केवलम् **इच्छायाः** सन्दर्भेण अपि प्रकृतसूत्रस्य प्रयोगः अवश्यम् सम्भवति - इति स्पष्टीकर्तुम् प्रकृतसूत्रे "इच्छति" इति शब्दः प्रयुक्तः अस्ति । यथा, यत्र कृष्णः "माता मां न पश्येत्" इति हेतुना भित्तेः पृष्ठे गूहति, तत्र "माता वस्तुतः कृष्णम् पश्यति उत न पश्यति" इत्यस्य चिन्तनं विनैव प्रकृतसूत्रस्य प्रयोगं कृत्वा कृष्णः मातुः निलीयते इति प्रयोगः अवश्यं सिद्ध्यति, यतः कृष्णस्य मनसि "माता मां न पश्येत्" इति इच्छा तु अवश्यमेव वर्तते । ** भाष्ये सूत्रस्य प्रत्याख्यानम्** भाष्यकारेण "इदं सूत्रम् अनावश्यकम् अस्ति" इति उक्त्वा अस्य सूत्रस्य प्रत्याख्यानं कृतं वर्तते । तत्र भाष्यविधानम् इदम् - अयमपि योगः शक्योऽवक्तुम् । कथम् - उपाध्यायादन्तर्धत्त इति ? पश्यत्ययं यदि मामुपाध्यायः पश्यति ध्रुवं मे प्रेषणमुपालम्भो वेति ,स बुद्ध्या सम्प्राप्य निवर्तते । । तत्र **ध्रुवमपायेऽपादानम्** (1.4.24) इत्येव सिद्धम् । - महाभाष्यम् छात्रः उपाध्यायात् अन्तर्धत्ते इत्यादिषु प्रयोगेषु छात्रः "उपाध्यायः मां न पश्येत्" इति हेतुना अन्तर्धेः साहाय्यं स्वीकरोति । इत्युक्ते, आदौ छात्रः उपाध्यायस्य दर्शनात् स्वस्य निवर्तनं चिन्तयति, ततश्च अन्तर्धेः आधारेण "उपाध्यायः मां न पश्येत्" इति इच्छति । अनेन प्रकारेण अत्र अदर्शनक्रियायाम् प्रारम्भे **बुद्धिकृतः अपायः** अवश्यं वर्तते, अतश्च इदम् **उपात्तविषयम् अपादानम्** एव मत्त्वा ध्रुवमपायेऽपादानम्>> (1.4.24) इत्यनेनैव अत्र अपादानसंज्ञा अवश्यं भवितुम् अर्हति , तदर्थम् पृथक् सूत्रम् अत्र अनावश्यकम् एव - इति अत्र भाष्यकारस्य आशयः वर्तते । Vasu English Summary -------------------- When concealment is indicated, the person whose sight one wishes to avoid, is called अपादान कारक। Vasu English Translation ------------------------ When concealment is indicated, the person whose sight one wishes to avoid, is called अपादान कारक। Thus उपाध्यायादन्तर्धत्ते or निलीयते he conceals or hides from the teacher; so that the teacher may not find him out or see him. Why do we say 'when concealment is indicated'? Observe चौरात् न दिदृक्षते he does not wish to see the thieves. Here the term *chauran* is in the accusative case. Why has the word *ichchhati* been used in the text? The *apadana* *karaka* is to be used there only, where one desires that he should not be seen, yet he shows himself. Bhashya ------- अन्तर्द्धौ येनाऽदर्शनमिच्छति (268) अयमपि योगः शक्योऽवक्तुम् । कथम् - उपाध्यायादन्तर्धत्त इति ? पश्यत्ययं यदि मामुपाध्यायः पश्यति ध्रुवं मे प्रेषणमुपालम्भो वेति ,स बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानम् (1.2.24) इत्येव सिद्धम् ॥ 28 ॥ Kashika ------- व्यवधानमन्तर्धिः। अन्तर्धिनिमित्तं येनादर्शनमात्मन इच्छति, तत् कारकमपादानसंज्ञं भवति। उपाध्यायाद् अन्तर्धत्ते। उपाध्यायाद् निलीयते। मा मामुपाध्यायो द्राक्षीदिति निलीयते। अन्तर्धाविति किम्? चौरान् न दिदृक्षते। इच्छतिग्रहणं किम्? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात्॥ Siddhanta Kaumudi ----------------- व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्णः । अन्तर्धौ किम् ? चौरान्न दिदृक्षते । इच्छतिग्रहणं किम् ? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् ॥ Balamanorama ------------ **अन्तर्द्धौ येनादर्शनमिच्छति** - अन्तर्धौ । अन्तर्धावित्येतद्व्याचष्टे — व्यवधाने सतीति । व्यवधानेनेति यावत् । यत्कर्तृकस्येति । येनेति कर्तृतृतीयेति भावः । आत्मनो दर्शनस्येति । 'आत्मन' इति दर्शनशब्दयोगे कर्मणि षष्ठी । 'आत्मन' इत्यध्याहारलभ्यम् । अत एव येनेति कर्तरि तृतीया सङ्गच्छते । अन्यथा कृद्योगषष्ठीप्रसङ्गात् । 'आत्मन' इत्यध्याहारे तु उभयप्राप्तौ कर्मण्येवेति नियमान्न कृद्योग९षष्ठी । आत्मशब्देन इच्छतिकर्ता विवक्षितः । व्यवदानेन स्वविषये यत्कर्तृकदर्शनस्य अभावमिच्छतीति यावत् । मातुर्निलीयते कृष्म इति ।लीङ्श्लेषणे॑श्यन्विकरणः । इह तूपसर्गवशाद्व्यवधानेन परकर्तृकस्वविषयकदर्शनविरहानुकूलव्यापारे वर्तते । ततश्च कृष्णो मातृकर्तृकस्वविषयकदर्शनविरहाय कुडआदिना प्रच्छन्नो भवतीत्यर्थः । अत्र व्यवधानमाश्रित्य मातृकर्तृकस्वविषयकदर्शनविरहस्य कृष्णेनेष्यमाणतया मातुरपादानत्वात्पञ्चमी । कर्तृतृतीयापवादोऽयं , षष्ठपवादो वा । भाष्ये तु बुद्धिकृतमपादानत्वमाश्रित्य इदमपि प्रत्याख्यातम् । Tattvabodhini ------------- **अन्तर्द्धौ येनादर्शनमिच्छति** - अन्तर्धौ । येनेति कर्तरि तृतीया । न च कृद्योगषष्ठीप्रसङ्गः,उभयप्राप्तौ कर्मण्येवे ति नियमात् । अत्र ह्रात्मन इति गम्यमानत्वादस्त्युभयोः प्राप्तिः । निलीयत इति ।लिङ् श्लेषणे॑ दैवादिकः । नन्वन्तद्र्धाविति व्यर्थं,न दिदृक्षते चोरो नित्यत्र परत्वात्कर्मसंज्ञासिद्धेः । अत्राहुः — चोराः आत्मानं मा द्राक्षुरिति बुद्द्या चोरन्न दिदृक्षत इत्ययमर्थोऽत्र विवक्षितस्तत्र कर्मणः शेषत्वविवक्षायामिदं पूर्ववत्प्रत्युदाहरणमिति । शब्दकौस्तुभे तुअन्तर्धौ॑ इत्येतच्चिन्त्यप्रयोजनमिति स्थितम् । Padamanjari ----------- अन्तर्द्धौ इति नेयं'निमितात्कर्मयोगे' इति सप्तमी, यथा हि-वेतनेन धान्यं लुनातीत्यत्र वेतनस्य धान्येन योगोऽस्ति,तथेहाप्यदर्शनमिच्छतीतीच्छाकर्मणाऽदर्शनेनान्तर्द्धेर्योगो नास्ति। अथादर्शनस्य यत्कर्म आत्माख्यमात्मनोऽदर्शनमिच्छतीति तेनान्तर्द्धेर्योगोऽस्ति? यस्यैवादर्शनंतस्यैवान्तर्द्धानमित्युच्येत। एवमपि'निमितात्कर्मयोगे' इति किं निमितं गृह्यते, कारणम्? प्रयेजनं वा? कारणं चेज्जाड।लेन बद्धः- अत्रापि प्राप्नोति, य एव बद्ध्यते तत्रैव जाड।ल्मिति; तस्मात् प्रयोजनस्य तत्र ग्रहणम्। यथा-चर्मणि द्वीपिनं हन्तीति चर्म द्वीपिहननस्य प्रयोजनम्। इह त्वन्तर्द्धानमदर्शनस्य कारणम्, अन्तर्हितः खल्वसौ न द्दश्यते। तस्माद्विषयसप्तम्येषा, सत्सप्तमी वा। येनेति कर्तरि तृतीया। ननु च दर्शनेन योगात्'कर्तृ कर्मणोः कृति' इति षष्ठ।ल भाव्यम्। उभयप्राप्तौ कर्मण्येवेति नियमात् तृतीया भविष्यति। कम त्वत्रादर्शनस्यात्मा। नन्वात्मने इति न श्रूयते, मा श्रावि; येनादर्शनमिच्छतीत्युक्ते कस्येत्यपेक्षायामात्मन इति गम्यते। अन्तर्द्धिनिमितमिति। अन्तर्द्धिना कारणेनेत्यर्थः।'निमितकारणहेतुषु सर्वासां प्रायदर्शनम्' इति प्रथमा। अथ वा-बहुब्रीहिरदर्शनस्य समानाधिकरणं विशेषणम्। सूत्रऽनुपातोऽपि तच्छब्दो यतदोर्नित्यसम्बन्धाल्लभ्यत एवेत्याह-तत्कारकमिति। अन्तर्द्धते इति। तिरोभवतीत्यर्थः। निलीयते इति।'लीङ् श्लेषणे' दैवादिकः। चौरान्न दिद्दक्षते इति। आत्मानं ते मा द्राक्षुरित्येवमर्थम्। ननु परत्वात्कर्मसंज्ञा भविष्यति, सत्यम्; अयमपि प्रपञ्चः, कथम्? पश्यत्येवम्-यद्यौपाध्यायः पश्येद् ध्रुवं मे प्रेषणमुपालम्भो वा भवेदिति, स बुद्ध्या संप्राप्य निवर्तते। येनेत्यस्मिन्नसत्यदर्शनमिच्छतः शिष्यस्यैव स्यात्, ध्रुवमित्यनुवर्तिष्यते। एवं तर्हि सूत्रस्यावाचकत्वं मा भूत्। असति हि तस्मिन्नन्तर्द्धौ ध्रुवमपादानसंज्ञं भवति तच्चेद् ध्रुवमदर्शनमिच्छतीत्यर्थः स्यात्। न च ध्रुवमिच्छति, यच्चेच्छति न तद् ध्रुवमित्यवाचकं स्यात्॥ Nyaas ----- अन्तर्द्धौ इति निमित्तसप्तमीयम्। निमित्तात् कर्मयोगे (वा-138) इति सप्तमी, यथा - चर्मणि द्वीपिनं हन्तीति। एतदेव ज्ञापकम् - निमित्तात् कर्मसंयोगेऽस्ति सप्तमीति। अस्ति ह्यत्रादर्शनेन कर्मणा संयोगः । येन इति। कर्तरि तृतीया। ननु च **कर्त्तृकर्मणोः कृति** (2.3.65) इति षष्ठ्या भवितव्यमिति? नैतदस्ति; **उभयप्राप्तौ कर्मणि** (2.3.66) इति नियमात् कर्मण्येव, न कर्तरि। कर्म त्वत्रादर्शनस्यात्मा, तस्यान्तरङत्वात् स एव कर्म विज्ञायते। तत् कारकम् इति। यद्यप्यत्र सूत्रे तच्छब्दो नोपात्तः, तथापि स यत्तदोर्नित्याभिसम्बन्धाल्लभ्यते। उपाध्यायादन्तर्धत्ते इत्यत्रोपाध्यायेन कर्ता शिष्य आत्मनः कर्मभूतस्यादर्शनमिच्छति। अन्तर्द्धिनिमित्तम्। अन्तर्धत्ते इति दधातेर्लट्,**स्वरितञितः** (1.3.72) इत्यात्मनेपदम्, शपः श्लुः, **श्लौ** (6.1.10) इति द्विर्वचनम्, **श्नाभ्यसत्योरातः** (6.4.112) इत्याकारलोपः, अभ्यासस्य जश्त्वम्, **दधस्तथोश्च** (8.2.38) इति दकारस्य धकारः, परस्य धकारस्य **खरि च** (8.4.54) इति चर्त्वम् तकारः। निलीयते इति। लीङ श्लेषणे (धातुपाठः-1139) दैवादिकः। चौरान्न दिदृक्षते इति। अत्र यश्चौरान् न दिदृशत इति स तैरात्मनोऽदर्शनमिच्छति, न त्वन्तर्द्धिनिमित्तम्; किन्तूपघातनिवृत्त्यर्थम्। विस्पष्टार्थञ्चान्तर्द्धिग्रहणम् । परत्वात् कर्मसंज्ञयैव बाधितत्वाच्चौराणामिहापादानसंज्ञा न भविष्यति। प्रपञ्चार्थोऽयं योगः, न च प्रपञ्चे गुरुलाघवं चिन्त्यत इत्युक्तम्। उपाध्यायादन्तर्धत्ते शिष्य इति शिष्यस्यान्तर्द्धातुर्मा भूत्, नैतदस्ति; ध्रुवमित्यनुवर्तते, ध्रुवञ्चावधिभूतमित्युक्तम्; न चान्तर्द्धातावधिभूतः। एवं तर्ह्यसति येनेत्येतस्मिन् वचने, सत्यामपि ध्रुवमित्यस्यानुवृत्तौ सूत्रस्यावाचकत्वं स्यात् । अतस्तन्माभूदिति येनेत्युक्तम् ॥ Prakriyasarvasvam ----------------- तिरोधाने सति यत्कर्तृकमदर्शनमिष्यते सोऽपादानम् । मातुर्निलीयते कृष्णः । Sutra Prayogas -------------- * **रघु-व्याघ्रात्तस्मात्त्वं** (भट्टिकाव्यम्): `अन्तर्धौ येना` इत्यपादानसंज्ञा। * **मत्तो** (भट्टिकाव्यम्): `अन्तर्धी` इत्यपादानसंज्ञायां पञ्चम्यास्तसिः । * **रक्षोभ्यो** (भट्टिकाव्यम्): `अन्तर्धौ येनादर्शनमिच्छति` इति अपादानसंज्ञा।