14020: अयस्मयादीनि च्छन्दसि =========================== **Padacheda:** अयस्मय-आदीनि | S | 1 | 3 | छन्दसि | S | 7 | 1 | Sutrartha --------- **'अयस्मय' आदयः शब्दाः वेदेषु साधवः ज्ञेयाः ।** वेदेषु विद्यमानेषु **अयस्मय**, **ऋक्वता**, **वाजिनेषु** इत्यादिषु केषुचित् शब्देषु भसंज्ञासम्बन्धि तथा च पदसंज्ञासम्बन्धि कार्यम् प्राप्तम् अपि नैव कृतं दृश्यते । तथापि एतादृशाः वैदिकवाङ्मये विद्यमानाः शब्दाः यथानिर्दिष्टम् प्रकारेण एव साधवः ज्ञेयाः - इति ज्ञापयितुम् प्रकृतसूत्रम् रचितम् अस्ति । **अयस्मयादीनि शब्दरूपाणि वेदेषु साधूनि ज्ञेयानि** - इति अस्य सूत्रस्य अर्थः । एतेषाम् अयस्मयादीनाम् विशिष्टा आवली व्याख्यानेषु नैव उपलभ्यते, अपितु कानिचन एव उदाहरणानि दत्त्वा, ततश्च **अयस्मयादिगणः आकृतिगणः अस्ति** इति निर्देशः कृतः दृश्यते । **वेदेषु दृष्टाः अन्ये शब्दाः, येषु भसंज्ञाविशिष्टं पदसंज्ञाविशिष्टं वा किञ्चन कार्यम् न प्रवर्तते, ते अपि सर्वे अस्मिन् गणे समावेष्टव्याः** - इति अस्य निर्देशस्य आशयः । अस्मिन्नेव सन्दर्भे अत्र भाष्यकारः एकं वार्त्तिकम् अपि पाठयति - । **अयस्मयादीनाम् सिद्धौ प्रकृतेः पदसंज्ञा/भसंज्ञा इति उभये अपि संज्ञे यथायोग्यम् (यत्र आवश्यकम् तत्र) साधु मन्तव्ये** - इति अस्य वार्त्तिकस्य आशयः । **उदाहरणानि** अयस्मयादिगणस्य केषाञ्चन शब्दानां सिद्धिः अधः दत्ता अस्ति —
  • 1. अयस्मय - "अयसः विकारः" (made of iron) अस्मिन् अर्थे "अयस्" इति शब्दात् **द्व्यचश्छन्दसि** (4.3.150) इति सूत्रेण "मयट्" इति तद्धितप्रत्ययः विधीयते । अस्मिन् प्रत्यये परे "अयस्"-शब्दस्य वस्तुतः **स्वादिष्वसर्वनामस्थाने** (1.4.17) इति **पदसंज्ञा** भवेत्, तथा च पदसंज्ञाविशिष्टम् रुत्वकार्यम् अपि अत्र विधीयेत । परन्तु "अयस्मय" इति शब्दस्य सिद्धौ एतत् कार्यं नैव प्रवर्तते । अतः अत्र "अयस्" शब्दस्य इति वार्त्तिकेन **भसंज्ञा** एव भवति इति मत्त्वा अन्तिमं रूपं साध्यते । यथा - .. code-block:: text अयस् + मयट् [**द्व्यचश्छन्दसि** (4.3.150) इति सूत्रेण मयट्-प्रत्ययः ] → अयस्मय [**अयस्मयादीनि च्छन्दसि** (1.4.20) इति सूत्रसामर्थ्यात् अयस्-शब्दस्य **भसंज्ञां स्वीकृत्य** अत्र केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति । ] भाषायाम् तु सकारस्य रुत्वे उत्वे च कृते "अयोमयम्" इत्येव प्रयोगः साधु स्वीकर्तव्यः ।
  • 2. ऋक्वता - *स सुष्टुभा स ऋक्वता गणेन* (ऋग्वेदः - 4.50.5) इत्यत्र विद्यमानः "ऋक्वता" इति शब्दः "ऋक्वत्" इति प्रातिपदिकात् सिद्ध्यति । "ऋक्वत्" इति प्रातिपदिकं स्वयम् "ऋच्" इति शब्दात् "मतुँप्" प्रत्ययं कृत्वा साधितम् अस्ति । अत्र "ऋच् + मतुँप्" इति प्रक्रियायाम् एकस्मिन् सोपाने "ऋच्"-शब्दस्य सन्दर्भेण **पदसंज्ञाविशिष्टं कार्यम्**, तथा च अग्रिमे सोपाने तस्यैव भसंज्ञां मत्त्वा **पदसंज्ञायाः निषेधः** - इति उभयथा कृतं दृश्यते । प्रक्रिया इयम् — .. code-block:: text ऋक् अस्य अस्ति = ऋच् + मतुँप् [**तदस्यास्त्यस्मिन्निति मतुप्** (5.2.94) इति मतुँप्-प्रत्ययः ।] → ऋच् + वत् [**झयः** (8.2.10) इति मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः ] → ऋक् + वत् [वत्-प्रत्यये परे प्रकृतेः **पदसंज्ञायां सत्याम्** **चोः कुः** (8.2.30) इति कुत्वम् ।] → ऋक्वत् [वत्-प्रत्यये परे प्रकृतेः **भसंज्ञाम् अपि स्वीकृत्य, तेन पदसंज्ञायाः बाधनात्**, पदसंज्ञायाः अभावे **झलां जशोऽन्ते** (8.2.39) इति जश्त्वं न प्रवर्तते ]
  • 3. वाजिनेषु - *नैनं हिन्वन्त्यपि वाजिनेषु* (ऋग्वेदः - 10.71.05) इत्यत्र विद्यमानः "वाजिनेषु" इति शब्दः "वाजिन" इति शब्दस्य सप्तमीबहुवचनम् अस्ति ।अयम "वाजिन" इति शब्दः "वाचाम् इनः (प्रभुः)" इति अर्थे षष्ठीतत्पुरुषसमासं कृत्वा सिद्ध्यति । अत्र समस्तपदनिर्माणस्य प्रक्रियायाम् "वाच् + इन" इत्यत्र यद्यपि "इन" इति प्रत्ययः नास्ति, तथापि आदौ भसंज्ञां कृत्वा तया **पदसंज्ञायाः बाधं** कृत्वा पदसंज्ञाविशिष्टं कुत्वं निषिध्यते, ततश्च अग्रिमसोपाने पुनः **पदसंज्ञां** कृत्वा तत्रैव जश्त्वं विधीयते । प्रक्रिया इयम् - .. code-block:: text वाचाम् इनः [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषसमासः] → वाच् इन [**कृत्तद्धितसमासाश्च** (1.2.46) इति समस्तपदस्य प्रातिपदिकसंज्ञा । अतः **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति वाच्-शब्दात् विहितस्य, इन-शब्दात् विहितस्य च विभक्तिप्रत्ययस्य लुक् भवति ।] → वाच् इन [वाच्-शब्दस्य **भसंज्ञां स्वीकृत्य, तया पदसंज्ञायाः बाधे कृते**, अत्र पदसंज्ञाविशिष्टम् **चोः कुः** (8.2.30) इति कुत्वं न भवति ।] → वाज् इन [कुत्वनिषेधात् अनन्तरम् वाच्-शब्दस्य **पदसंज्ञां स्वीकृत्य**, **झलां जशोऽन्ते** (8.2.39) इति पदसंज्ञाविशिष्टम् जश्त्वम् अत्र प्रवर्तते ।] →‌ वाजिन ****वृद्धिराजैदङे्गुणः** इति संहितापाठे अस्य सूत्रस्य प्रयोगः** **छन्दोवत्सूत्राणि भवन्ति** इति वचनेन अष्टाध्याय्याः सूत्राणि अपि छन्दोवत् (वेदसदृशानि) एव स्वीक्रियन्ते । अतः **अयस्मयादीनि च्छन्दसि** (1.4.20) इति सूत्रस्य प्रयोगः अष्टाध्याय्याः सूत्राणां विषये अपि भवितुम् अर्हति । यथा, अष्टाध्याय्याः प्रथमम् सूत्रम् - **वृद्धिरादैच्** (1.1.1) - इत्यत्र पदान्ते चकारः विद्यते, अतः अत्र वस्तुतः अत्र **चोः कुः** (8.2.30) इति अस्य चकारस्य कुत्वं प्रसज्यते । परन्तु इदं सूत्रम् अपि अयस्यमादिषु एव स्वीकृत्य, **अयस्मयादीनि च्छन्दसि** (1.4.20) इति सूत्रेण अत्र कुत्वस्य समये पदसंज्ञां बाधित्वा भसंज्ञा विधीयते, येन अत्र कुत्वं निषिध्यते । अग्रे संहितापाठे इदं सूत्रम् अग्रिमसूत्रेण (इत्युक्ते **अदेङ् गुणः** (1.1.2) इत्यनेन) सह यदा उच्चार्यते, तदा "आदैच्" इत्यस्य पुनः पदसंज्ञां स्वीकृत्य **झलां जशोऽन्ते** (8.2.39) इत्यनेन जश्त्वे कृते **वृद्धिरादैजदेङ्गुणः** इति शब्दः सिद्ध्यति । Sutrartha (English) ------------------- The 'अयस्मय' and other words should be considered valid words in the वैदिक literature. Vasu English Summary -------------------- Words like अयस्मय etc. are valid forms in the छन्दस्। Vasu English Translation ------------------------ Words like अयस्मय etc. are valid forms in the छन्दस्। These words being taught here in the topic relating to *pada* and *Bha*, show that they have been properly forced in the *chhandas* by the application of the rules of *Bha* and *pada*. Thus अयस् + मय = अयस्मय made of iron. Here the word अयस् is treated as *Bha* and hence the स् is not changed into र. Thus अयस्मयं वर्म iron-made coat of mail. अयस्मयानि पात्राणि iron vessels. The present form of this word is अयोमयं. In some places both these *pada* and *Bha* apply simultaneously. Thus in the word ॠक्वत् formed by ऋच् + वत्, the च् is first changed into क् by treating the word rich as a *pada*. Then the word ॠक् is treated as *Bha*, and therefore the क् is not changed into ग् before वत्. For had it been *pada*, the form would have been ॠग्वत् *Rigvat*. These irregularly formed words occur only in the *chhandas* or Vedic literature. Thus स सुष्टुभास ऋक्वता गणेन. Bhashya ------- अयस्मयादीनि च्छन्दसि (260) उभयसंज्ञान्यपि॥ 1 ॥ उभयसंज्ञान्यपीति वक्तव्यम् । स सुष्टुभा स ऋक्वता गणेन ॥ 20 ॥ Kashika ------- अयस्मयादीनि शब्दरूपाणि छन्दसि विषये साधूनि भवन्ति। भपदसंज्ञाधिकारे विधानात् तेन मुखेन साधुत्वमयस्मयादीनां विधीयते। अयस्मयं वर्म (पै०सं० १.३.७.५)। अयस्मयानि (कौ०सू० ८१.१८) पात्राणि। क्वचिदुभयमपि भवति। स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ (ऋ० ४.५०.५)। पदत्वात् कुत्वं भत्वाज् जश्त्वं न भवति। छन्दसीति किम्? अयोमयं वर्म। आकृतिगणोऽयम्। Siddhanta Kaumudi ----------------- एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोग्यं संज्ञाद्वयं बोध्यम् । तथा च वार्तिकम् ॥ (वार्तिकम्) ॥ स सुष्टुभा स ऋक्वता गणेन (स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑) । पदत्वात्कुत्वम् । भत्वाज्जश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् । नैनं हिन्वन्त्यपि वाजिनेषु (नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु) । अत्र पदत्वाज्जश्त्वम् । भत्वात्कुत्वाभावः । ते प्राग्धातोः (SK2230) ॥ Padamanjari ----------- यदि संज्ञा विधीयेत आनन्तर्थाद्भसंज्ञाविधानद्वारेणैव निपातनं स्यात्, पदसंज्ञा न स्याद्, भपदसंज्ञयोः समावेशो न स्यात्, तस्मात्साधुत्वमेव युक्तं विधातुमिति मत्वाह-अयस्मयादिनीत्यादि। साधुत्वे प्रकारविशेषं दर्शयति। भपदसंज्ञाधिकार इत्यादि। द्वारमूपायः। अयस्मयमिति। अयसो विकारः'द्व्यचश्च्छन्दसि' इति मयट्॥ Nyaas ----- यद्यत्र भसंज्ञा विधीयेत तदा पदसंज्ञा न स्यात्, अथ यदि पदसंज्ञा विधीयेत तदाऽत्र भसंज्ञा न स्यात्, तदा भपदसंज्ञयोः समावेशो न स्यात्; एकसंज्ञाधिकारात्। साधुत्वविधाने त्वेष दोषो न भवति, तद्धि केषाञ्चिद्भसंज्ञा विधीयते पदसंज्ञकानाम्, केषाञ्चिदुभयसंज्ञाकानाम्; तस्मात् साधुत्वमेव विधातुं युक्तमित्यत आह - `अयस्मयादीनि` इत्यादि। कथं पुनरेषां साधुत्वं विधीयत इत्याह - `भपदसंज्ञाधिकारे` इत्यादि। द्वारम्, मुखम्, उपाय तत्र भाषाग्रहणमस्ति, तथाप्ययस्मयशब्दस्यास्मादेव साधुत्वविधानाच्छन्दस्यपि मयड् भवतीति भत्वाद्रुत्वं न भवति। `सऋक्वता` इति। ऋचोऽस्य सन्तीति मतुप्। पदत्वात् `चोः कुः` 8.3.30) इति कुत्वम्। भत्वात् **झलां जशोऽन्ते** (8.2.39) इति जश्त्वं न भवति। `आकृतिगणोऽयम्` इति। आदिशब्दस्य प्रकारवाचित्वात्॥ Prakriyasarvasvam ----------------- एतानि भपदकार्यवन्ति निपात्यन्ते । अयस्मयस्तमादामेति । अयस्मयानि पात्राणीति भत्वात् रुत्वाभावः । एवं चमोऽन्नभस्मयम् । वृषभः ककुद्मानित्यत्र "तसौ मत्व" (१-४-१९) इति भत्वं विना पदत्वाज्जश्त्वम् । स ऋष्वता गणेनेत्यत्र पदत्वात्कुत्वं भत्वाज्जश्त्वम् नेत्युभयम् । 'पुनश्चनसोश्छन्दसि गतित्वं- वाच्यं' (वा. १-४-६०) पुनर्दायब्रह्मजायाम् । उशिग्दूतश्चनो हितः । गतित्वा- त्समासादि । Vartika ------- उभयसंज्ञान्यपीति वक्तव्यम् ।