13085: विभाषाऽकर्मकात्

Padacheda: विभाषा | S | 1 | 1 |

अकर्मकात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

After the verb रम् ‘to sport’, preceded by उप , परस्मैपद is optionally used, when employed intransitively.

Vasu English Translation

After the verb रम् ‘to sport’, preceded by उप , परस्मैपद is optionally used, when employed intransitively. The last aphorism ordained parasmaipada absolutely. This declares an option under certain circumstances. As यावद्भुक्तमुपरमति or उपरमते, he desisted from or was quiet while it was eaten.

Kashika

रम उपादिति च वर्तते। पूर्वेण नित्ये परस्मैपदे प्राप्ते विकल्प आरभ्यते। उपपूर्वाद् रमतेरकर्मकाद् विभाषा परस्मैपदं भवति। यावद्भुक्तमुपरमति, यावद्भुक्तमुपरमते। निवर्तत इत्यर्थः॥

Siddhanta Kaumudi

उपाद्रमेरकर्मकात्परस्मैपदं वा । उपरमति । उपरमते वा । निवर्तत इत्यर्थः ॥

Nyaas

यावद्भुक्तम् इति। यावदवधारणे (2.1.8) इत्यव्ययीभावः।भुक्तम इति। नपवंसके भावे क्तः (3.3.114) इति क्तप्रत्ययः। यावन्ति भोजनानि तावद्भ्यो निवर्ततइत्यर्थः। अथ वा - यावद्भुक्तमिति यथार्थे वीप्सायामव्ययीभावः। भोजनाद्भोजनन्निवर्तत इत्यर्थः॥

Prakriyasarvasvam

अकर्मकादुपरमेर्वा परस्मैपदम् । पापादुपरमति, उपरते१ ।

Sutra Prayogas

  • नोपरराम (किरातार्जुनीयम्): विभाषाकर्मकात् इति परस्मैपदम्।

  • उपारंसीच्च (भट्टिकाव्यम्): विभाषाऽकर्मकात् इति लुङः परस्मैपदम्।

  • उपारंस्त (भट्टिकाव्यम्): विभाषा ऽकर्मकात् इति तङ्।