13079: अनुपराभ्यां कृञः¶
Padacheda: अनु-पराभ्याम् | S | 5 | 2 |
कृञः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
After the verb कृ ‘to make’ preceded by the अनु and पर , परस्मैपद is used, even the fruit of the action goes to the agent and when the sense is that of ‘divulging’ etc.
Vasu English Translation¶
After the verb कृ ‘to make’ preceded by the अनु and पर , परस्मैपद is used, even the fruit of the action goes to the agent and when the sense is that of ‘divulging’ etc. By aphorism (1.3.32) ante, the root कृ took the terminations of the Atmanepada when the sense denoted was that of “divulging, reviling,” &c., and it also took Atmanepada termination when the fruit of the action accrued to the agent by virtue of sutra (1.3.72), because the root कृञ् has an indicatory ञ. The present sutra makes an exception to those rules, and ordains parasmaipada. Thus अनुकरोति ‘he imitates,’ पराकरोति ‘he does well.’
Bhashya¶
अनुपराभ्यां कृञः किमर्थमिदमुच्यते ?। परस्मैपदप्रतिषेधात्कृञ्ञादिषु विधानम् ॥ 1 ॥ परस्मैपदप्रतिषेधात्कृञ्ञादिषु परस्मैपदं विधीयते । प्रतिषिद्ध्यते तत्र परस्मैपदम् स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवतीति । अस्ति प्रयोजनमेतत् । किं तर्हीति ?। तत्रात्मनेपदप्रतिषेधोऽप्रतिषिद्धत्वात् ॥ 2 ॥ तत्रात्मनेपदस्य प्रतिषेधो वक्तव्यः । किं कारणम् ?। अप्रतिषिद्धत्वात् । नह्यात्मनेपदं प्रतिषिद्ध्यते । किं तर्हि ?। पस्मैपदमनेन विधीयते । न वा द्युतादिभ्यो वावचनात् ॥ 3 ॥ न वा एष दोषः । किं कारणम् ?। द्युतादिभ्यो वावचनात् । यदयं द्युतादिभ्यो वावचनं करोति तज्ज्ञापयत्याचार्यः - न परस्मैपदविषये आत्मनेपदं भवतीति । आत्मनेपदनियमे वा प्रतिषेधः ॥ 4 ॥ आत्मनेपदनियमे वा प्रतिषेधो वक्तव्यः । स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति, कर्तर्यनुपराभ्यां कृञ्ञो नेति । सिद्ध्यति । सूत्रं तर्हि भिद्यते । यथान्यासमेवास्तु । ननु चोक्तं । तत्रात्मनेपदप्रतिषेधोऽप्रतिषिद्धत्वाद्। इति । परिहृतमेतत् न वा द्युतादिभ्यो वावचनादिति । अथवा इदं तावदयं प्रष्टव्यः - स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवतीति परस्मैपदं कस्मान्न भवति । आत्मनेपदेन बाध्यते । यथैव तर्ह्यात्मनेपदेन परस्मैपदं बाध्यते, एवं परस्मैपदेनाप्यात्मनेपदं बाधिष्यते ॥ 79 ॥
Kashika¶
कर्त्रभिप्राये क्रियाफले गन्धनादिषु च करोतेरात्मनेपदं विहितम्, तदपवादः परस्मैपदं विधीयते। अनु परा इत्येवंपूर्वात् करोतेः परस्मैपदं भवति। अनुकरोति। पराकरोति॥
Siddhanta Kaumudi¶
कर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् । अनुकरोति । पराकरोति । कर्तरीत्येव । भावकर्मणोर्मा भूत् । न चैवमपि कर्मकर्तरि प्रसङ्गः । कार्यातिदेशपक्षस्य मुख्यतया तत्र कर्मवत्कर्मणा (SK2766) इत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशपक्षे तु कर्तरि शप् (SK2167) इत्यतः शेषात् (SK2159) इत्यतश्च कर्तृग्रहणद्वयमुवर्त्य कर्तैव यः कर्ता नतु कर्मकर्ता तत्रेति व्याख्येयम् ॥
Laghu Siddhanta Kaumudi¶
कर्तृगे च फले गन्धनादौ च परस्मैपदं स्यात्। अनुकरोति। पराकरोति॥
Balamanorama¶
अनुपराभ्यां कृञः - अनुपराभ्यां कृञः ।परस्मैपदमिति शेषः । ननु ‘स्वरितञितः’ इत्यात्मनेपदस्य कर्तगाम्नियेव फले विधानादकर्तृगामिनि फलेशेषात्कर्तरी॑ति परस्मैपदस्य सिद्धत्वात् किमर्थ मिदमित्यत आह — कर्तृगेऽपीति । गन्धनादाविति । गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु इत्यर्थः । मा भूदिति । भावे कर्मणि लकारस्य कर्तृगे फलेपरस्मपैदनिवृत्त्यर्थं कर्तरीत्यस्याऽनुवृत्तिरिति भावः । ननु कर्तरीत्यस्यानुवृत्तावपिअनुक्रियते शब्दः स्वयमेवे॑त्यत्र कर्मकर्तरि परस्मैपदं दुर्वारमित्याशङ्क्य परिहरति — नचेति । एवमपि = कर्तरीत्यस्यानुवृत्तावपि कर्मकर्तरि आत्मनेपदस्य प्रसङ्गो न शङ्क्य इत्यर्थः । कुत इत्यत आह — कार्यातिदेशेति । तत्र कर्मकर्तरिकर्मवत्कर्मणा तुल्यक्रियः॑ इत्यात्मनेपदेन परेणाऽस्य परस्मैपदस्य बाधादित्यन्वयः । नु कर्मणि यच्छास्त्रं तत्कर्मवत्कर्मणे॑ति कर्मकर्तर्यतिदिश्यते, तथा चाऽत्र कर्मकर्तरिभावकर्मणो॑रित्यात्मनेपदशास्त्रमिह प्राप्तम् । तस्य च परत्वाऽभावात् ‘अनुपराभ्यां कृञः’ इत्यनेन कथं बाधः स्यादित्यत आह — कार्यातिदेशपक्षस्य मुख्यतयेति । शास्त्रातिदेशस्य कार्यातिदेशार्थतया कार्यातिदेशस्य मुख्यत्वम् । ततश्चकर्मवत् कर्मणे॑त्यनेन कर्मणि विहितमात्मनेपदं कर्मकर्तरि विधीयते । तस्य च परत्वात्तेनात्मनेपदेनअनुपराभ्याटमिति परस्मैपदं कर्मकर्तरि बाधमर्हतीति भावः ।कर्मवत्कर्मणे॑त्यत्र शास्त्रातिदेशमभ्युपगम्याअह — - शास्त्रातिदेशपक्षे त्विति । ‘अनुपराभ्यां कृञः’ इत्यत्रकर्तरि कर्मव्यतिहारे॑ इत्यस्मादेकं कर्तृघणमनुवर्तते । तथाशेषात्कर्तरि परस्मैपद॑मित्यस्माद्द्वितीयं कर्तृग्रहणमनुवर्तते । तथा चस्वभावतः एव यः कर्ता, नतु विवक्षाधीनः कर्मकर्ता तथाविधकर्तर्येव अनुपराभ्यां कृञः परस्मैपद॑मिति लभ्यते । एवं च कर्मकर्तरि नास्य प्रवृत्तिरित्यर्थः ।
Tattvabodhini¶
अनुपराभ्यां कृञः - अस्य बाधादिति ।अनुपराभ्या॑मित्यस्येत्यर्थः । अत एवकर्मवत्कर्मणे॑ति सूत्रे कार्यातिदेशोऽयमिति वक्ष्यति । शास्त्रातिदेशपक्षेकर्मवत्कर्मणे॑ त्यनेनात्मनेपदं न विधीयते, किं तु तद्विधायकंभावकर्मणो॑रिति शास्त्रमतिदिश्यते, तस्य च पूर्वत्वात्परेणअनुपराभ्या॑मित्यनेन बाधमाशङ्क्याह — शास्त्रातिदेश इत्यादि । स्वरितेदिति । तथा च कर्तृगामिनि क्रियाफलेऽपि परस्मैपदार्थः सूत्रारम्भ इति भावः ।
Padamanjari¶
अत्रापि द्वितीयं कर्तृ ग्रहणमनुवर्तते। अनुक्रियते स्वयमेव, पराक्रियते स्वयमेव॥
Prakriyasarvasvam¶
आभ्यां कृञः परस्मैपदमेव । अनुकरोति । पराकरोति ।
Sudha¶
अनुपराभ्यां कृञः। गन्धनादाविति । गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्वप्रकथनोपयोगेषु इत्यर्थः । अनुकरोति पराकरोति । अत्र गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः इति आत्मनेपदे प्राप्ते, अनुपराभ्यां कृञः इत्यपवादभूतेनानेन परस्मैपदम् ।
Sutra Prayogas¶
पराकुर्वन् (भट्टिकाव्यम्): अनु-पराभ्यां कृञः इति कर्त्रभिप्राये चात्मनेपदस्य प्राप्तत्वात् परस्मैपदम्।