13080: अभिप्रत्यतिभ्यः क्षिपः

Padacheda: अभि-प्रति-अतिभ्यः | S | 5 | 3 |

क्षिपः | S | 5 | 1 |

Sutrartha


Vasu English Summary

After the verb क्षिप् ‘to throw’, coming after अभि , प्रति and अति , परस्मैपद is used, even though the fruit of the action goes to the agent

Vasu English Translation

After the verb क्षिप् ‘to throw’, coming after अभि , प्रति and अति , परस्मैपद is used, even though the fruit of the action goes to the agent The root क्षिप् to throw, is svariteta therefore by sutra (1.3.72) ante, it would have taken Atmanepada termination, when the fruit of the action accrued to the agent; this aphorism ordains parasmaipada instead. As अभिक्षिपति ‘he throws on,’ प्रतिक्षिपति ‘he turns away or rejects,’ अतिक्षिपति ‘he throws beyond.’

Why do we say ‘when coming after abhi, prati, and ati’? Because when compounded with any other preposition, it will not take parasmaipada, but will be governed by sutra (1.3.72). As आक्षिपते ‘he throws down.’

The second कर्तृ of sutra (1.3.14) is also understood here, so that when the verb is used reflexively, the agent not being purely an agent, the present sutra will not apply. As अभिक्षिप्यते स्वयमेव ‘it is thrown on of itself.’

Kashika

क्षिप प्रेरणे स्वरितेत्। ततः कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते। अभि प्रति अति इत्येवंपूर्वात् क्षिपः परस्मैपदं भवति। अभिक्षिपति। प्रतिक्षिपति। अतिक्षिपति। अभिप्रत्यतिभ्य इति किम्? आक्षिपते। द्वितीयमपि कर्तृग्रहणमनुवर्तते। तेनेह न भवति — अभिक्षिप्यते स्वयमेव॥

Siddhanta Kaumudi

क्षिपप्रेरणे । स्वरितेत् । अभिक्षिपति ॥

Laghu Siddhanta Kaumudi

क्षिप प्रेरणे स्वरितेत्। अभिक्षिपति॥

Balamanorama

अभिप्रत्यतिभ्यः क्षिपः - अभिप्रति ।परस्मैपद॑मिति शेषः । स्वरितेदिति । ततश्च कर्तृगामिनि फले आत्मनेपदे प्राप्ते अनेन तत्रापि परस्मैपदमिति भावः । अभिक्षिपतीति । प्रतिक्षपति अतिक्,िपतीत्यप्युदाहार्यम् ।

Nyaas

अभिक्षिपति इति। तुदादित्वाच्छःष।

Prakriyasarvasvam

अभिक्षिप्तीत्यादि ।

Sudha

अभिप्रत्यतिभ्य इति । अभि प्रति अति इत्येव पूर्वात् क्षिपः परस्पमैदं स्यादित्यर्थः । अभिक्षिपति । क्षिप प्रेरणे स्वरितेत् । ततः कर्त्रभिप्राये क्रियाफले विवक्षायामात्मनेपदे प्राप्ते अभिप्रत्यतिभ्यः क्षिपः इत्यनेन परस्मैपदं विधीयते ।

Sutra Prayogas

  • अभिक्षिपन्त (भट्टिकाव्यम्): अभिप्रत्यतिभ्यः क्षिपः इति परस्मैपदम्।