13079: अनुपराभ्यां कृञः ======================= **Padacheda:** अनु-पराभ्याम् | S | 5 | 2 | कृञः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the verb कृ 'to make' preceded by the अनु and पर , परस्मैपद is used, even the fruit of the action goes to the agent and when the sense is that of 'divulging' etc. Vasu English Translation ------------------------ After the verb कृ 'to make' preceded by the अनु and पर , परस्मैपद is used, even the fruit of the action goes to the agent and when the sense is that of 'divulging' etc. By aphorism (1.3.32) *ante*, the root कृ took the terminations of the *Atmanepada* when the sense denoted was that of "divulging, reviling," &c., and it also took *Atmanepada* termination when the fruit of the action accrued to the agent by virtue of *sutra* (1.3.72), because the root कृञ् has an indicatory ञ. The present *sutra* makes an exception to those rules, and ordains *parasmaipada*. Thus अनुकरोति 'he imitates,' पराकरोति 'he does well.' Bhashya ------- अनुपराभ्यां कृञः किमर्थमिदमुच्यते ?। परस्मैपदप्रतिषेधात्कृञ्ञादिषु विधानम् ॥ 1 ॥ परस्मैपदप्रतिषेधात्कृञ्ञादिषु परस्मैपदं विधीयते । प्रतिषिद्ध्यते तत्र परस्मैपदम् स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवतीति । अस्ति प्रयोजनमेतत् । किं तर्हीति ?। तत्रात्मनेपदप्रतिषेधोऽप्रतिषिद्धत्वात् ॥ 2 ॥ तत्रात्मनेपदस्य प्रतिषेधो वक्तव्यः । किं कारणम् ?। अप्रतिषिद्धत्वात् । नह्यात्मनेपदं प्रतिषिद्ध्यते । किं तर्हि ?। पस्मैपदमनेन विधीयते । न वा द्युतादिभ्यो वावचनात् ॥ 3 ॥ न वा एष दोषः । किं कारणम् ?। द्युतादिभ्यो वावचनात् । यदयं द्युतादिभ्यो वावचनं करोति तज्ज्ञापयत्याचार्यः - न परस्मैपदविषये आत्मनेपदं भवतीति । आत्मनेपदनियमे वा प्रतिषेधः ॥ 4 ॥ आत्मनेपदनियमे वा प्रतिषेधो वक्तव्यः । स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति, कर्तर्यनुपराभ्यां कृञ्ञो नेति । सिद्ध्यति । सूत्रं तर्हि भिद्यते । यथान्यासमेवास्तु । ननु चोक्तं । तत्रात्मनेपदप्रतिषेधोऽप्रतिषिद्धत्वाद्। इति । परिहृतमेतत् न वा द्युतादिभ्यो वावचनादिति । अथवा इदं तावदयं प्रष्टव्यः - स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवतीति परस्मैपदं कस्मान्न भवति । आत्मनेपदेन बाध्यते । यथैव तर्ह्यात्मनेपदेन परस्मैपदं बाध्यते, एवं परस्मैपदेनाप्यात्मनेपदं बाधिष्यते ॥ 79 ॥ Kashika ------- कर्त्रभिप्राये क्रियाफले गन्धनादिषु च करोतेरात्मनेपदं विहितम्, तदपवादः परस्मैपदं विधीयते। अनु परा इत्येवंपूर्वात् करोतेः परस्मैपदं भवति। अनुकरोति। पराकरोति॥ Siddhanta Kaumudi ----------------- कर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् । अनुकरोति । पराकरोति । कर्तरीत्येव । भावकर्मणोर्मा भूत् । न चैवमपि कर्मकर्तरि प्रसङ्गः । कार्यातिदेशपक्षस्य मुख्यतया तत्र कर्मवत्कर्मणा (SK2766) इत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशपक्षे तु कर्तरि शप् (SK2167) इत्यतः शेषात् (SK2159) इत्यतश्च कर्तृग्रहणद्वयमुवर्त्य कर्तैव यः कर्ता नतु कर्मकर्ता तत्रेति व्याख्येयम् ॥ Laghu Siddhanta Kaumudi ----------------------- कर्तृगे च फले गन्धनादौ च परस्मैपदं स्यात्। अनुकरोति। पराकरोति॥ Balamanorama ------------ **अनुपराभ्यां कृञः** - अनुपराभ्यां कृञः ।परस्मैपदमिति शेषः । ननु 'स्वरितञितः' इत्यात्मनेपदस्य कर्तगाम्नियेव फले विधानादकर्तृगामिनि फलेशेषात्कर्तरी॑ति परस्मैपदस्य सिद्धत्वात् किमर्थ मिदमित्यत आह — कर्तृगेऽपीति । गन्धनादाविति । गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु इत्यर्थः । मा भूदिति । भावे कर्मणि लकारस्य कर्तृगे फलेपरस्मपैदनिवृत्त्यर्थं कर्तरीत्यस्याऽनुवृत्तिरिति भावः । ननु कर्तरीत्यस्यानुवृत्तावपिअनुक्रियते शब्दः स्वयमेवे॑त्यत्र कर्मकर्तरि परस्मैपदं दुर्वारमित्याशङ्क्य परिहरति — नचेति । एवमपि = कर्तरीत्यस्यानुवृत्तावपि कर्मकर्तरि आत्मनेपदस्य प्रसङ्गो न शङ्क्य इत्यर्थः । कुत इत्यत आह — कार्यातिदेशेति । तत्र कर्मकर्तरिकर्मवत्कर्मणा तुल्यक्रियः॑ इत्यात्मनेपदेन परेणाऽस्य परस्मैपदस्य बाधादित्यन्वयः । नु कर्मणि यच्छास्त्रं तत्कर्मवत्कर्मणे॑ति कर्मकर्तर्यतिदिश्यते, तथा चाऽत्र कर्मकर्तरिभावकर्मणो॑रित्यात्मनेपदशास्त्रमिह प्राप्तम् । तस्य च परत्वाऽभावात् 'अनुपराभ्यां कृञः' इत्यनेन कथं बाधः स्यादित्यत आह — कार्यातिदेशपक्षस्य मुख्यतयेति । शास्त्रातिदेशस्य कार्यातिदेशार्थतया कार्यातिदेशस्य मुख्यत्वम् । ततश्चकर्मवत् कर्मणे॑त्यनेन कर्मणि विहितमात्मनेपदं कर्मकर्तरि विधीयते । तस्य च परत्वात्तेनात्मनेपदेनअनुपराभ्याटमिति परस्मैपदं कर्मकर्तरि बाधमर्हतीति भावः ।कर्मवत्कर्मणे॑त्यत्र शास्त्रातिदेशमभ्युपगम्याअह — - शास्त्रातिदेशपक्षे त्विति । 'अनुपराभ्यां कृञः' इत्यत्रकर्तरि कर्मव्यतिहारे॑ इत्यस्मादेकं कर्तृघणमनुवर्तते । तथाशेषात्कर्तरि परस्मैपद॑मित्यस्माद्द्वितीयं कर्तृग्रहणमनुवर्तते । तथा चस्वभावतः एव यः कर्ता, नतु विवक्षाधीनः कर्मकर्ता तथाविधकर्तर्येव अनुपराभ्यां कृञः परस्मैपद॑मिति लभ्यते । एवं च कर्मकर्तरि नास्य प्रवृत्तिरित्यर्थः । Tattvabodhini ------------- **अनुपराभ्यां कृञः** - अस्य बाधादिति ।अनुपराभ्या॑मित्यस्येत्यर्थः । अत एवकर्मवत्कर्मणे॑ति सूत्रे कार्यातिदेशोऽयमिति वक्ष्यति । शास्त्रातिदेशपक्षेकर्मवत्कर्मणे॑ त्यनेनात्मनेपदं न विधीयते, किं तु तद्विधायकंभावकर्मणो॑रिति शास्त्रमतिदिश्यते, तस्य च पूर्वत्वात्परेणअनुपराभ्या॑मित्यनेन बाधमाशङ्क्याह — शास्त्रातिदेश इत्यादि । स्वरितेदिति । तथा च कर्तृगामिनि क्रियाफलेऽपि परस्मैपदार्थः सूत्रारम्भ इति भावः । Padamanjari ----------- अत्रापि द्वितीयं कर्तृ ग्रहणमनुवर्तते। अनुक्रियते स्वयमेव, पराक्रियते स्वयमेव॥ Prakriyasarvasvam ----------------- आभ्यां कृञः परस्मैपदमेव । अनुकरोति । पराकरोति । Sudha ----- **अनुपराभ्यां कृञः। गन्धनादाविति ।** गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्वप्रकथनोपयोगेषु इत्यर्थः । **अनुकरोति पराकरोति ।** अत्र **गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः** इति आत्मनेपदे प्राप्ते, **अनुपराभ्यां कृञः** इत्यपवादभूतेनानेन परस्मैपदम् । Sutra Prayogas -------------- * **पराकुर्वन्** (भट्टिकाव्यम्): `अनु-पराभ्यां कृञः` इति कर्त्रभिप्राये चात्मनेपदस्य प्राप्तत्वात् परस्मैपदम्।