13060: शदेः शितः

Padacheda: शदेः | S | 5 | 1 |

शितः | S | 6 | 1 |

Sutrartha


Vasu English Summary

After the verb शद् ‘to decay’, when it has one of the affixes with an indicatory श् (शित्) the आत्मनेपद is used.

Vasu English Translation

After the verb शद् ‘to decay’, when it has one of the affixes with an indicatory श् (शित्) the आत्मनेपद is used. The root ‘sad’ when taking any affix which is marked with an indicatory श, is conjugated in the atmanepadi. In connection with this must be read sutra (7.3.78).पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदांपिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः by which the root शद् is replaced by शीय before the affixes having an indicatory श. Thus शद् + श + ते = शीय + अते = शीयते ‘he decays or withers,’ शीयेते ‘they two decay,’ शीयन्ते ‘they decay.’

Why do we say before affixes having an indicatory श? Before other affixes it is not atmanepadi. As अशत्स्यत् ‘if he decayed,’ शत्स्यति ‘he will decay,’ शिशत्सति.

The well-known vikaranas like शप्, श &c., the affixes like शतृ &c., are शित् affixes. In other words the root sad is atmanepadi in all conjugational tenses.

Bhashya

शदेः शितः शदेः शितः परस्मैपदाश्रयत्वादात्नेपदाभावः ॥ 1 ॥ शदेः शितः परस्मैपदाश्रयत्वादात्मनेपदस्याभावः। शीयते शीयेते शीयन्ते। किं च भोः शदेः शित्परस्मैपदेष्वित्युच्यते ? न खलु परस्मैपदेषु इत्युच्यते परस्मैपदेषु तु विज्ञायते। कथम् ? अनुदात्तङित आत्मनेपदम् भावकर्मणोरात्मनेपदमित्येतौ द्वौ योगावुक्त्वा शेषात्कर्त्तरि परस्मैपदमित्युच्यते। एवं च न परस्मैपदेषूच्यते परस्मैपदेषु विज्ञायते। कः पुनरर्हत्येतौ योगावुक्त्वा शेषात्कर्तरि परस्मैपदं वक्तुम्। किं तर्हि? अविशेषेण सर्वमात्मनेपदप्रकरणमनुक्रम्य शेषात्कर्तरि परस्मैपदमित्युच्यते। एवमपि परस्मैपदाश्रयो भवति। कथम्? इदं तावदयं प्रष्टव्यः - यदीदं नोच्येत किमिह स्यादिति? परस्मैपदमित्याह। परस्मैपदमिति चेत्परस्मैपदाश्रयो भवति। सिद्धं तु लडादीनामात्मनेपदवचनात् ॥ 2 ॥ सिद्धमेतत्। कथम्? शदेर्लडादीनामात्मनेपदं भवतीति वक्तव्यम् । सिद्ध्यति। सूत्रं तर्हि भिद्यते। यथान्यासमेवास्तु। ननु चोक्तम् - शदेः शितः परस्मैपदाश्रयत्वादात्मनेपदाभावः इति। नैषः दोषः । शित इति नैषा पञ्चमी। का तर्हि? संबन्धे षष्ठी - शितो यः शदिः। कश्च शितः शदिः? प्रकृतिः। शदेः शित्प्रकृतेरिति। अथ वाऽऽहायं शदेः शितः इति, न च शदिः शिदस्ति। त एवं विज्ञास्यामः - शदेः शिद्विषयादिति। अथ वा यद्यपि तावदेतदन्यत्र भवति विकरणेभ्यो नियमो बलीयानिति, इहैतन्नास्ति। विकरणो हीहाश्रीयते शितः इति। उपसर्गपूर्वनियमेऽड्व्यवाय उपसंख्यानाम् ॥ 3 ॥ उपसर्गपूर्वनियमेऽड्व्यवाय उपसंख्यानं कर्तव्यम्। न्यविशत। व्यक्रीणीत। किं पुनः कारणं न सिद्ध्यति ? अटा व्यवहितत्वात्। ननु चायमड्धातुभक्तो धातुग्रहणेन ग्रहीष्यते। न सिध्यति। अङ्गस्य ह्यडुच्यते विकरणान्तं चाङ्गम् । सोऽसौ संघातभक्तो न शक्यो धातुग्रहणेन ग्रहीतुम्। एवं तर्हीदमिह संप्रधार्यम् - अट् क्रयतां विकरण इति। किमत्र कर्तव्यम् ? परत्वादडागमः। नित्या विकरणाः। कृतेऽप्यटि प्राप्नुवन्त्यकृतेऽपि। अडपि नित्यः। कृतेष्वपि विकरणेषु प्राप्नोत्यकृतेष्वपि प्राप्नोति। अनित्योऽट्। अन्यस्य कृतेषु विकरणेषु प्राप्नोत्यन्यस्याकृतेषु। शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति। एवं तर्हीदमिह संप्रधार्यम् - अट् क्रियतां लादेश इति। किमत्र कर्तव्यम् ? परत्वादडागमः। नित्यो लादेशः। कृतेऽप्यटि प्राप्नोत्यकृतेऽपि प्राप्नोति। नित्यत्वाल्लादेशस्यात्मनेपद एवाडागमो भविष्यति। नित्यत्वाल्लादेशस्यात्मनेपदेऽडागम इति चेदटो नित्यनिमित्तत्वादात्मनेपदाभावः (तस्मादुपसंख्यानम्) ॥ 4 ॥ नित्यत्वाल्लादेशस्यात्मनेपदेऽडागम इति चेदेवमुच्यते - अडपि नित्यनिमित्तः कृतेऽपि लादेशे प्राप्नोत्यकृतेऽपि प्राप्नोति। अटो नित्यनिमित्तत्वादात्मनेपदस्याभावः। तस्मादुपसंख्यानम् तस्मादुपसंख्यानं कर्तव्यम्। अन्तरङ्गस्तर्हि लादेशः । नैतद्विवदामहे - अन्तरङ्गो नान्तरङ्ग इति। अस्त्वयं नित्यश्चान्तरङ्गश्च। अत्र खलु लादेशे कृते त्रीणि कार्याणि युगपत्प्राप्नुवन्ति - विकरणाः, अडागमः, नियम इति। तद्यदि सर्वतो नियमो लभ्येत, कृतं स्यात्, तत्तु न लभ्यम्। अथापि विकरणात्पूर्वमडिति अड्लभ्येत, एवमपि कृतं स्यात्। तत्तु न लक्ष्यम्। किं कारणम् ? आङ्गात्पूर्वं विकरणा एषितव्यास्तरतस्तरन्तीत्येवमर्थम्। अडाड्भ्यामप्यन्यदाङ्गं पूर्वमेषितव्यमुपार्च्छदित्येवमर्थम्। तत्र ह्याटि कृते साट्कस्य ऋच्छिभावः प्राप्नोति। ननु च ऋच्छिभावे कृते शब्दान्तरस्याकृत आडिति कृत्वा पुनराड् भविष्यति। पुनर्ऋच्छिभावः पुनराडिति चक्रकमव्यवस्था प्राप्नोति। नैषः दोषः। यत्तावदुच्यते - आङ्गात्पूर्वं विकरणा एषितव्याः तरतः तरन्तीत्येवमर्थमिति। भवेत्सिद्धं यत्र विकरणा नित्या आङ्गमनित्यं तत्राङ्गात्पूर्वं विकरणाः स्युः। यत्र तु खलूभयं नित्यं परत्वात्तत्राङ्गं तावद्भवति। यदप्युच्यते - अडाड्भ्यामप्यन्यदाङ्गं पूर्वमेषितव्यमुपार्च्छदित्येवमर्थमिति। अस्त्वत्राट्, आटि कृते साट्कस्य ऋच्छिभावः, ऋच्छिभावे कृते शब्दान्तरस्याकृत आडिति कृत्वा पुनराड् भविष्यति। ननु चोक्तम् - पुनर्ॠच्छिभावः पुनराडिति चक्रकमव्यवस्था प्राप्नोतीति। नैषः दोषः। चक्रकेष्विष्टतो व्यवस्था। अथ वा नेरिति नैषा पञ्चमी। का तर्हि ? विशेषणषष्ठी नेर्यो विशिः । कश्च नेर्विशिः ? विशेष्यः। व्यवहितश्चापि शक्यते। विशेषयितुम्। अथ वा निरपि पदं, विशिरपि पदम्। पदविधिश्च समर्थानाम् । व्यवहितेऽपि सामर्थ्यं भवति ॥ 60 ॥

Kashika

शद्ऌ शातने परस्मैपदी, तस्मादात्मनेपदं विधीयते। शदिर्यः शित्, शिद्भावी शितो वा संबन्धी, तस्मादात्मनेपदं भवति। शीयते, शीयेते, शीयन्ते। शित इति किम्? अशत्स्यत्। शत्स्यति। शिशत्सति॥

Siddhanta Kaumudi

शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः । शेदिथ । शशत्थ । शत्ता । अशदत् ।{$ {!856 क्रुश!} आह्वाने रोदने च$} । क्रोशति । क्रोष्टा । च्लेः क्सः । अक्रुक्षत् ।{$ {!857 कुच!} संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु$} । कोचति । चुकोच ।{$ {!858 बुध!} अवगमने$} । बोधति । बोधिता । बोधिष्यति ।{$ {!859 रुह!} बीजजन्मनि प्रादुर्भावे च$} । रोहति । रुरोह । रुरोहिथ । रोढा । रोक्ष्यति । अरुक्षत् ।{$ {!860 कस!} गतौ$} । अकासीत् । अकसीत् ॥ 7 ॥ वृत् । ग्वलादिगणः समाप्तः ॥ अथ गूहत्यन्ताः स्वरितेतः ।{$ {!861 हिक्क!} अव्यक्ते शब्दे$} । हिक्कति । हिक्कते ।{$ {!862 अञ्चु!} गतौ याचने च$} । अञ्चिति । अञ्चते । अचु इत्येके । अचि इत्यपरे ।{$ {!863 टुयाचृ!} याचनायाम्$} । याचति । याचते ।{$ {!864 रेटृ!} परिभाषणे$} । रेटति । रेटते ।{$ {!865 चते!} {!866 चदे!} याचने$} । चचात । चेते । अञ्चातीत् । चचाद । चेदे । अचदीत् ।{$ {!867 प्रोथृ!} पर्याप्तौ $}। पुप्रोथ । पुप्रोथे ।{$ {!868 मिदृ!} {!869 मेदृ!} मेधाहिंसनयोः $}। मिमेद । मिमिदे । मिमेदे । थान्ताविमाविति स्वामी । मिमेथ । धान्ताविति न्यासः ।{$ {!870 मेधृ!} सङ्गमे च$} । मेधति । मिमेध ।{$ {!871 णिदृ!} {!872 णेदृ!} कुत्सासन्निकर्षयोः$} । निनेद । निनिदतुः । निनिद । निनेदे ।{$ {!873 शृधु!} {!874 मृधु!} उन्दने$} । उन्दनं क्लेदनम् । शर्धति । शर्धते । शर्धिता । मर्धति । मर्धते ।{$ {!875 बुधिर्!} बोधने$} । बोधति । बोधेते । इरित्वादाङ्वा । अबुधत् । अबोधीत् । अबोधिष्ट । दीपजन-(SK2328) इति चिण् तु न भवति । पूर्वोत्तरसाहचर्येण दैवादिकस्यैव तत्र ग्रहणात् ।{$ {!876 उबुन्दिर्!} निशामने$} । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् । अबुन्दीत् ।{$ {!877 वेणृ!} गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु$} । वेणति । वेणते । नान्तोप्ययम् ।{$ {!878 खनु!} अवदारणे$} । खनति । खनते ॥

Laghu Siddhanta Kaumudi

शिद्भाविनोऽस्मात्तङानौ स्तः। शीयते। शीयताम्। अशीयत। शीयेत। शशाद। शत्ता। शत्स्यति। अशदत्। अशत्स्यत्॥ {$ {! 39 कॄ !} विक्षेपे $} (धातुपाठे (06.0145))॥

Balamanorama

शदेः शितः - शदेः शितः । ‘अनुदात्तङित’ इत्यस्मादात्मनेपदमित्यनुवर्तते । श् इत् यस्य स शित् । शप् विवक्षितः ।शिति विवक्षिते सतीत्यर्थः, तिङुत्पत्तेः पूर्वं सार्वधातुकाश्रयस्य शपोऽसंभवात् । तदाह — शिद्भाविन इति । शित् भावी = भविष्यन् यस्मात्स शिद्भावी, तस्मादित्यर्थः । शीयते इति । शपि शदेः शीयादेशः । विशीर्यतीत्यर्थः । शीयेते शीयन्ते इत्यादि । ‘शिद्विषया’ दित्युक्तेर्लिटि नात्मनेपदम् ।इत्संज्ञकशकारादा॑वित्युक्तेर्न॑ शीयादेशः । विशीर्यतीत्यर्थः । तदाह — शशादेति । अनिट्कोऽयम् । क्रादिनियमप्राप्तस्य इटः ‘उपदेशेऽत्वतः’ इति नियमात्थलि भारद्वाजनियमाद्वेट् । तदाह — शेदिथ शशत्थेति च । इट्पक्षे ‘थलि च सेटी’ इत्येत्त्वाभ्यासलोपाविति भावः । शेदिव शेदिम । क्रादिनियमादिट् । अशददिति । लृदित्त्वादङिति भावः । क्रुशधातुरनिट्कः । चुक्रोशिथ । क्रादिनियमात्थलि नित्यमिट् । अजन्ताऽकारवत्त्वाऽभावान्न भारद्वाजनियमः । चुक्रुशिव चुक्रुशिम । क्रोष्टेति । व्रश्चादिना शस्य षः ।षढो॑रिति षस्य कः, सस्य षत्वम् । कित्त्वान्न गुणः । कुच । ‘कुच शब्दे’ इति पठितस्य पुनरिह पाठः संपर्चनादावेव ज्वलादिकार्यणप्रत्ययार्थः । अर्थनिर्देशः क्वचित्पाणिनीय इति भूधातौ प्रपञ्चितम् । बुध इति । सेट्कोऽयम्, अनिट्सु श्यन्विकरणस्यैव बुधेग्र्रहणात् । तदाह — बोधिनेति । अबोधीत् । रुहधातुरनिट्कः । क्रादिनियमात्थल्यपि नित्यमिट् । अजन्ताऽकारवत्त्वाऽभावान्न भारद्वाजनियमः । रोढेति । लुटितासिगुणे ढत्वधत्वष्टुत्वढलोपाः । रोक्ष्यतीति । लृटि स्ये ढकषाः । अरुक्षदिति । इगुपधशलन्तत्वात् क्से ढकषाः । कित्त्वान्न गुणः । वृदिति । ‘ज्वलितिकसन्तेभ्यः’ इति उत्तराऽवधेरपि कसेग्र्रहणादेव सिद्धेर्वृत्करणं स्पष्टार्थमित्याहुः । इति ज्वलादयः । गूहत्यन्ता इति । ‘गुहू संवरणे’ इत्येतत्पर्यन्ता इत्यर्थः । चते चदे याचने । अचीदिति । एदित्त्वान्न वृद्धिः । एवमचदीत् । बुधिर् । ‘बुध अवगमने’ इति केवलपरस्मैपदी गतः । स तु ज्वलादिकार्यार्थः । अयं तु इरित् स्वरितेत् । अनिट्सु श्यन्विकरणस्यैव पाठादयं सेट् । अबुधदिति । इर इत्त्वेऽपि तदवयवस्य इकारस्य प्रत्येकमित्त्वेऽपि न नुम्,इदितो नु॑मित्यत्र कर्मधारयमाश्रित्य इत्संज्ञकेकारान्तस्यैव नुम्वधेः । पूर्वोत्तरेति । जन- पूरि- साहचर्येणेत्यर्थः । उ बुन्दिरित । आद्य उकार इत् — ‘उदितो वे’ ति क्त्वायामिड्विकल्पार्थः । अबुददिति । इरित्त्वादङि ‘अनिदिता’ नलोपः, इर इकारस्य प्रत्येकमित्संज्ञाविरहात्, अनिदितामित्यस्य इत्संज्ञकेकारान्तभिन्नानामित्यर्थाश्रयणाच्चेति शब्देन्दुशेखरे स्थितम् । वेणृ गतीति । वाद्यभाण्डस्य वादनार्थं ग्रहणं वादित्रग्रहणम् । खनुदातुरुदित् — क्त्वायामिड्विकल्पः ।

Tattvabodhini

शदेः शितः - कुच संपर्चनादौ ।कुच शब्दे तारे॑ इति रचवर्गीयान्तेषु पठितस्य पुनरिह पाठः संपर्चनादावेव ज्वलादित्वप्रयुक्तो णप्रत्ययो यथा स्यादिति मनोरमादौ स्थितम् । अत्र नव्याः — अनेनैव ग्रन्थेन पाणिनिनापि क्वचित्क्वचिदर्थनिर्देशः कृत इत्यनुमीयते, अन्यथाऽत्रत्यग्रन्थस्वारस्यभङ्गापत्तेरित्याहुः॥ बोधितेति । बुध्यतेरेवाऽनिट्कारिकासु पाठितत्वादयं सेडिति भावः । अकासीदिति । हलन्तलक्षणाया वृद्धेःनेटी॑ति निषेधेऽपिअतो हलादे॑रिति वैकल्पिकी वृद्धिः । वृदिति । अत्र नव्याः — ज्वलितिकसन्तेभ्यः॑ इति निर्देशाद्वृत्करणमिहाऽनार्षमित्यनुमीयते । अन्यथाज्वलादीभ्यो णः॑ इत्येव सूत्रयेदित्याहुः । अञ्चु गतौ ।अनिदिता॑मिति नलोपः । अच्यात् ।अची॑त्येकीयमते तु इदित्त्वात् — अञ्च्यात् । मेधृ सङ्गमे च । चात्पूर्वोक्तेऽर्थ ।प्रजायै गृहमेथिना॑ मित्यत्र गृहैर्दारैर्मेधन्ते = सङ्गच्छन्ते इति विग्रहः ।सुप्यजातौ॑ इति णिनिः । शृधु मृधु । क्लेदनमिति । आद्र्रीभाव इत्यर्थः । उदित्त्वाक्त्वायां वेट् । शर्धित्वा शृद्ध्वा । उबुन्दिर् । बुन्दित्वा । बुत्त्वा । निष्ठायां — बुन्नम् । निशामनं -चाक्षुषं ज्ञानम् । वेणृ । गत्यादयः पञ्चार्थाः । वाद्यभाण्डस्य वादनार्थं ग्रहणं वादित्रग्रहणम् । वेणिः वेणी वेणुरित्यादिरूपाण्यस्यैव धातोः । नान्तोऽपीति ।उत माता महिषमन्ववेन॑ दित्यत्र नान्तदर्शनादिति भावः । खनु । खनित्वा । खात्वा । निष्ठायां — खातः ।

Padamanjari

यद्यत्र शदेः परो यः शित्, तत आत्मनेपदं भवतीत्येवं व्यधिकरणे पञ्चम्यावाश्रित्य व्याख्यायेत, ततोऽपि विकरणे सत्यनेन विधिना भवितव्यम्। सार्वधातुके च परतो विधीयते, ततश्च प्रागेवास्मद्विधेः सार्वधातुकं भवच्छेषत्वत्परस्मैपदं स्यात्, तस्मिंश्च सति तन्निमिते शिति विकरणे कृते परस्मैपदस्य निवृत्तिर्न सिद्ध्येत्। न हि निर्वृतस्य निर्वृत्तिर्वचनशतेनापि शक्यते कर्तुमिति-इमं व्यधिकरणपक्षे दोषं द्दष्ट्वा सामानाधिकरण्ये पञ्चम्याविति दर्शयन्नाह-शदिर्यः शिदिति। कथं पुनः शदिः शिद्भवती, विकरणे हि शकार इद् भवति, तत्राह-शिद्भावीति । शिद्भावी यस्मात् स तथोक्तः। शिद्भावित्वाद् उपचारेण शदिरेव शिदित्युक्तमित्यर्थः। शितो वा सम्बन्धीति ।’शितः’ इत्यस्य षष्ठ।ल्न्ततां दर्शयति। कश्च शदिः शितः सम्बन्धी? यस्तस्य प्रकृतिः। प्रागेव च शिदुत्पत्तियोग्यतया तत्प्रकृतित्वमस्त्येव । शीयत इति । पाघ्रादिसूत्रेण शीयादेशः॥

Nyaas

यदि शदेः शितः इति व्यधिकरणे एते पञ्चम्यावित्यभ्युपगम्यैवं व्याख्यायते - शदेः परो यः शित् तस्मादात्मेपदं भवतीति, तदा सार्वधातुकाश्रयत्वाच्छितः प्रागेव तदुत्पत्तेर्धातोः शेषत्वादस्य लावस्थायां परस्मैपदं स्यात्, ततस्तन्निमित्तकः व्याचिख्यासुराह - शदिर्यः शिदिति। एतेन शदेः शितः इति समानाधिकरणे एते पञ्चम्याविति दर्शयति। कथं पुनः शदिः शिद्भवति, यावता विकरणस्य शकार इत्संज्ञक इत्संज्ञासम्बन्धी, न तु शदेः? इत्यत आह - शद्भावी इति। भाविशब्दोऽयम् भविष्यति गम्यादयः (3.3.3) इति भविष्यत्कालविषयः। शिद्भावीति यतः शिद्भविष्यति स शिद्भावी।एतदुक्तं भवति - शिन्निमित्तत्वादुपचारेण शदिः शिदित्युक्तमिति। भवति हि कारणे कार्योपचारात् तथा व्यपदेशः, यथा - नड्वलोदकं पकादरोग इति। शितो वा सम्बन्धी` इति। एतेन शितः इत्यस्य षष्ठन्ततां दर्शयति। कः शदेः शित्सम्ब्नधी? यस्तस्य प्रकृतिः। प्रागपि शितः शदेस्तत्प्रकृतित्वमस्त्येवेति शित्प्रकृतेः शदेरात्मनेपदं भवति। शीयते इति। पाघ्रादिसूत्रेण (7.3.78) शीयादेशः॥

Sutra Prayogas

  • शीयमान (भट्टिकाव्यम्): शदेः शितः इति तङ्।

  • अशीयत (भट्टिकाव्यम्): शदेः शितः इति तङ्।