13060: शदेः शितः ================ **Padacheda:** शदेः | S | 5 | 1 | शितः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the verb शद् 'to decay', when it has one of the affixes with an indicatory श् (शित्) the आत्मनेपद is used. Vasu English Translation ------------------------ After the verb शद् 'to decay', when it has one of the affixes with an indicatory श् (शित्) the आत्मनेपद is used. The root '*sad*' when taking any affix which is marked with an indicatory श, is conjugated in the *atmanepadi*. In connection with this must be read *sutra* (7.3.78).पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदांपिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः by which the root शद् is replaced by शीय before the affixes having an indicatory श. Thus शद् + श + ते = शीय + अते = शीयते 'he decays or withers,' शीयेते 'they two decay,' शीयन्ते 'they decay.' Why do we say before affixes having an indicatory श? Before other affixes it is not *atmanepadi*. As अशत्स्यत् 'if he decayed,' शत्स्यति 'he will decay,' शिशत्सति. The well-known *vikaranas* like शप्, श &c., the affixes like शतृ &c., are शित् affixes. In other words the root *sad* is *atmanepadi* in all conjugational tenses. Bhashya ------- शदेः शितः शदेः शितः परस्मैपदाश्रयत्वादात्नेपदाभावः ॥ 1 ॥ शदेः शितः परस्मैपदाश्रयत्वादात्मनेपदस्याभावः। शीयते शीयेते शीयन्ते। किं च भोः शदेः शित्परस्मैपदेष्वित्युच्यते ? न खलु परस्मैपदेषु इत्युच्यते परस्मैपदेषु तु विज्ञायते। कथम् ? अनुदात्तङित आत्मनेपदम् भावकर्मणोरात्मनेपदमित्येतौ द्वौ योगावुक्त्वा शेषात्कर्त्तरि परस्मैपदमित्युच्यते। एवं च न परस्मैपदेषूच्यते परस्मैपदेषु विज्ञायते। कः पुनरर्हत्येतौ योगावुक्त्वा शेषात्कर्तरि परस्मैपदं वक्तुम्। किं तर्हि? अविशेषेण सर्वमात्मनेपदप्रकरणमनुक्रम्य शेषात्कर्तरि परस्मैपदमित्युच्यते। एवमपि परस्मैपदाश्रयो भवति। कथम्? इदं तावदयं प्रष्टव्यः - यदीदं नोच्येत किमिह स्यादिति? परस्मैपदमित्याह। परस्मैपदमिति चेत्परस्मैपदाश्रयो भवति। सिद्धं तु लडादीनामात्मनेपदवचनात् ॥ 2 ॥ सिद्धमेतत्। कथम्? शदेर्लडादीनामात्मनेपदं भवतीति वक्तव्यम् । सिद्ध्यति। सूत्रं तर्हि भिद्यते। यथान्यासमेवास्तु। ननु चोक्तम् - शदेः शितः परस्मैपदाश्रयत्वादात्मनेपदाभावः इति। नैषः दोषः । शित इति नैषा पञ्चमी। का तर्हि? संबन्धे षष्ठी - शितो यः शदिः। कश्च शितः शदिः? प्रकृतिः। शदेः शित्प्रकृतेरिति। अथ वाऽऽहायं शदेः शितः इति, न च शदिः शिदस्ति। त एवं विज्ञास्यामः - शदेः शिद्विषयादिति। अथ वा यद्यपि तावदेतदन्यत्र भवति विकरणेभ्यो नियमो बलीयानिति, इहैतन्नास्ति। विकरणो हीहाश्रीयते शितः इति। उपसर्गपूर्वनियमेऽड्व्यवाय उपसंख्यानाम् ॥ 3 ॥ उपसर्गपूर्वनियमेऽड्व्यवाय उपसंख्यानं कर्तव्यम्। न्यविशत। व्यक्रीणीत। किं पुनः कारणं न सिद्ध्यति ? अटा व्यवहितत्वात्। ननु चायमड्धातुभक्तो धातुग्रहणेन ग्रहीष्यते। न सिध्यति। अङ्गस्य ह्यडुच्यते विकरणान्तं चाङ्गम् । सोऽसौ संघातभक्तो न शक्यो धातुग्रहणेन ग्रहीतुम्। एवं तर्हीदमिह संप्रधार्यम् - अट् क्रयतां विकरण इति। किमत्र कर्तव्यम् ? परत्वादडागमः। नित्या विकरणाः। कृतेऽप्यटि प्राप्नुवन्त्यकृतेऽपि। अडपि नित्यः। कृतेष्वपि विकरणेषु प्राप्नोत्यकृतेष्वपि प्राप्नोति। अनित्योऽट्। अन्यस्य कृतेषु विकरणेषु प्राप्नोत्यन्यस्याकृतेषु। शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति। एवं तर्हीदमिह संप्रधार्यम् - अट् क्रियतां लादेश इति। किमत्र कर्तव्यम् ? परत्वादडागमः। नित्यो लादेशः। कृतेऽप्यटि प्राप्नोत्यकृतेऽपि प्राप्नोति। नित्यत्वाल्लादेशस्यात्मनेपद एवाडागमो भविष्यति। नित्यत्वाल्लादेशस्यात्मनेपदेऽडागम इति चेदटो नित्यनिमित्तत्वादात्मनेपदाभावः (तस्मादुपसंख्यानम्) ॥ 4 ॥ नित्यत्वाल्लादेशस्यात्मनेपदेऽडागम इति चेदेवमुच्यते - अडपि नित्यनिमित्तः कृतेऽपि लादेशे प्राप्नोत्यकृतेऽपि प्राप्नोति। अटो नित्यनिमित्तत्वादात्मनेपदस्याभावः। तस्मादुपसंख्यानम् तस्मादुपसंख्यानं कर्तव्यम्। अन्तरङ्गस्तर्हि लादेशः । नैतद्विवदामहे - अन्तरङ्गो नान्तरङ्ग इति। अस्त्वयं नित्यश्चान्तरङ्गश्च। अत्र खलु लादेशे कृते त्रीणि कार्याणि युगपत्प्राप्नुवन्ति - विकरणाः, अडागमः, नियम इति। तद्यदि सर्वतो नियमो लभ्येत, कृतं स्यात्, तत्तु न लभ्यम्। अथापि विकरणात्पूर्वमडिति अड्लभ्येत, एवमपि कृतं स्यात्। तत्तु न लक्ष्यम्। किं कारणम् ? आङ्गात्पूर्वं विकरणा एषितव्यास्तरतस्तरन्तीत्येवमर्थम्। अडाड्भ्यामप्यन्यदाङ्गं पूर्वमेषितव्यमुपार्च्छदित्येवमर्थम्। तत्र ह्याटि कृते साट्कस्य ऋच्छिभावः प्राप्नोति। ननु च ऋच्छिभावे कृते शब्दान्तरस्याकृत आडिति कृत्वा पुनराड् भविष्यति। पुनर्ऋच्छिभावः पुनराडिति चक्रकमव्यवस्था प्राप्नोति। नैषः दोषः। यत्तावदुच्यते - आङ्गात्पूर्वं विकरणा एषितव्याः तरतः तरन्तीत्येवमर्थमिति। भवेत्सिद्धं यत्र विकरणा नित्या आङ्गमनित्यं तत्राङ्गात्पूर्वं विकरणाः स्युः। यत्र तु खलूभयं नित्यं परत्वात्तत्राङ्गं तावद्भवति। यदप्युच्यते - अडाड्भ्यामप्यन्यदाङ्गं पूर्वमेषितव्यमुपार्च्छदित्येवमर्थमिति। अस्त्वत्राट्, आटि कृते साट्कस्य ऋच्छिभावः, ऋच्छिभावे कृते शब्दान्तरस्याकृत आडिति कृत्वा पुनराड् भविष्यति। ननु चोक्तम् - पुनर्ॠच्छिभावः पुनराडिति चक्रकमव्यवस्था प्राप्नोतीति। नैषः दोषः। चक्रकेष्विष्टतो व्यवस्था। अथ वा नेरिति नैषा पञ्चमी। का तर्हि ? विशेषणषष्ठी नेर्यो विशिः । कश्च नेर्विशिः ? विशेष्यः। व्यवहितश्चापि शक्यते। विशेषयितुम्। अथ वा निरपि पदं, विशिरपि पदम्। पदविधिश्च समर्थानाम् । व्यवहितेऽपि सामर्थ्यं भवति ॥ 60 ॥ Kashika ------- **शद्ऌ शातने** परस्मैपदी, तस्मादात्मनेपदं विधीयते। शदिर्यः शित्, शिद्भावी शितो वा संबन्धी, तस्मादात्मनेपदं भवति। शीयते, शीयेते, शीयन्ते। शित इति किम्? अशत्स्यत्। शत्स्यति। शिशत्सति॥ Siddhanta Kaumudi ----------------- शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः । शेदिथ । शशत्थ । शत्ता । अशदत् ।{$ {!856 क्रुश!} आह्वाने रोदने च$} । क्रोशति । क्रोष्टा । च्लेः क्सः । अक्रुक्षत् ।{$ {!857 कुच!} संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु$} । कोचति । चुकोच ।{$ {!858 बुध!} अवगमने$} । बोधति । बोधिता । बोधिष्यति ।{$ {!859 रुह!} बीजजन्मनि प्रादुर्भावे च$} । रोहति । रुरोह । रुरोहिथ । रोढा । रोक्ष्यति । अरुक्षत् ।{$ {!860 कस!} गतौ$} । अकासीत् । अकसीत् ॥ 7 ॥ वृत् । ग्वलादिगणः समाप्तः ॥ अथ गूहत्यन्ताः स्वरितेतः ।{$ {!861 हिक्क!} अव्यक्ते शब्दे$} । हिक्कति । हिक्कते ।{$ {!862 अञ्चु!} गतौ याचने च$} । अञ्चिति । अञ्चते । अचु इत्येके । अचि इत्यपरे ।{$ {!863 टुयाचृ!} याचनायाम्$} । याचति । याचते ।{$ {!864 रेटृ!} परिभाषणे$} । रेटति । रेटते ।{$ {!865 चते!} {!866 चदे!} याचने$} । चचात । चेते । अञ्चातीत् । चचाद । चेदे । अचदीत् ।{$ {!867 प्रोथृ!} पर्याप्तौ $}। पुप्रोथ । पुप्रोथे ।{$ {!868 मिदृ!} {!869 मेदृ!} मेधाहिंसनयोः $}। मिमेद । मिमिदे । मिमेदे । थान्ताविमाविति स्वामी । मिमेथ । धान्ताविति न्यासः ।{$ {!870 मेधृ!} सङ्गमे च$} । मेधति । मिमेध ।{$ {!871 णिदृ!} {!872 णेदृ!} कुत्सासन्निकर्षयोः$} । निनेद । निनिदतुः । निनिद । निनेदे ।{$ {!873 शृधु!} {!874 मृधु!} उन्दने$} । उन्दनं क्लेदनम् । शर्धति । शर्धते । शर्धिता । मर्धति । मर्धते ।{$ {!875 बुधिर्!} बोधने$} । बोधति । बोधेते । इरित्वादाङ्वा । अबुधत् । अबोधीत् । अबोधिष्ट । दीपजन-(SK2328) इति चिण् तु न भवति । पूर्वोत्तरसाहचर्येण दैवादिकस्यैव तत्र ग्रहणात् ।{$ {!876 उबुन्दिर्!} निशामने$} । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् । अबुन्दीत् ।{$ {!877 वेणृ!} गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु$} । वेणति । वेणते । नान्तोप्ययम् ।{$ {!878 खनु!} अवदारणे$} । खनति । खनते ॥ Laghu Siddhanta Kaumudi ----------------------- शिद्भाविनोऽस्मात्तङानौ स्तः। शीयते। शीयताम्। अशीयत। शीयेत। शशाद। शत्ता। शत्स्यति। अशदत्। अशत्स्यत्॥ {$ {! 39 कॄ !} विक्षेपे $} (धातुपाठे (06.0145))॥ Balamanorama ------------ **शदेः शितः** - शदेः शितः । 'अनुदात्तङित' इत्यस्मादात्मनेपदमित्यनुवर्तते । श् इत् यस्य स शित् । शप् विवक्षितः ।शिति विवक्षिते सतीत्यर्थः, तिङुत्पत्तेः पूर्वं सार्वधातुकाश्रयस्य शपोऽसंभवात् । तदाह — शिद्भाविन इति । शित् भावी = भविष्यन् यस्मात्स शिद्भावी, तस्मादित्यर्थः । शीयते इति । शपि शदेः शीयादेशः । विशीर्यतीत्यर्थः । शीयेते शीयन्ते इत्यादि । 'शिद्विषया' दित्युक्तेर्लिटि नात्मनेपदम् ।इत्संज्ञकशकारादा॑वित्युक्तेर्न॑ शीयादेशः । विशीर्यतीत्यर्थः । तदाह — शशादेति । अनिट्कोऽयम् । क्रादिनियमप्राप्तस्य इटः 'उपदेशेऽत्वतः' इति नियमात्थलि भारद्वाजनियमाद्वेट् । तदाह — शेदिथ शशत्थेति च । इट्पक्षे 'थलि च सेटी' इत्येत्त्वाभ्यासलोपाविति भावः । शेदिव शेदिम । क्रादिनियमादिट् । अशददिति । लृदित्त्वादङिति भावः । क्रुशधातुरनिट्कः । चुक्रोशिथ । क्रादिनियमात्थलि नित्यमिट् । अजन्ताऽकारवत्त्वाऽभावान्न भारद्वाजनियमः । चुक्रुशिव चुक्रुशिम । क्रोष्टेति । व्रश्चादिना शस्य षः ।षढो॑रिति षस्य कः, सस्य षत्वम् । कित्त्वान्न गुणः । कुच । 'कुच शब्दे' इति पठितस्य पुनरिह पाठः संपर्चनादावेव ज्वलादिकार्यणप्रत्ययार्थः । अर्थनिर्देशः क्वचित्पाणिनीय इति भूधातौ प्रपञ्चितम् । बुध इति । सेट्कोऽयम्, अनिट्सु श्यन्विकरणस्यैव बुधेग्र्रहणात् । तदाह — बोधिनेति । अबोधीत् । रुहधातुरनिट्कः । क्रादिनियमात्थल्यपि नित्यमिट् । अजन्ताऽकारवत्त्वाऽभावान्न भारद्वाजनियमः । रोढेति । लुटितासिगुणे ढत्वधत्वष्टुत्वढलोपाः । रोक्ष्यतीति । लृटि स्ये ढकषाः । अरुक्षदिति । इगुपधशलन्तत्वात् क्से ढकषाः । कित्त्वान्न गुणः । वृदिति । 'ज्वलितिकसन्तेभ्यः' इति उत्तराऽवधेरपि कसेग्र्रहणादेव सिद्धेर्वृत्करणं स्पष्टार्थमित्याहुः । इति ज्वलादयः । गूहत्यन्ता इति । 'गुहू संवरणे' इत्येतत्पर्यन्ता इत्यर्थः । चते चदे याचने । अचीदिति । एदित्त्वान्न वृद्धिः । एवमचदीत् । बुधिर् । 'बुध अवगमने' इति केवलपरस्मैपदी गतः । स तु ज्वलादिकार्यार्थः । अयं तु इरित् स्वरितेत् । अनिट्सु श्यन्विकरणस्यैव पाठादयं सेट् । अबुधदिति । इर इत्त्वेऽपि तदवयवस्य इकारस्य प्रत्येकमित्त्वेऽपि न नुम्,इदितो नु॑मित्यत्र कर्मधारयमाश्रित्य इत्संज्ञकेकारान्तस्यैव नुम्वधेः । पूर्वोत्तरेति । जन- पूरि- साहचर्येणेत्यर्थः । उ बुन्दिरित । आद्य उकार इत् — 'उदितो वे' ति क्त्वायामिड्विकल्पार्थः । अबुददिति । इरित्त्वादङि 'अनिदिता' नलोपः, इर इकारस्य प्रत्येकमित्संज्ञाविरहात्, अनिदितामित्यस्य इत्संज्ञकेकारान्तभिन्नानामित्यर्थाश्रयणाच्चेति शब्देन्दुशेखरे स्थितम् । वेणृ गतीति । वाद्यभाण्डस्य वादनार्थं ग्रहणं वादित्रग्रहणम् । खनुदातुरुदित् — क्त्वायामिड्विकल्पः । Tattvabodhini ------------- **शदेः शितः** - कुच संपर्चनादौ ।कुच शब्दे तारे॑ इति रचवर्गीयान्तेषु पठितस्य पुनरिह पाठः संपर्चनादावेव ज्वलादित्वप्रयुक्तो णप्रत्ययो यथा स्यादिति मनोरमादौ स्थितम् । अत्र नव्याः — अनेनैव ग्रन्थेन पाणिनिनापि क्वचित्क्वचिदर्थनिर्देशः कृत इत्यनुमीयते, अन्यथाऽत्रत्यग्रन्थस्वारस्यभङ्गापत्तेरित्याहुः॥ बोधितेति । बुध्यतेरेवाऽनिट्कारिकासु पाठितत्वादयं सेडिति भावः । अकासीदिति । हलन्तलक्षणाया वृद्धेःनेटी॑ति निषेधेऽपिअतो हलादे॑रिति वैकल्पिकी वृद्धिः । वृदिति । अत्र नव्याः — ज्वलितिकसन्तेभ्यः॑ इति निर्देशाद्वृत्करणमिहाऽनार्षमित्यनुमीयते । अन्यथाज्वलादीभ्यो णः॑ इत्येव सूत्रयेदित्याहुः । अञ्चु गतौ ।अनिदिता॑मिति नलोपः । अच्यात् ।अची॑त्येकीयमते तु इदित्त्वात् — अञ्च्यात् । मेधृ सङ्गमे च । चात्पूर्वोक्तेऽर्थ ।प्रजायै गृहमेथिना॑ मित्यत्र गृहैर्दारैर्मेधन्ते = सङ्गच्छन्ते इति विग्रहः ।सुप्यजातौ॑ इति णिनिः । शृधु मृधु । क्लेदनमिति । आद्र्रीभाव इत्यर्थः । उदित्त्वाक्त्वायां वेट् । शर्धित्वा शृद्ध्वा । उबुन्दिर् । बुन्दित्वा । बुत्त्वा । निष्ठायां — बुन्नम् । निशामनं -चाक्षुषं ज्ञानम् । वेणृ । गत्यादयः पञ्चार्थाः । वाद्यभाण्डस्य वादनार्थं ग्रहणं वादित्रग्रहणम् । वेणिः वेणी वेणुरित्यादिरूपाण्यस्यैव धातोः । नान्तोऽपीति ।उत माता महिषमन्ववेन॑ दित्यत्र नान्तदर्शनादिति भावः । खनु । खनित्वा । खात्वा । निष्ठायां — खातः । Padamanjari ----------- यद्यत्र शदेः परो यः शित्, तत आत्मनेपदं भवतीत्येवं व्यधिकरणे पञ्चम्यावाश्रित्य व्याख्यायेत, ततोऽपि विकरणे सत्यनेन विधिना भवितव्यम्। सार्वधातुके च परतो विधीयते, ततश्च प्रागेवास्मद्विधेः सार्वधातुकं भवच्छेषत्वत्परस्मैपदं स्यात्, तस्मिंश्च सति तन्निमिते शिति विकरणे कृते परस्मैपदस्य निवृत्तिर्न सिद्ध्येत्। न हि निर्वृतस्य निर्वृत्तिर्वचनशतेनापि शक्यते कर्तुमिति-इमं व्यधिकरणपक्षे दोषं द्दष्ट्वा सामानाधिकरण्ये पञ्चम्याविति दर्शयन्नाह-शदिर्यः शिदिति। कथं पुनः शदिः शिद्भवती, विकरणे हि शकार इद् भवति, तत्राह-शिद्भावीति । शिद्भावी यस्मात् स तथोक्तः। शिद्भावित्वाद् उपचारेण शदिरेव शिदित्युक्तमित्यर्थः। शितो वा सम्बन्धीति ।'शितः' इत्यस्य षष्ठ।ल्न्ततां दर्शयति। कश्च शदिः शितः सम्बन्धी? यस्तस्य प्रकृतिः। प्रागेव च शिदुत्पत्तियोग्यतया तत्प्रकृतित्वमस्त्येव । शीयत इति । पाघ्रादिसूत्रेण शीयादेशः॥ Nyaas ----- यदि `शदेः शितः` इति व्यधिकरणे एते पञ्चम्यावित्यभ्युपगम्यैवं व्याख्यायते - शदेः परो यः शित् तस्मादात्मेपदं भवतीति, तदा सार्वधातुकाश्रयत्वाच्छितः प्रागेव तदुत्पत्तेर्धातोः शेषत्वादस्य लावस्थायां परस्मैपदं स्यात्, ततस्तन्निमित्तकः व्याचिख्यासुराह - शदिर्यः शिदिति। एतेन `शदेः शितः` इति समानाधिकरणे एते पञ्चम्याविति दर्शयति। कथं पुनः शदिः शिद्भवति, यावता विकरणस्य शकार इत्संज्ञक इत्संज्ञासम्बन्धी, न तु शदेः? इत्यत आह - `शद्भावी` इति। भाविशब्दोऽयम् **भविष्यति गम्यादयः** (3.3.3) इति भविष्यत्कालविषयः। शिद्भावीति यतः शिद्भविष्यति स शिद्भावी।एतदुक्तं भवति - शिन्निमित्तत्वादुपचारेण शदिः शिदित्युक्तमिति। भवति हि कारणे कार्योपचारात् तथा व्यपदेशः, यथा - नड्वलोदकं पकादरोग इति। शितो वा सम्बन्धी` इति। एतेन `शितः` इत्यस्य षष्ठन्ततां दर्शयति। कः शदेः शित्सम्ब्नधी? यस्तस्य प्रकृतिः। प्रागपि शितः शदेस्तत्प्रकृतित्वमस्त्येवेति शित्प्रकृतेः शदेरात्मनेपदं भवति। `शीयते` इति। पाघ्रादिसूत्रेण (7.3.78) शीयादेशः॥ Sutra Prayogas -------------- * **शीयमान** (भट्टिकाव्यम्): `शदेः शितः` इति तङ्। * **अशीयत** (भट्टिकाव्यम्): `शदेः शितः` इति तङ्।