13059: प्रत्याङ्भ्यां श्रुवः¶
Padacheda: प्रति-आङ्भ्याम् | S | 5 | 2 |
श्रुवः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
After the Desideratives of श्रु ‘to hear’, when preceded by प्रत and आङ् , the आत्मनेपद affix is Not used.
Vasu English Translation¶
After the Desideratives of श्रु ‘to hear’, when preceded by प्रत and आङ् , the आत्मनेपद affix is Not used. The verb sru when taking the prefixes prati and an, is not atmanepadi, though taking the desiderative “san.” This is also an exception to the rule of sutra (1.3.57). Thus प्रतिशुश्रूषति and आशुश्रूषति ॥
The word prati and an must be upasargas; if they are used as karma pravachaniyas (see (1.4.—83)) then the rule will not apply, as देवदत्तं प्रतिशुश्रूषते ॥
Kashika¶
प्रति आङ्इत्येवंपूर्वाच्छृणोतेः सन्नन्तादात्मनेपदं न भवति। प्रतिशुश्रूषति। आशुश्रूषति। उपसर्गग्रहणं चेदम्, तस्मादिह प्रतिषोधो न भवति — देवदत्तं प्रति शुश्रूषते॥
Siddhanta Kaumudi¶
आभ्यां सन्नन्ताच्छ्रुव उक्तं स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । कर्मप्रर्वचनीयात्स्यादेव । देवदत्तं प्रतिशुश्रूषते । शदेः शितः (SK2362) म्रियतेर्लुङलिङोश्च (SK2538) व्याख्यातम् ॥
Balamanorama¶
प्रत्याङ्भ्यां श्रुवः - प्रत्याङ्भ्यां श्रुवः । उक्तं नेति । आत्मनेपदं नेत्यर्थः । प्रत्याङाविहोपसर्गावेव गृह्रेते, व्याख्यानात् । तदाह — कर्मप्रवचनीयात्स्यादेवेति ।आत्मनेपद॑मिति शेषः । देवदत्तं प्रतीति ।लक्षणेत्थम्भूते॑ति प्तिः कर्मप्रवचनीयः ।
Padamanjari¶
उपसर्गग्रहणं चेदमिति। परस्परसाहचर्यात्। देवदतं प्रतीति।’लक्षणेत्थंभूत’ इत्यादिना प्रतिः कर्मप्रवचनीयः, नोपसर्गः॥
Nyaas¶
उपसर्गग्रहणञ्चेदम् इति। कथं श्रुव इति? विशेषणविशेष्यभावसम्बन्धे षष्ठी। तेनायं सम्बन्धो भवति - शृणोतेर्यौ विशेषणभूतौ प्रत्याङौ तत्पूर्वाच्छरुवः सम्बन्धात् सन्नन्तादात्मनेपदं न भवति। उपसर्गादेवार्थं द्वारेण शृणोतेर्विशेषणभूताविति सामर्थ्यादुपसर्गयोग्र्रहणम्। देवदत्तं प्रति शुश्रूषते इति। प्रतिशब्दस्य लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः (1.4.90) इत्यादिना लक्षणे कर्मप्रवचनीयसंज्ञा, तेन प्रतिना देवदत्त् एव सम्बध्यते; न धात्वर्थ इति॥
Prakriyasarvasvam¶
आभ्यां श्रुवः सनस्तङ् न । प्रतिशुश्रूषति, आशुश्रूषति ।
Sutra Prayogas¶
आशुश्रूषन्स (भट्टिकाव्यम्): प्रत्याङ्भ्यां श्रुवः इत्यात्मनेपदप्रतिषेधः।