13059: प्रत्याङ्भ्यां श्रुवः ============================ **Padacheda:** प्रति-आङ्भ्याम् | S | 5 | 2 | श्रुवः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the Desideratives of श्रु 'to hear', when preceded by प्रत and आङ् , the आत्मनेपद affix is Not used. Vasu English Translation ------------------------ After the Desideratives of श्रु 'to hear', when preceded by प्रत and आङ् , the आत्मनेपद affix is Not used. The verb *sru* when taking the prefixes *prati* and *an*, is not *atmanepadi*, though taking the desiderative "*san*." This is also an exception to the rule of *sutra* (1.3.57). Thus प्रतिशुश्रूषति and आशुश्रूषति ॥ The word *prati* and *an* must be *upasargas*; if they are used as *karma* *pravachaniyas* (see (1.4.—83)) then the rule will not apply, as देवदत्तं प्रतिशुश्रूषते ॥ Kashika ------- प्रति आङ्इत्येवंपूर्वाच्छृणोतेः सन्नन्तादात्मनेपदं न भवति। प्रतिशुश्रूषति। आशुश्रूषति। उपसर्गग्रहणं चेदम्, तस्मादिह प्रतिषोधो न भवति — देवदत्तं प्रति शुश्रूषते॥ Siddhanta Kaumudi ----------------- आभ्यां सन्नन्ताच्छ्रुव उक्तं स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । कर्मप्रर्वचनीयात्स्यादेव । देवदत्तं प्रतिशुश्रूषते । शदेः शितः (SK2362) म्रियतेर्लुङलिङोश्च (SK2538) व्याख्यातम् ॥ Balamanorama ------------ **प्रत्याङ्भ्यां श्रुवः** - प्रत्याङ्भ्यां श्रुवः । उक्तं नेति । आत्मनेपदं नेत्यर्थः । प्रत्याङाविहोपसर्गावेव गृह्रेते, व्याख्यानात् । तदाह — कर्मप्रवचनीयात्स्यादेवेति ।आत्मनेपद॑मिति शेषः । देवदत्तं प्रतीति ।लक्षणेत्थम्भूते॑ति प्तिः कर्मप्रवचनीयः । Padamanjari ----------- उपसर्गग्रहणं चेदमिति। परस्परसाहचर्यात्। देवदतं प्रतीति।'लक्षणेत्थंभूत' इत्यादिना प्रतिः कर्मप्रवचनीयः, नोपसर्गः॥ Nyaas ----- `उपसर्गग्रहणञ्चेदम्` इति। कथं श्रुव इति? विशेषणविशेष्यभावसम्बन्धे षष्ठी। तेनायं सम्बन्धो भवति - शृणोतेर्यौ विशेषणभूतौ प्रत्याङौ तत्पूर्वाच्छरुवः सम्बन्धात् सन्नन्तादात्मनेपदं न भवति। उपसर्गादेवार्थं द्वारेण शृणोतेर्विशेषणभूताविति सामर्थ्यादुपसर्गयोग्र्रहणम्। `देवदत्तं प्रति शुश्रूषते` इति। प्रतिशब्दस्य **लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः** (1.4.90) इत्यादिना लक्षणे कर्मप्रवचनीयसंज्ञा, तेन प्रतिना देवदत्त् एव सम्बध्यते; न धात्वर्थ इति॥ Prakriyasarvasvam ----------------- आभ्यां श्रुवः सनस्तङ् न । प्रतिशुश्रूषति, आशुश्रूषति । Sutra Prayogas -------------- * **आशुश्रूषन्स** (भट्टिकाव्यम्): `प्रत्याङ्भ्यां श्रुवः` इत्यात्मनेपदप्रतिषेधः।