13054: समस्तृतीयायुक्तात् ========================= **Padacheda:** समः | S | 5 | 1 | तृतीयायुक्तात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the verb चर् 'to walk' preceded by सम् , and when connected with a noun in the Instrumental - 3rd Case, the आत्मनेपद is used. Vasu English Translation ------------------------ After the verb चर् 'to walk' preceded by सम् , and when connected with a noun in the Instrumental - 3rd Case, the आत्मनेपद is used. As अश्वेन संचरते 'he rides on the horse-back.' The rule does not apply when it is not in composition with a word in the instrumental case. As उभौ लोकौ संचरति इमं चामुं च देवल ! *O* *Devala*! thou wanderest through both regions, this and that.' Here though the sense of the Instrumental case is implied, yet as it is not expressly stated, we use the *parasmaipada* terminations. Bhashya ------- समस्तृतीयायुक्तात् तृतीयायुक्तादिति किमर्थम्? उभौ लोकौ संचरसीमं चामुं च देवल। तृतीयायुक्तादित्युच्यमानेऽप्यत्र प्राप्नोति। अत्रापि हि तृतीयया योग इति। एवं तर्हि तृतीयायुक्तादित्युच्यते। सर्वत्र च तृतीयया योगः। तत्र प्रकर्षगतिर्विज्ञास्यते - साधीयो यत्र तृतीया योग इति। क्व च साधीयः? यत्र तृतीया श्रूयते ॥ 54 ॥ Kashika ------- संपूर्वाच्चरतेस्तृतीयायुक्तादात्मनेपदं भवति। तृतीयेति तृतीया विभक्तिर्गृह्यते, तया चरतेरर्थद्वारको योगः। अश्वेन संचरते। तृतीयायुक्तादिति किम्? उभौ लोकौ संचरसि इमं चामुं च देवल। यद्यप्यत्र तदर्थयोगः संभवति, तृतीया तु न श्रूयत इति प्रत्युदाहरणं भवति॥ Siddhanta Kaumudi ----------------- रथेन संचरते ॥ Laghu Siddhanta Kaumudi ----------------------- रथेन सञ्चरते॥ Balamanorama ------------ **समस्तृतीयायुक्तात्** - समस्तृतीया । सकर्मकादिति निवृत्तम् । संपूर्वात्तृतीयान्तसमभिव्याह्मताच्चरेरात्मनेपदमित्यर्थः । तृतीयायुक्तादिति किम् । रथिकाः संचरन्ति । अत्र यद्यपि रथेनेत्यर्थाद्गम्यते, तथापि तृतीयान्तश्रवणाऽभावान्नात्मनेपदम् । एतदर्थमेव योगग्रहणम् । अन्यथातृतीयये॑त्येवावक्ष्यत् । सकर्मकादप्येतदात्मनेपदं भवति, अविशेषात्, अत एव॒तृतीयायुक्तादिति किम् । उभौ लोकौ संचरसीभं चामुं च लोक॑मिति भाष्यं सङ्गच्छते । Padamanjari ----------- विभक्तिर्गृ ह्यते इति । तत्रैव तृतीयाशब्दस्य मुख्यत्वात् । यद्येवम्, तया सह धातोः सम्बन्धो न भवति; न हि तृतीया धातुवाच्या, नापि धातुस्तृतीयान्त इत्यत आह-तयेत्यादि। तृतीयार्थेन धात्वर्थस्य योगादौपचारिको धातोस्तृतीयायोग इत्यर्थः। यद्यप्यत्रेति। न हि चेष्टारूपसञ्चरणमन्तरेम करणं सम्भवति, अतोऽश्रुतेऽपि करणपदे तपसा श्रुतेन वेति गम्यमानत्वातदर्थयोगस्य सम्भवः। तृतीया त्विति। एतदर्थमेव हि पूर्वमुक्तम् - विभक्तिर्गृ ह्यत इति। तृतीयायुक्तादिति वाऽनर्थकं स्तात्। यदि तदर्थयोगः स्यात्, सर्वत्रैवं तदर्थभावादिति भावः॥ Nyaas ----- यद्यत्र तृतीयेति गृह्रते, तदेहापि स्यात् - उभौ लोकौ सञ्चरति इमाञ्चामुत्र देवलेति। अत्रापि तृतीयार्थो गम्यत एव। तपसा श्रुतेन वा विद्यत एवेत्येतच्चेतसि कृत्वाह - `तृतीया` इति। ` तृतीयाविभक्तिर्गृह्रते` इति। यद्येवं तया सह धातोः सम्बन्धो नोपपद्यते। न हि तृतीय धातुवाच्येत्याह - `तया` इत्यादि। अर्थो द्वारं मुखमुपायो यस्य स तथोक्तः। तृतीयार्थेन धात्वर्थस्य युक्तवादौपचारिको धातोस्तृतीयीर्थेन योग इति दर्शयति। `यत्रप्यत्र तदर्थेन योगः सम्भवति` इति। विना करणेन क्रियानिष्पत्तेरभावात्, तथापि न भवति। `तृतीय तु` इत्यादि। तृतीयायपुक्तग्रहणं ह्रेवमर्थं क्रियते - श्रूयमाणतृतीययुक्ताद्यथा स्यादिति, अन्यथा सम इत्येवं वक्तव्यं स्यात्? अनुक्तेऽपि सिद्ध्वतात् तृतीयाप्रयोगस्य। न हि तेन विना क्रियानिष्पत्तिरुपपद्यते। तस्माद्यत्र तृतीया श्रूयते तन्मूलोदाहरणम्, यत्र तु न श्रूयते तत्प्रत्युदाहरणम्॥ Prakriyasarvasvam ----------------- सम्पूर्वात् तृतीयायुक्ताच्चरेस्तङ् । तार्क्ष्येण सञ्चरते । समो व्यवधानेऽपीति रामः । तार्क्ष्येण सम्प्रचरते । तृतीयाभावे तु न । भूमौ सञ्चरति । Sudha ----- समस्तृतीयेति । सकर्मकादिति निवृत्तम् । सम्पूर्वात् तृतीयान्तसममिव्याहृताच्चरधातोरात्मनेपदमित्यर्थः। रथेन सञ्चरते । अत्र सम्पूर्वकचरघातुर्वर्तते, रथेन इति तृतीयान्तेन च युक्तः, तस्माद् **समस्तृतीयायुक्तात्**(1.3.54) इत्यनेनात्मनेपदम् । Sutra Prayogas -------------- * **संचरते** (रघुवंशम्): `समस्तृतीयायुक्तात्` इति संपूर्वाञ्चरतेरात्मनेपदम्। * **समचरन्ताऽन्ये** (भट्टिकाव्यम्): `समस्तृतीयायुक्तात्` इति तङ्।