13051: अवाद्ग्रः

Padacheda: अवात् | S | 5 | 1 |

ग्रः | S | 5 | 1 |

Sutrartha


Vasu English Summary

After the verb गॄ ‘to swallow’, when preceded by अव, the आत्मनेपद is used.

Vasu English Translation

After the verb गॄ ‘to swallow’, when preceded by अव, the आत्मनेपद is used. As अवगिरति (he swallows). The root gri to swallow preceded by the preposition ava is Atmanepadi. The verb gri taken in this sutra means to swallow and belongs to the Tudadi class. It is not the gri ‘to make sound’ which belongs to the kryadi class, because there is no word formed with the latter verb by affixing the preposition ava to it. By sutra (I..3.78) this verb gri ‘to swallow’ would have been Parasmaipadi; the present sutra debars that.

When it is not preceded by ava, it is Parasmaipadi, as गिरति ‘he swallows.’

Bhashya

अवाद्ग्रः अवाद् ग्रो गिरतेः ॥ 1 ॥ अवाद् ग्र इत्यत्र गिरतेरिति वक्तव्यम्। गृणातेर्मा भूत्। तत्तर्हि वक्तव्यम्। न वा प्रयोगाभावात्। न वक्तव्यम्, प्रयोगाभावात्। अवाद् ग्र इत्युच्यते, न चावपूर्वस्य गृणातेः प्रयोगोऽस्ति ॥ 51 ॥

Kashika

गृृ निगरणे इति तुदादौ पठ्यते, तस्येदं ग्रहणम्, न तु गृृ शब्दे इति क्र्यादिपठितस्य। तस्य ह्यवपूर्वस्य प्रयोग एव नास्ति। शेषात्० (१.३.७८) इति परस्मैपदे प्राप्ते, अवपूर्वाद् गिरतेरात्मनेपदं भवति। अवगिरते, अवगिरेते, अवगिरन्ते। अवादिति किम्? गिरति॥

Siddhanta Kaumudi

अवगिरते । कृणातिस्त्ववपूर्वो न प्रयुज्यत एवेति भाष्यम् ॥

Balamanorama

अवाद्ग्रः - अवाद्ग्रः । आत्मनेपद॑मिति शेषः । ‘गृ’ इत्यस्य ‘ग्र’ इति पञ्चमी ।प्रकृतिवदनुकरण॑मित्यस्याऽनुत्यत्वात्ऋत इद्धातो॑रिति न भवति । तदनित्यत्वे इदमेव मानम् । अवगिरत इति । शविकरणोऽयम् ।अवगृणाती॑त्यत्राप्यात्मनेपदमाशङ्क्य आह — गृणातिस्त्विति । एवं च तुदादेरेव ग्रहणमिति भावः ।

Padamanjari

‘गिरः’ इति पाठे धात्वनुकरणत्वाद् विभक्तावित्वम् ।’ग्रः’ इति तु पाठे रूपमात्रानुकरणं द्रष्टव्यम्। तस्य ह्यवपूर्वस्येति। नियतविषयाण्यपि क्रियाविशेषणानि भवन्ति, यथा - उर्यादयः कृभ्वस्तिभ्योऽन्यविषया न भवन्तीति भावः॥

Nyaas

अवगिरते इति। ऋत इद्धातोः 97.1.100) इतीत्त्वम्, रपरत्वञ्च।

Prakriyasarvasvam

निगिरणार्थस्योक्तिः । अवगिरतेऽन्नम् ।

Sutra Prayogas

  • संगिरमाण (भट्टिकाव्यम्): अवाद्रः इति अधिकृत्य तङ् ।

  • तथाऽवगिरमाणैश्च (भट्टिकाव्यम्): अवाद् ग्रः इति गिरतेरभ्यवहारार्थत्वात् तङ्।