13051: अवाद्ग्रः ================ **Padacheda:** अवात् | S | 5 | 1 | ग्रः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the verb गॄ 'to swallow', when preceded by अव, the आत्मनेपद is used. Vasu English Translation ------------------------ After the verb गॄ 'to swallow', when preceded by अव, the आत्मनेपद is used. As अवगिरति (he swallows). The root *gri* to swallow preceded by the preposition *ava* is *Atmanepadi*. The verb *gri* taken in this *sutra* means to swallow and belongs to the *Tudadi* class. It is not the *gri* 'to make sound' which belongs to the *kryadi* class, because there is no word formed with the latter verb by affixing the preposition *ava* to it. By *sutra* (I..3.78) this verb *gri* 'to swallow' would have been *Parasmaipadi*; the present *sutra* debars that. When it is not preceded by *ava*, it is *Parasmaipadi*, as गिरति 'he swallows.' Bhashya ------- अवाद्ग्रः अवाद् ग्रो गिरतेः ॥ 1 ॥ अवाद् ग्र इत्यत्र गिरतेरिति वक्तव्यम्। गृणातेर्मा भूत्। तत्तर्हि वक्तव्यम्। न वा प्रयोगाभावात्। न वक्तव्यम्, प्रयोगाभावात्। अवाद् ग्र इत्युच्यते, न चावपूर्वस्य गृणातेः प्रयोगोऽस्ति ॥ 51 ॥ Kashika ------- **गृृ निगरणे** इति तुदादौ पठ्यते, तस्येदं ग्रहणम्, न तु **गृृ शब्दे** इति क्र्यादिपठितस्य। तस्य ह्यवपूर्वस्य प्रयोग एव नास्ति। **शेषात्०** (१.३.७८) इति परस्मैपदे प्राप्ते, अवपूर्वाद् गिरतेरात्मनेपदं भवति। अवगिरते, अवगिरेते, अवगिरन्ते। अवादिति किम्? गिरति॥ Siddhanta Kaumudi ----------------- अवगिरते । कृणातिस्त्ववपूर्वो न प्रयुज्यत एवेति भाष्यम् ॥ Balamanorama ------------ **अवाद्ग्रः** - अवाद्ग्रः । आत्मनेपद॑मिति शेषः । 'गृ' इत्यस्य 'ग्र' इति पञ्चमी ।प्रकृतिवदनुकरण॑मित्यस्याऽनुत्यत्वात्ऋत इद्धातो॑रिति न भवति । तदनित्यत्वे इदमेव मानम् । अवगिरत इति । शविकरणोऽयम् ।अवगृणाती॑त्यत्राप्यात्मनेपदमाशङ्क्य आह — गृणातिस्त्विति । एवं च तुदादेरेव ग्रहणमिति भावः । Padamanjari ----------- 'गिरः' इति पाठे धात्वनुकरणत्वाद् विभक्तावित्वम् ।'ग्रः' इति तु पाठे रूपमात्रानुकरणं द्रष्टव्यम्। तस्य ह्यवपूर्वस्येति। नियतविषयाण्यपि क्रियाविशेषणानि भवन्ति, यथा - उर्यादयः कृभ्वस्तिभ्योऽन्यविषया न भवन्तीति भावः॥ Nyaas ----- `अवगिरते` इति। `ऋत इद्धातोः` 97.1.100) इतीत्त्वम्, रपरत्वञ्च। Prakriyasarvasvam ----------------- निगिरणार्थस्योक्तिः । अवगिरतेऽन्नम् । Sutra Prayogas -------------- * **संगिरमाण** (भट्टिकाव्यम्): `अवाद्रः` इति अधिकृत्य तङ् । * **तथाऽवगिरमाणैश्च** (भट्टिकाव्यम्): `अवाद् ग्रः` इति गिरतेरभ्यवहारार्थत्वात् तङ्।