13040: आङ उद्गमने ================= **Padacheda:** आङः | S | 5 | 1 | उद्गमने | S | 7 | 1 | Sutrartha --------- **'आङ्' उपसर्गात् 'क्रम्' धातोः 'उद्गमनम्' अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति ।** Sutrartha (English) ------------------- When the उपसर्ग 'आङ्' is attached to the verb 'क्रम्', it gets the प्रत्ययाः of आत्मनेपद, provided the meaning is 'to rise, to travel upwards'. Vasu English Summary -------------------- After the verb क्रम् , preceded by an अङ् , the आत्मनेपद is used,when in the sense of 'the rising of a luminary'. Vasu English Translation ------------------------ After the verb क्रम् , preceded by an अङ् , the आत्मनेपद is used,when in the sense of 'the rising of a luminary'. As आक्रमते सूर्यः 'the sun rises.' आक्रमते चन्द्रमाः 'the moon rises,' आक्रमन्त ज्योतींषि 'the stars rise.' Vart:- This ascending must refer to heavenly bodies. Therefore in, आक्रामति धूमोहर्म्यतलात्, 'the smoke rises from the surface of the terrace,' the verb क्रम is *parasmaipadi*. Why do we say in the sense of "to ascend"? Witness आक्रमति माणवकः कुतपम् 'the boy assails the ox.' Bhashya ------- आङ् उद्गमने ज्योतिषामुद्गमने ॥ 1 ॥ ज्योतिरूद्गमने इति वक्तव्यम्। इह मा भूत् - आक्रामति धूमो र्हम्यतलादिति ॥ 40 ॥ Kashika ------- आङ्पूर्वात् क्रमतेरुद्गमने वर्तमानादात्मनेपदं भवति। आक्रमत आदित्यः। आक्रमते चन्द्रमाः। आक्रमन्ते ज्योतींषि। उद्गमन इति किम्? आक्रामति माणवकः कुतपम्॥ ज्योतिरुद्गमन इति वक्तव्यम्॥ इह मा भूत् — आक्रामति धूमो हर्म्यतलात्॥ Siddhanta Kaumudi ----------------- आक्रमते सूर्यः । उदयत इत्यर्थः । (वार्तिकम्) ॥ नेह । आक्रामति धूमो हर्म्यतलात् ॥ Padamanjari ----------- आक्रामति माणवकः कुतुपमिति। अवष्टभ्नातीत्यर्थः। ह्रस्वा कुतूः कुतुपः,'कुत्वा डुपच्' । कुतुपमिति पाठे कुतपो दर्भसंस्तरः। आक्रामति धूमो हर्म्यतलमिति। उद्रमनपूर्विकायां व्याप्तावत्र क्रमिर्द्रष्टव्यः। इह तु'नभः समाक्रामति चन्द्रमाः क्रमात्' इति क्रमिर्व्याप्तौ वर्तते; नोद्रमने॥ Nyaas ----- `आक्रामति माणवकः कुतपम्` इति।अवष्टभ्नातीत्यर्थः। `ज्योतिरुद्गमन इति वक्तव्यम्` इति। ज्योतिषां ग्रहनक्षत्रादीनामुद्गमन एवात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - **अनुपसर्गाद्वा** (1.3.43) इत्यतो वाग्रहणमनुवर्तते सिंहावलोकितन्यायेन, सा च व्यवस्थितविभाषा; तेन ज्योतिरुद्गमन् एव भविष्यति, नान्यत्रेति। यदि तर्हि `वा` ग्रहणमनुवर्तते, उभयोरपि योगयोरनुवर्तेत? मण्डूकप्लुतिन्यायेन नानुवर्तिष्यत इत्यदोषः। Prakriyasarvasvam ----------------- (वा०) । आक्रमतेऽर्कः । अन्यत्र आक्रामति शत्रुम् । अज्योतिषि आक्रामति धूमो हर्म्यम् । उद्गमनेऽकर्मकत्वाद्, आक्रामति धूमो हर्म्यादिति केचित् । तस्मान्निर्गच्छतीत्यर्थः । Vartika ------- ज्योतिरूद्गमन इति वक्तव्यम् । Sutra Prayogas -------------- * **आक्रममाणेव** (भट्टिकाव्यम्): `आङ उद्गमने` इति तङ्। * **केतु-तारा** (भट्टिकाव्यम्): `आङ उद्गमने` इति तत्र हि ज्योतिरुद्गमनमित्युक्तम्।