13037: कर्तृस्थे चाशरीरे कर्मणि

Padacheda: कर्तृस्थे | S | 7 | 1 |

च | S | 0 | 0 |

अशरीरे | S | 7 | 1 |

कर्मणि | S | 7 | 1 |

Sutrartha

कर्तरि सकर्मकप्रयोगे ; यत्र शरीरमुत शरीरावयवः कर्मरूपेण न विधीयेते; तत्र ‘नी’ धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Sutrartha (English)

The verb ‘नी’ when used in the कर्तरि सकर्मकप्रयोग gets the प्रत्ययाः of आत्मनेपद, provided that the कर्मपद does not represent either the body or a part of the body of an animal.

Vasu English Summary

After the verb नी , when it governs an incorporeal object in the agent, as its object, the आत्मनेपद is used.

Vasu English Translation

After the verb नी , when it governs an incorporeal object in the agent, as its object, the आत्मनेपद is used. The verb नी is Atmanepadi when governing an object which has no material body, but is an abstract noun, that is an object which has abstract but no concrete existence; and when such an object has its seat in a portion of the agent of the verb. As क्रोधं विनयते ‘he subdues his own anger,’ मन्युं विनयते ‘he suppresses anger.’

The word sarira means the body of living beings, any portion of such body is also called sarira.

The object must reside in the agent, (kartristha), otherwise the verb will be parasmaipadi. As देवदत्तो यज्ञदत्तस्य क्रोधं विनयति ‘Devadatta removes Yajnadatta’s anger.’

The object moreover must be immaterial, otherwise the affix will be of parasmaipada. As गडुं विनयति ‘he removes his own wort.’ घाठां विनयति ‘he bows his neck.’

Why do we say ‘in the case of an object ?’ Witness बुद्ध्या विनयति ‘he is submissive through knowledge,’ प्रज्ञया विनयति. Here the verb विनयति has not taken an accusative case, but is in construction with an instrumental case, and therefore the present rule does not apply.

Kashika

नयतेः कर्ता देवदत्तादिर्लकारवाच्यः कर्तृस्थे कर्मण्यशरीरे सति नयतेरात्मनेपदं भवति। शरीरं प्राणिकायः, तदेकदेशोऽपि शरीरम्। क्रोधं विनयते। मन्युं विनयते। कर्तृस्थ इति किम् ? देवदत्तो यज्ञदत्तस्य क्रोधं विनयति। अशरीर इति किम् ? गडुं विनयति। घाटां विनयति। कर्मणीति किम् ? बुद्ध्या विनयति। प्रज्ञया विनयति॥

Siddhanta Kaumudi

नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्ने एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लक्ष्यते । क्रोधं विनयते । अपगमयति । तत्फलस्य चित्तिप्रसादस्य कर्तृगत्वात् स्वरितञित (SK2158) इत्येव सिद्धे नियमार्थमिदम् । तेनेह न । गडुं विनयति । कथं तर्हि विगणय्य नयन्ति पौरुषमिति । कर्तृगामित्वाविवक्षायां भविष्यति ॥

Balamanorama

कर्तृस्थे चाशरीरे कर्मणि - कर्तृस्थे । निय इति । कर्मकारके कर्तृस्थे सति णीञ्धातोर्यदात्मनेपदं कर्तृगे फले ञित्त्वात्प्राप्तं, तच्छरीरावयवभिन्न एव सति कर्मकारके स्यात् । कर्मणः शरीरावयवत्वे तु कर्तृगेऽपि फले परस्मैपदमेवेत्यर्थः । ननु सूत्रे शरीरग्रहणात्कथं शरीरावयवेत्युक्तमित्यत आह — सूत्रे इति । शीरतादात्म्यापन्नस्यैव कर्तृतया शरीरस्य कर्तृस्थ्तवं न संभवति । शरीरावयवानां तु समवायेन आधारतया तत्संभवतीति भावः । ननु क्रोधापगमस्य क्रोध विषयशत्रुगताऽनिष्टपरिहारफलकत्वाञ्ञित्वेऽप्यात्मनेपदऽप्राप्तेस्तद्विध्यर्थत्वात्कथमुक्तनियमार्थत्वमस्य सूत्रस्येत्यत आह — तत्फलस्येत्यादि । गडुं विनयतीति । कर्मणो गडोः शरीरावयवत्वान्नात्मनेपदमित्यर्थः । कथं तर्हीति । पौरुषस्य कर्मणः शरीरावयवभिन्नतया आत्मनेपदप्रसङ्गादिति भावः । कर्तृगामित्वेति । कर्तृस्थे कर्मणि नियः कर्तृगे फले ञित्त्वात् प्राप्तमात्मनेपदं शरीरावयवभिन्न एवेति नियम्यते, ननु विधीयते । अत्र तु फलस्य कर्तृगामित्वं सदपि न विवक्षितम्, अतो नात्मनेपदमिति भावः ।

Tattvabodhini

कर्तृस्थे चाशरीरे कर्मणि - कर्तृस्थे । कर्मणीति । आत्मगामिनि क्रियाफले इत्यर्थः ।

Padamanjari

नयतेरात्मनेपदविधानातत्सम्बन्ध्येव कर्ता लकारवाच्यः प्रत्यासन्नो गृह्यत इत्याह - नयतेः कर्तेति। तदेकदेशोऽपि शरीरमिति। अपिशब्दोऽवधारणे। इह शरीरस्यैव चैतन्यविशिष्टस्य कर्तृत्वं लौकिकाः प्रतियन्ति, न तद्व्यतिरिक्तस्य बुद्धीन्द्रियादिमतश्चतनस्य । न च शरीरमेवशरीरस्थं भवति, अतस्तदेकदेश एव तद्ग्रहणेन गृह्यते इत्यर्थः। अत्र क्रोधाद्यपनयनफलं कर्त्रभिप्रायमिति’स्वरितञितः’ इत्येव सिद्धे नियमार्थमिदम् - कर्तृस्थे कर्मण्यशरीरस्थ एवेति । अथ कथम्’विगण्य्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः’ इति? केचिदाहुः-अपगमे वर्तमानादिदमात्मनेपदविधानं भवति, अत्र तु करोत्यर्थे प्राप्त्यर्थे प्राप्त्यर्थे वा वर्तते, अनेकार्थत्वाद्धातूनामिति॥

Nyaas

नयतेः कर्ता इति। अर्थद्वारकः सम्बन्धो वेदितव्यः। तदेकदेशोऽपि शरीरम् इति। समुदायेषु हि प्रवृत्ताः शब्दाः क्वचिदवयवेष्वपि वर्तन्त इति भावः। कथं पुनर्मुख्ये सति गौणस्यापि ग्रहणं लभ्यते? शरीरग्रहणात्। इह लघुत्वात् कायग्रहणं कर्तव्ये यच्छरीरग्रहणं कर्तव्ये यच्छरीरग्रहणं करोति तच्छरीरैकदेशोऽपि शरीरश्रुत्या नाम गृह्रेतेत्येवमर्थम्। क्रोधं विनयते इति। अत्र नयतेर्यः कर्ता स हि बुद्धीन्द्रियदेहसमुदायस्वभावो देवदत्तादिः। तत्रैव कर्म क्रोधो वर्तत इति कर्त्तृस्थं कर्माशरीरं भवति। एवं गडुं विनयतीत्यादौ गड्वादैः शरीरैकदेशस्य कर्मणः कर्त्तृस्थाभावो वेदितव्यः। अत्र च क्रोधाद्यपगमः क्रियाफलं कत्र्रभिप्राय एवेति ` स्वरितञितः कत्र्रभिप्राये` (1.3.72) इत्यनेनैव सिद्धे नियमार्थमेतद्वचनं वेदितव्यम् - कर्त्तृस्थे कर्मण्यशरीर एव, नान्यत्रेति॥

Prakriyasarvasvam

अमूर्ते कर्तृस्थे कर्मकारके सति नियस्तङ् । क्रोधं विनयते³ । मूर्तत्वे गडुं विनयति । अकर्तृस्थत्वे गुरोः क्रोधं विनयति ।

Sutra Prayogas

  • विनयन्ते (रघुवंशम्): कर्तृस्थे चाशरीरे कर्मणि इत्यात्मनेपदम्।

  • विनयन्ते (किरातार्जुनीयम्): कर्तृस्थे चाशरीरे कर्मणि इत्यात्मनेपदम्।

  • नयन्ति (किरातार्जुनीयम्): कर्तृस्थे चाशरीरे कर्मणि इति सूत्रेण अत्र आत्मनेपदं न भवति।

  • विनेष्ये (भट्टिकाव्यम्): कर्तृस्थे च इति तङ्।