13032: गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः ============================================================ **Padacheda:** गन्धन-अवक्षेपण-सेवन-साहसिक्य-प्रतियत्न-प्रकथन-उपयोगेषु | S | 7 | 3 | कृञः | S | 5 | 1 | Sutrartha --------- **गन्धनम् (अनुपस्थितौ अपशब्दप्रयोगः), अवक्षेपणम् (निन्दा), सेवनम् (सेवा), साहसिक्यम् (बलात्कारः), प्रतियत्नम् (गुणपरिवर्तनम्), प्रकथनम् (कथनम्), उपयोग (प्रयोगः) - एतेषु अर्थेषु कृ-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।** डुकृञ् (करणे) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु एतेषु अर्थेषु तस्मात् केवलमात्मनेपदस्य प्रत्ययाः एव भवन्ति - 1) गन्धनम् (कस्यचन अनुपस्थितौ तस्य विषये निन्दापूर्वकम् भाषणम्) - सः तानसेनमुत्कुरुते ('तानसेनस्य अनुपस्थितौ तस्य विषये निन्दापूर्वकं भाषते' इत्यर्थः) । 2) अवक्षेपणम् (निन्दा) - राजा शत्रुमुदाकुरुते ('निर्भत्सयति' इत्यर्थः) । 3) साहसिक्यम् (बलात्कारः) - सः परदारान् प्रकुरुते ('सहसा बलात्कारं करोति' इत्यर्थः ) । 4) प्रतियत्नम् (अन्यपदार्थस्य गुणग्रहणम्) - इन्धनमुदकस्य उपस्कुरुते ('जले नूतनान् गुणान् निर्माति' इत्यर्थः । **कृञः प्रतियत्ने** (2.3.53) इति षष्ठीविभक्तिः ।] 5) प्रकथनम् (कथनम्) - गुरुः वेदम् प्रकुरुते ('कथयति' इत्यर्थः) । 6) उपयोग (उपयोजनम् ) - धनिकः शतं धर्मार्थं उपकुरुते ('धर्मकार्यार्थम् प्रयुङ्क्ते' इत्यर्थः) । अन्येषु अर्थेषु उभयपदमेव भवति । यथा - कटं करोति कुुरुते वा । Sutrartha (English) ------------------- The verb कृ gets the प्रत्ययाः of आत्मनेपद, when used in the meanings of - (1) गन्धनम् - To backbite, (2) अवक्षेपणम् - To defame, (3) सेवन् - To serve or help out (4) साहसिक्यम् - To force someone to do something against their wish, To rape (5) प्रतियत्न -To make someone change their character, (6) प्रकथनम् - To narrate, and (7) उपयोग - To bring in practice, to use. Vasu English Summary -------------------- After the verb कृ when meaning 'to divulge', 'to revile', 'to serve', 'to use violence', 'to cause change', 'to recite' and 'to do an act tending to effect a desired purpose', the आत्मनेपद is used, even when the fruit of the action does not accrue to the agent. Vasu English Translation ------------------------ After the verb कृ when meaning 'to divulge', 'to revile', 'to serve', 'to use violence', 'to cause change', 'to recite' and 'to do an act tending to effect a desired purpose', the आत्मनेपद is used, even when the fruit of the action does not accrue to the agent. The verb कृञ् by *sutra* 72 would take the affixes of the *Atmanepada* when the direct fruit of the action accrues to the agent. This *sutra* has been begun to show that this verb takes the *Atmanepada* terminations under certain circumstances even when the direct fruit of the action does not accrue to the agent. The word *gandhana* comes from the root *gandh* 'to injure,' of *churadi* class and means to inform against another maliciously with the object of injuring such person. *Avakshepana* means 'to revile', 'to over-come,' *sevana* means 'to obey and serve,' *sahasikya* means 'an act of violence,' *pratiyatna* means, 'imparting a new quality or virtue,' *prakathana* means 'to narrate fully,' *upayoga* means 'the disposal of a thing for the object of attaining &c.' Thus उत्कुरुते, उदाकुरुते a means he informs against; (2) श्येनो वर्तिकामुदाकुरुते 'the hawk overcomes or reviles a snail,' (3) गणिकानुपकुरुते 'he serves the prostitutes,' महामात्राननुकुरुते 'he serves the *mahamatra*,' (4) परदारान् प्रकुरुते 'he outrages another's wife,' (5) एधोदकस्योपस्कुरुते 'the fuel gives a new quality (boils) to the water (or he prepares the wood and water for a sacrifice).' The object of the verb *kri* takes the affix of the sixth case i. e. genitive, only when the verb means *pratiyatna*, see *Sutra* (2.3.53) (कृञः प्रतियत्ने) । Therefore *udakasya*, though an object, has genitive form. The verb takes the augment सुट् only when it is preceded by *upa* and signifies *pratiyatna*, see (6.1.139). (उपात् प्रतियत्न वैकृत वाक्याध्याहारेषु) ॥ Therefore, there is the insertion of sibilant in *upaskurute*. (5) गाथाः प्रकुरुते 'he recites stories,' जनापवादान् प्रकुरुते 'he recites slander,' (6) शतं प्रकुरुते 'he devotes a hundred pieces of money, for the sake of merit.' सहस्रं प्रकुरुते 'he devotes a thousand.' Why do we say in these senses? Witness कटं करोति 'he makes a mat.' In this case the *atmanepada* affix is not employed. The verb *kri* is understood in the three succeeding *sutras*. Kashika ------- कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। गन्धनादिष्वर्थेषु वर्तमानात् करोतेरात्मनेपदं भवति। गन्धनमपकारप्रयुक्तं हिंसात्मकं सूचनम्। तथाहि — **बस्त गन्ध अर्दने**, **अर्द हिंसायाम्** इति चुरादौ पठ्यते। अवक्षेपणं भर्त्सनम्। सेवनमनुवृत्तिः। साहसिक्यं साहसं कर्म। प्रतियत्नः सतो गुणान्तराधानम्। प्रकथनं प्रकर्षेण कथनम्। उपयोगो र्धादिप्रयोजनो विनियोगः। गन्धने तावत् — उत्कुरुते। उदाकुरुते। सूचयतीत्यर्थः। अवक्षेपणे — श्येनो वर्तिकामुदाकुरुते। भर्त्सयतीत्यर्थः। सेवने — गणकानुपकुरुते। महामात्रानुपकुरुते। सेवत इत्यर्थः। साहसिक्येपरदारान् प्रकुरुते। तेषु सहसा प्रवर्तत इत्यर्थः। प्रतियत्ने — एधोदकस्योपस्कुरुते। काण्डं गुडस्योपस्कुरुते। तस्य सतो गुणान्तराधानं करोतीत्यर्थः। षष्ठीसुटौ करोतेः प्रतियत्न एव विधीयेते। प्रकथने — गाथाः प्रकुरुते। जनापवादान् प्रकुरुते। प्रकर्षेण कथयतीत्यर्थः। उपयोगे — शतं प्रकुरुते। सहस्रं प्रकुरुते। धर्मार्थं शतं विनियुङ्क्त इत्यर्थः। एतेष्विति किम् ? कटं करोति॥ Siddhanta Kaumudi ----------------- गन्धनं हिंसा । उत्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगानुकूलत्वाद्धिंसैव । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवते । परदारान्प्रकुरुते । भर्त्सयतीत्यर्थः । तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते । गाथाः प्रकुरुते । प्रकथयति । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । एषु किम् । कटं करोति ॥ Laghu Siddhanta Kaumudi ----------------------- गन्धनं सूचनम्। उत्कुरुते। सूचयतीत्यर्थः। अवक्षेपणं भर्त्सनम्। श्येनो वर्तिकामुत्कुरुते। भर्त्सयतीत्यर्थः। हरिमुपकुरुते। सेवत इत्यर्थः। परदारान् प्रकुरुते। तेषु सहसा प्रवर्तते। एधोदकस्योपस्कुरुते। गुणमाधत्ते। कथाः प्रकुरुते। प्रकथयतीत्यर्थः। शतं प्रकुरुते। धर्मार्थं विनियुङ्क्ते। एषु किम्? कटं करोति॥ **भुजोऽनवने** (LSK671) - ओदनं भुङ्क्ते । अनवने किम् ? महीं भुनक्ति ॥ इत्यात्मनेपदप्रक्रिया ॥ Balamanorama ------------ **गन्धनावक्षेपणसेवनसाहसिक्य- प्रतियत्नप्रकथनोपयोगेषु कृञः** - गन्धनावक्षेपण ।आत्मनेपदमकत्र्रभिप्रायेऽपी॑ति शेषः । गन्धनं हिंसेति । गन्ध अर्दने । अर्द हिंसायामित्युक्तेरिति भावः । सूचयतीति । परदोषमाविषकरोतीत्यर्थः । नन्वेवं सति कथमस्य गन्धने वृत्तिः , हिंसाया असत्त्वादित्यत आह — सूचनं हीति । श्येनो वर्तिकामिति । वर्तिका - शकुनिविशेषः । साहसिक्ये उदाहरति — परदारान् प्रकुरुते इति । साहसप्रवृत्तिविषयीकरोतीत्यर्थः । सहसा वर्तते साहसिकः ।ओजस्सहोऽम्भसा वर्तते॑ इति ठक् । तस्य कर्म असमीक्ष्यकरणं = साहसिक्यम् । तदाह — तेषु सहसा प्रवर्तते इति । फलितार्थकथनमिदम्, साहसप्रवृत्तिमात्रार्थकत्वे द्वितीयानुपपत्तेः । अतः साहसप्रवृत्तिविषयीकरणपर्यन्तानुधावनमिति बोध्यम् । प्रतियत्ने उदाहरति - एधोदकस्योपस्कुरुते इति । एधशब्दोऽदन्तःअवोदैधौद्मप्रश्रथहिमश्रथाः॑ इति सूत्रे निपातितः । एधश्च उदकं चेति समाहारद्वन्द्वः । यद्वा एधस्शब्दः सकारान्तो नपुंसकलिङ्गः । एधश्च दकं चेति विग्रहः । दकशब्द उदकवाची ।प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च॑ इति हलायुधः ।काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् रिउआयामि॑त्यमरः । प्रतियत्नो गुणाधानमित्यभिप्रेत्य आह — गुणमाधत्ते इति । काष्ठस्य शोषणादिगुणाधानम् । दकस्य तु गन्धद्रव्यसंपर्कजनितगन्धाधानम् । Tattvabodhini ------------- **गन्धनावक्षेपणसेवनसाहसिक्य- प्रतियत्नप्रकथनोपयोगेषु कृञः** - गन्धनं हिंसेति । गन्ध अर्दने, अर्द हिंसायामित्यनयोश्चुरादौ पाठादिति भावः । सहसा वर्तते साहसिकः ।ओजः सहोम्भसे॑ति ठक् तस्य कर्म साहसिक्यम् । ब्राआहृणादित्वत्ष्यञ् । परदारानित्यादि । तान्वशीकरोतीत्यर्थः । साहसिक्यं न धात्वर्थः, तथाहि सति परदारानिति कर्मणोऽनन्वयः स्यात्, किं तु प्रयोगोपाधिरित्यभिप्रेत्याह - तेषु सहसेति । एधो दकस्येति । एधशब्दोऽकारान्तः — अवोदैधौद्मे॑ति निपातितः । एधाश्च उदकं च एषां समाहारः । यद्वा एधः शब्दः सकारान्तः । तथा च एधांसि च दकं चेति विग्रहः । दकशब्दोऽप्युदकवाच्येवेत्यर्थोऽत्र न भिद्यते । उक्तं च हलायुदे — प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं चे॑ति । Padamanjari ----------- अपकारप्रयुक्तमिति अपकारेण प्रयुक्तमनेन मेऽपकृतमित्येतया बुद्ध्या कृतमित्यर्थः। अथ वा - कथं मयाऽपकृतं स्यादिति बुद्ध्या प्रवर्तितमित्यर्थः। हिसात्मकमिति। सूचितस्य वधबन्धनादिका हिंसा, इह तु तत्करणत्वात्सूचनमेव हिंसा स्वभावमित्युक्तम्। कथं पुनर्ज्ञायते गन्धनं हिंसात्मकमित्यत आह - तथा हीति। चुरादाविति। स्वभावानुवादः। साहसिक्यमिति। सहसा वर्तते साहसिकः ठोजःसहोम्भसा वर्ततेऽ इति ठक्, तस्य कर्मणि ष्यञ् । वर्तिकाउशकुनिविशेषः। एधोदकस्येति। समाहारद्वन्द्वः।'कृञः प्रतियत्ने' इति षष्ठी। उपस्कुरुत इति। ठुपात्प्रतियत्नऽ इत्यादिना सुट्॥ Nyaas ----- `अपकारप्रयुक्तम्` इति। तृतीयासमासोऽयम्। अपकारमुद्दिश्य यत्प्रवर्तते तदपकारप्रयुक्तं वेदितव्यम्। `हिंसात्मकम्` इति। हिनस्तीति हिंसः, पचाद्यच्, हिंस आत्मा यस्य तत् तथोक्तम्। पीडाकरणमित्यर्थः। `सूचनम्` इति दोषाविष्करणम्। कथमेतद्विज्ञायत एंविधं सूचनं गन्धनमित्याह - `तथा ह` इत्यादि। `वस्त` इत्यादिनना गन्धयतिधातुरर्दयतेरर्थे वर्तते इति दर्शयति। `अर्द हिंसायाम्` इत्यादिना अर्दयतेर्हिसात्मकत्वम्। एवञ्च हिंसार्थेनार्दयतिना गन्धयतेः समानार्थतां दर्शयता गन्धनशब्दवाच्यस्यार्थस्य हिंसात्मकत्वं दर्शितं भवति। भत्र्सनं तिरस्करणम्। अनुवृत्तिः परचितावधारणम्। `साहसिक्यं साहसं कर्म` इति। `ओजः सहोऽम्भसा वर्तते` (4.4.27) इति ठक्, साहसिकः। तस्य कर्मेति तस्माद्गुणवचनब्राआहृणादित्वात् (5.1.123) ष्यञ्, साहसिक्यम्। `उपयोगो धर्मादिप्रयोजनो विनियोगः` इति। धर्मादिषु प्रयोजनं यस्य स तथोक्तः। आदिशब्दः कामापरिग्रहाय। `एधो दकस्योपस्कुरुते` इति। **उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु** (6.1.139) इति सुट्। **कृञः प्रतियत्ने** (2.3.53) इति षष्ठी॥ Prakriyasarvasvam ----------------- एषु कृञस्तङ्गेव । हिंसार्थं दोषसूचनं गन्धनम् । तमुत्कुरुते पिशुनः । अवक्षेपणमभिभवः । नृपो रिपूनुत्कुरुते¹, अवकुरुते । सेवनादौ हरिं प्रकुरुते । परदारान् प्रकुरुते अविचार्याभिगच्छतीत्यर्थः । कुसुमैः केशस्योपस्कुरुते । शास्त्रं प्रकुरुते । उपयोगो व्ययः । शतं पणान् प्रकुरुते । Sudha ----- गन्धनावक्षेपण । आत्मनेपदम्, अकर्त्रभिप्रायेऽपीति शेषः । सूचयतीति । परदोषमाविष्करोतीत्यर्थः । श्येनो वर्तिकामुत्कुरुते इति । **गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः**(1.3.32) इत्यनेन श्येनो वर्तिकामुत्कुरुते इत्यतः प्रारभ्य शतं प्रकुरुते इत्यन्तः प्रयोगा आत्मनेपदिनो भवन्ति । कटं करोति । अत्र गन्धनादिभिन्नत्वात् नात्मनेपदमिति भावः । **भुजोऽनवने** ((LSK671)) । अवनं रक्षणम् । ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः। ओदनं भुङ्क्ते । भुज् धातोर्लटः स्थाने **भुजोऽनवने**(1.3.66) इति आत्मनेपदत्वात् ते, सार्वधातुकसंज्ञायां **रुधादिभ्यः श्नम्**(3.1.78) इति श्नमि, अनुबन्धलोपे, मित्वादन्त्यादचः परे **श्नसोरल्लोपः**(6.4.111) इति श्नमोऽकारस्य लोपे, जस्य कुत्वेन गत्वे गस्य चर्त्वेन कत्वे, अनुस्वारे, परसवर्णे टेरेवे च तत्सिद्धिः। मही मुनक्तीति । रक्षतात्यर्थः । इत्यात्मनेपदप्रक्रिया ॥ Sutra Prayogas -------------- * **प्रकुर्वाणो** (भट्टिकाव्यम्): `गन्धन` इत्यादिना सेवने तङ्।