13025: उपान्मन्त्रकरणे ====================== **Padacheda:** उपात् | S | 5 | 1 | मन्त्रकरणे | S | 7 | 1 | Sutrartha --------- **'मन्त्रैः निकटगमनम्' अस्मिन् अर्थे 'उप' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।** 'मन्त्रकरणम्' इत्युक्ते 'मन्त्रैः वैदिकदेवतायाः स्तुतिकरणम्' । अस्मिन् अर्थे 'उप + स्था' इत्यस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - सः गार्ह्यपत्यमुपतिष्ठते ('मन्त्रेण अग्नेः स्तुतिं करोति' इत्यर्थः) । यत्र वैदिकदेवतायाः स्तुतिः नास्ति तत्र तु परस्मैपदमेव भवति । यथा - पत्नी भर्तारमुपतिष्ठति (भर्तारम् स्तौति इत्यर्थः) । अत्र वार्तिकद्वयं ज्ञातव्यम् - 1) - उप + स्था इत्यस्य एतेषु अर्थेषु अपि आत्मनेपदम् भवति - क) देवपूजा - आदित्यं उपतिष्ठते । 'सूर्यं पूजति' इत्यर्थः । ख) सङ्गतिकरणम् (उपश्लेषः / निकटसम्बन्धः / युतिः) - गङ्गा यमुनामुपतिष्ठते । यमुनया सह उपश्लेषं करोति इत्यर्थः । ग) मित्रकरणम् - दुर्योधनः कर्णमुपतिष्ठते । 'कर्णेन सह मित्रतामाचरति' इत्यर्थः । घ) पन्थाः (मार्गः) - अयं पन्थाः तक्षशीलामुपतिष्ठते । 'अयं मार्गः तक्षशीलां प्रति गच्छति' इत्यर्थः । 2) - लिप्सा ('प्राप्तेः इच्छा') अस्मिन् अर्थे उप + स्था इत्यस्मात् वैकल्पिकमात्मनेपदम् भवति । यथा - भिक्षुकः धनिकमुपतिष्ठते उपतिष्ठति वा । 'धनप्राप्तेः इच्छया धनिकस्य समीपं गच्छति' इत्यर्थः। ज्ञातव्यम् - **अकर्मकाच्च** (1.3.26) इत्यनेन अग्रिमसूत्रेण 'उप + स्था' इत्यस्य अकर्मकप्रयोगे आत्मनेपदम् भवति ; सकर्मकप्रयोगे तु परस्मैपदमेव क्रियते । परन्तु 'आदित्यमुपतिष्ठते', 'कर्णमुपतिष्ठते', 'तक्षशीलामुपतिष्ठते', 'धनिकमुपतिष्ठते' - आदिषु वाक्येषु यद्यपि सकर्मकप्रयोगः दृश्यते, तथापि वर्तमानसूत्रे निर्दिष्टयोः वार्त्तिकयोः सामर्थ्यात् एतेषु उदाहरणेषु आत्मनेपदमेव क्रियते । Sutrartha (English) ------------------- When the उपसर्ग 'उप' is attached to the verb 'स्था', it gets the प्रत्ययाः of आत्मनेपद ; provided the meaning is 'to approach using the मन्त्रs'. Vasu English Summary -------------------- After the verb स्था 'to stand', preceded by उप , when meaning 'to adore', the आत्मनेपद affix is used. Vasu English Translation ------------------------ After the verb स्था 'to stand', preceded by उप , when meaning 'to adore', the आत्मनेपद affix is used. As ऐन्द्र्यागार्हपत्यमुपतिष्ठते 'he approaches with prayers or worships the *Garhapatya* fire with *aindra* hymns.' If it does not mean 'praising with hymns' the terminations which the verb takes, are those of the *Parasmaipada*, as भर्तारमुपतिष्ठति यौवनेन 'she approaches the husband through youth.' Vart:- The verb स्था after the preposition उप takes the terminations of the *atmanepada* when meaning 'worshipping a deity,' 'to approach for intercourse or uniting or joining,' 'to form friendship with,' and 'to lead to as a way.' Thus:- 1st *Deva* *puja* आदित्यमुपतिष्ठते 'he worships the *Aditya*.' 2. *Sangati* *karana* पतिमुपतिष्ठते नारी 'the wife approaches the husband,' रथिकानुपतिष्ठते 'forms union with charioteers.' 3. *Mitri* *karana* सन्तमुपतिष्ठते साधुः 'the good man approaches the saints to make friends with.' What is the difference between *Sangati*-*karana* and *Mitri*-*karana* ? *Sangati*-*karana* means drawing near and approaching together in space, as गंगायमुनामुपतिष्ठते 'the Ganges joins the *Jumna*.' While the friendly relations may be established without coming in physical contact. 4. *Patha* :- अयं पन्थाः स्रुघ्नमुपतिष्ठते 'this road leads to *Srughna*.' Vart:- It must be stated that the *Atmanepada* is optional when the sense is 'desire of getting.' As भिक्षुको ब्राह्मणकुलमुपतिष्ठते or उपतिष्ठति 'a beggar waits at the place of a *Brahmana* with the desire of getting something.' Bhashya ------- उपान्मन्त्रकरणे उपाद्देवपूजासङ्गतकरणयोः । उपाद्देवपूजासङ्गतकरणयोरिति वक्तव्यम्। आदित्यमुपतिष्ठते । चन्द्रमसमुपतिष्ठते। सङ्गतकरणे - रथिकान् उपतिष्ठते। अश्वारोहान् उपतिष्ठन्ते। बहूनामप्यचित्तानामेको भवति चित्तवान्। पश्य वानरसैन्येऽस्मिन्यदर्कमुपतिष्ठते ॥ 1 ॥ मैवं मंस्थाः सचित्तोऽयमेषोऽपि हि यथा वयम्। एतदप्यस्य कापेयं यदर्कमुपतिष्ठति ॥ 2 ॥ अपर आह - उपाद्देवपूजासङ्गतकरणमित्रकरणपथिषु। उपाद्देवपूजासङ्गतकरणमित्रकरणपथिष्विति वक्तव्यम्। देवपूजासङ्गतकरणयोरुदाहृतम्। मित्रकरणे - रथिकान् उपतिष्ठते, अश्वारोहान् उपतिष्ठते। पथिषु - अयं पन्थाः स्रुग्ध्नमुपतिष्ठते, अयं पन्थाः साकेतमुपतिष्ठते। वा लिप्सायाम्। वा लिप्सायामिति वक्तव्यम्। भिक्षुको ब्राह्मणकुलमुपतिष्ठते। भिक्षुको ब्राह्मणकुलमुपतिष्ठति। Kashika ------- उपपूर्वात् तिष्ठतेर्मन्त्रकरणेऽर्थे वर्तमानादात्मनेपदं भवति। ऐन्द्र्या गार्हपत्यमुपतिष्ठते। आग्नेय्याग्नीध्रमुपतिष्ठते। मन्त्रकरण इति किम्? भर्तारमुपतिष्ठति यौवनेन॥ उपाद् देवपूजासंगतिकरणमित्रकरणपथिष्विति वाच्यम्॥ देवपूजायाम् — आदित्यमुपतिष्ठते। संगतिकरणे — रथिकानुपतिष्ठते। मित्रकरणे — महामात्रानुपतिष्ठते। मित्रकरणसंगतिकरणयोः को विशेषः? संगतिकरणमुपश्लेषः,तद्यथा — गङ्गा यमुनामुपतिष्ठते। मित्रकरणं तु विनाप्युपश्लेषेण मैत्रीसंबन्धः। पथि — अयं पन्थाः स्रुघ्नमुपतिष्ठते॥ वा लिप्सायामिति वक्तव्यम्॥ भिक्षुको ब्राह्मणकुलमुपतिष्ठते, उपतिष्ठतीति वा॥ Siddhanta Kaumudi ----------------- आग्नेय्याग्नीध्रमुपतिष्ठते । मन्त्रकरणे किम् ? भर्तारमुपतिष्ठति यौवनेन । (वार्तिकम्) ॥ आदित्यमुपतिष्ठते । कथं तर्हि स्तुत्यं स्तुतिभिरर्थ्याभिरूपतस्थे सरस्वतीति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः । (वार्तिकम्) ॥ भिक्षुकः प्रभुमुपतिष्ठते - उपतिष्ठति वा । लिप्सया उपगच्छतीत्यर्थः ॥ Balamanorama ------------ **उपान्मन्त्रकरणे** - उपान्मन्त्रकरणे । मन्त्रकरणकेऽर्ते विद्यमानात्स्थाधातोरात्मनेपदमित्यर्थः । आग्नेय्या आग्नीध्रमुपतिष्ठते इति । आग्नेय्या ऋचा आग्नीध्राख्यमण्डपविशेषमुपेत्य तिष्ठतीत्यर्थः । स्थितेरकर्मकत्वेऽपि उपेत्येतदपेक्ष्य सकर्मकत्वम् । केचित्तु मन्त्रकरणके समीपावस्थितिपूर्वकस्तवे विद्यमानात्स्थाधातोरात्मनेपदमिति व्याचक्षते । तत्र स्तवो गुणवत्त्वेन संकीर्तनमिति स्तुतशस्त्रधिकरणे प्रपञ्चितमस्माभिः । श्लोकै राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठते इत्यात्मनेपदं न, मन्त्रकरणकत्वाऽभावात् । उपाद्देवपूजा — इति वार्तिकम् । अमन्त्रकरणकत्वार्तम् । आदित्यनुपतिष्ठते इति । अभिमुखीभूयाऽवस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थः । कथं तर्हीति । रघोर्देवतात्वाभावादिति भावः । समाधत्ते — देवतात्वारोपादिति । नृपस्येति ।नाऽविष्णुः पृथिवीपति॑रित्यादिस्मरणादिति भावः । वा लिप्सायामिति । लिप्साहेतुकाऽर्थवृत्तेः स्थाधातोरात्मनेपदं वेत्यर्थः । Tattvabodhini ------------- **उपान्मन्त्रकरणे** - उपान्मन्त्रकरणे । मन्त्रः करणं यत्र मन्त्रकरणं — स्तुतिः, तत्र वर्तमानादुपपूर्वात्तिष्ठतेरात्मनेपदं स्यात् । आग्नेय्येति । अग्निदेवताकया ऋचा आग्नीध्रम् = अग्निविशेषं स्तौतीत्यर्थः । अत्रकेचित् — श्लोकै राजानं स्तौतीत्यर्थे स्लौकैरुपतिष्ठत इति प्रयोगो नेष्यते । ऐन्द्य्रा गार्हपत्यमुपतिष्ठते, आग्नेय्या आग्नीध्रमिति वैदिकविषय एव सर्वैरुदाहृतत्वात् । तथा च तिष्ठतेरर्थे यदा मन्त्रः करणं तदा तङिति व्याख्येयम् । उपतिष्ठत इत्यस्य तु समीपवस्थानमेवार्थः । न च तत्र यष्टायदिवन्मत्रस्य करणत्वं न संभवतीति वाच्यम्, उपस्थानस्वरूपे तस्योपयोगाऽभावेऽपि तत्कार्ये स्तुतावुपयोगादुपस्थानकरणत्वं मन्त्रस्य न विहन्यते ।आग्नीध्र॑मिति द्वितीया तु करमत्वान्यथानुपपत्तिलभ्येन स्तोतुमित्यनेनान्वेति । एवं चाऽऽग्नेय्या आग्नीध्रं स्तोतु तत्समीपे तिष्ठतीत्येव वाक्यार्थः । आदित्यमुपतिष्ठते इत्यत्र तु तत्समीपावस्थानस्याऽसंभवदादित्यं स्तोतुं तदभिमुखतया तिष्ठतीत्यर्थः इत्याहुः । गङ्गा यमुनामिति । एतेन यमुनैव प्राचीना, गङ्गा तु पश्चाद्यमुनया सह मिलितेति प्रतीयते । Padamanjari ----------- पारिभाषिकमत्र करणं गृह्यते, मन्त्रः करणं यस्यार्थस्य तस्मिन्वर्तमानादित्यर्थः। उपादित्यादि। अमन्त्रकरणार्थमिदम्। सङ्गतकरणमुपश्लेष इति। विनापि मैत्रीसम्बन्धात्। स्त्रु घ्नमुपतिष्ठते इति। प्राप्नोतित्यर्थः। भिक्षुक इति। लिप्सया हेतुभूतया ब्रह्मणकुलमुपगच्छतीत्यर्थः॥ Nyaas ----- `मन्त्रकरणे`इति। मन्त्रः करणं साधकतमं यस्य धात्वर्थस्य स तथोक्तः। `उपात्` इत्यादि। अत्र वक्तव्यशब्दस्य व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - उत्तरसूत्रे चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन उपपूर्वात्तिष्ठतेर्देवपूजादिष्वप्यात्मनेपदं भवति।`वा लिप्सायाम्` इति। लब्धुमिच्छा लिप्सा। लिप्सायां गम्यमानायामित्येषोऽर्थोवेदितव्यः,न तु तत्र वर्तमानात् तिष्ठतेरिति, न लिप्सा तिष्ठरेरर्थः। तथा हि - `भिक्षुको ब्राआहृणकुलमुपतिष्ठते`इत्यत्र तिष्ठतिरुपसंक्रमणे वर्तते। लिप्सा तूपसंक्रमणस्य हेतुभूता गम्यते। लिप्सायां हेतुभूतानां ब्राआहृणकुलमुपसंक्रामतीत्यर्थः॥ Prakriyasarvasvam ----------------- मन्त्रसाधनकेऽर्थे तङ् चान्निमुपतिष्ठते । अन्यत्र तु वधूः कान्तं यौवनेनोपतिष्ठति ॥ ६४८ ॥ (वा०) । विष्णु- मुपतिष्ठते । सङ्गतौ यमुना गङ्गामुपतिष्ठते । मैत्र्याम् चैद्यमुपतिष्ठते रुक्मी । पथि कर्तृकत्वे तु अयं पन्थाः स्वर्लोकमुपतिष्ठते । (वा०) । भिक्षु- र्धार्मिकमुपतिष्ठते, उपतिष्ठति वा । Vartika ------- उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम् । Sutra Prayogas -------------- * **उपतिष्ठन्ते** (भट्टिकाव्यम्): `उपान्मन्त्रकरणे` इत्यात्मनेपदम्।