13022: समवप्रविभ्यः स्थः¶
Padacheda: सम्-अव-प्र-विभ्यः | S | 5 | 3 |
स्थः | S | 5 | 1 |
Sutrartha¶
‘सम् ‘ / ‘अव’ / ‘प्र’ / ‘वि’ उपसर्गात् ‘स्था’ धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
स्था (गतिनिवृतौ) अयं धातुः वस्तुतः परस्मैपदी अस्ति । परन्तु सम् / अव / प्र / वि - एतेभ्यः परस्य स्था-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - संतिष्ठते (‘समाप्तं भवति’ इत्यर्थः), अवतिष्ठते (‘अस्ति, स्थिरः भवति’ इत्यर्थः) , प्रतिष्ठते (‘स्थापना भवति / निर्गच्छति’ इत्यर्थः) , वितिष्ठते (‘स्थिरः भवति’ इत्यर्थः) । वार्त्तिकम् - <!आङः प्रतिज्ञायामुपसंख्यानम् !> - ‘प्रतिज्ञां करोति’ अस्मिन् अर्थे ‘आङ् + स्था’ इत्यस्य आत्मनेपदं भवति । यथा - शब्दं आतिष्ठेऽहम् (‘अहम् यम् शब्दमुक्तवान्, तावदेव अनुसरामि - इति प्रतिज्ञां करोमि’ इत्यर्थः)।
Sutrartha (English)¶
When any of the उपसर्गs - सम् , अव, प्र, वि - is attached to the verb ‘स्था’, it gets the प्रत्ययाः of आत्मनेपद.
Vasu English Summary¶
After the verb स्था ‘to stand’, preceded by सम् , अव , प्र , वि , the आत्मनेपद affix is used.
Vasu English Translation¶
After the verb स्था ‘to stand’, preceded by सम् , अव , प्र , वि , the आत्मनेपद affix is used. As संतिष्ठते ‘he stays with,’ अवतिष्ठते ‘he waits patiently,’ प्रतिष्ठते ‘he sets forth,’ वितिष्ठते ‘he stands apart.’
Vart:- The verb स्था when preceded by आङ् and meaning ‘solemn declaration’ takes atmanepada terminations; as अस्ति संस्कारमात्रमातिष्ठते ॥ Or to take another example, जलं विशं वा तव कारणादास्थास्ये ‘for thee I shall surely have recourse to water or poison.’
Bhashya¶
समवप्रविभ्यः स्थः आङः स्थः प्रतिज्ञाने ॥ 1 ॥ आङः स्थः प्रतिज्ञान इति वक्तव्यम्। अस्ति सकारमातिष्ठते। आगमौ गुणवृद्धी आतिष्ठते। विकारौ गुणवृद्धी आतिष्ठते।
Kashika¶
सम् अव प्र वि इत्येवंपूर्वात् तिष्ठतेरात्मनेपदं भवति। संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥ आङःस्थः प्रतिज्ञान इति वक्तव्यम्॥ अस्तिं सकारमातिष्ठते। आगमौ गुणवृद्धी आतिष्ठते॥
Siddhanta Kaumudi¶
सन्तिष्ठते । स्थाघ्वोरिच्च -(SK2389) । समस्थित । समस्थिषाताम् । समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्टते ।<!आङः प्रतिज्ञायामुपसंख्यानम् !> (वार्तिकम्) ॥ शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीत इत्यर्थः ॥
Laghu Siddhanta Kaumudi¶
संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥
Balamanorama¶
समवप्रविभ्यः स्थः - समवप्रविभ्यः स्थः । स्थ इति पञ्चमी । समव प्र वि एभ्यः परस्मात्स्थाधातोरात्मनेपदमित्यर्थः । संतिष्ठते इति । समाप्तं भवतीत्यर्थः ।
Padamanjari¶
सन्तिष्ठत इति। पाघ्रादिसूत्रेण तिष्ठादेशः। अत्राप्युपसर्गग्रहणादिह न भवति-वे तिष्ठसि, वी तिष्ठत इति। अस्तिं सकारमिति। श्तः सन्तीत्यादौ सकारमात्रस्य दर्शनात्’स भुवि’ इत्यवे धातुः पाठयः, अस्तीत्यादौ पिति सार्वधातुके अडागमो विधेयः, आस्तामासन्नित्यादौ आडागमः स्यात्’ इति आपिशला मन्यन्ते । गुणस्य त्वागमत्वे उदाहरणं मृग्यम्॥
Nyaas¶
सन्तिष्ठते इति। पाघ्रादिसूत्रेण (7.3.78) तिष्ठादेशः।अस्त सकारमातिष्ठते इति सकारमात्रमस्त धातुमापिशलिराचार्यः प्रतिजानीते। तथा हि - न तस्य पाणिनेरिव अस भुवि (धातुपाठः-1065) इति गणपाठः, किं तर्हि? स भुवि इति स पठति। आगमौ गुणवृद्धी आतिष्ठते इति। स त्वागमौ गुणवृद्धी आतिष्ठते। एवं हि स प्रतिजनीत इत्यर्थः॥
Prakriyasarvasvam¶
एभ्यस्तिष्ठतेस्तङ् । सन्तिष्ठत इत्यादि । ‘आङः स्थः प्रतिज्ञाने’ । शब्दं नित्यमातिष्ठते³ ।
Sudha¶
समवप्रविभ्यः स्थ इति । स्थः इति पञ्चमी । सम् अव प्र वि एभ्यः परस्मात् स्थाघातोरात्मनेपदमित्यर्थः । सन्तिष्ठते । समाप्तं भवतीत्यर्थः । अवतिष्ठते । अत्र सर्वत्र स्थाधातोर्लटः स्थाने **समवप्रविभ्यः स्थः**(1.3.22) इत्यात्मनेपदे, शपि, **पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः**(7.3.78) इत्यादिना तिष्ठ आदेशः।
Vartika¶
आङः प्रतिज्ञायाम् ।
Sutra Prayogas¶
प्रतिष्ठेथाः (रघुवंशम्): समवप्रविभ्यः स्थः इत्यात्मनेपदम्।
प्रतस्थे (रघुवंशम्): समवप्रविभ्यः स्थः इत्यात्मनेपदम्।
व्यतिष्ठत (रघुवंशम्): समवप्रविभ्यः स्थः इत्यात्मनेपदम्।
प्रतस्थे (कुमारसम्भवम्): समवप्रविभ्यः स्थः इत्यात्मनेपदम्।
सम्प्रतस्थे (किरातार्जुनीयम्): समवप्रविभ्यः स्थः इत्यात्मनेपदम्।
नावतिष्ठते (शिशुपालवधम्): समवप्रविभ्यः स्थः इत्यात्मनेपदम्।
प्रतस्थे (शिशुपालवधम्): समवप्रविभ्यः स्थः इत्यात्मनेपदम्।
वितिष्ठमानम् (शिशुपालवधम्): समवप्रविभ्यः स्थः इत्यात्मनेपदम्।
प्रतस्थिरे (शिशुपालवधम्): समवप्रविभ्यः स्थः इत्यात्मनेपदम्।
प्रतिष्ठते (शिशुपालवधम्): समवप्रविभ्यः स्थः इत्यात्मनेपदम्।
प्रतिष्ठन्त (शिशुपालवधम्): समवप्रविभ्यः स्थः इति तङ्।
प्रतस्थे (भट्टिकाव्यम्): तिष्ठतेःसमव इत्यादिना लिटि तङ् ॥
प्रस्थास्यमानाव् (भट्टिकाव्यम्): सम- व-प्र-वि-भ्यः स्थः इति तङ्।
अवास्थित (भट्टिकाव्यम्): समव इत्यादिना तङ्।
प्रास्थिषता (भट्टिकाव्यम्): समव-प्र-विभ्यः स्थः इति तङ्।
अवतिष्ठस्व (भट्टिकाव्यम्): समव-प्र-विभ्यः स्थः इति तङ्।
प्रतस्थे (भट्टिकाव्यम्): समवप्रविभ्यः स्थः इति तङ्।
प्रतिष्ठासांचक्रे (भट्टिकाव्यम्): समवप्रविभ्यः स्थः इति तङ्।
प्रतिष्ठस्व (भट्टिकाव्यम्): समव- प्र- विभ्यः स्थः इति तङ्।