13022: समवप्रविभ्यः स्थः ======================== **Padacheda:** सम्-अव-प्र-विभ्यः | S | 5 | 3 | स्थः | S | 5 | 1 | Sutrartha --------- **'सम् ' / 'अव' / 'प्र' / 'वि' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।** स्था (गतिनिवृतौ) अयं धातुः वस्तुतः परस्मैपदी अस्ति । परन्तु सम् / अव / प्र / वि - एतेभ्यः परस्य स्था-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - संतिष्ठते ('समाप्तं भवति' इत्यर्थः), अवतिष्ठते ('अस्ति, स्थिरः भवति' इत्यर्थः) , प्रतिष्ठते ('स्थापना भवति / निर्गच्छति' इत्यर्थः) , वितिष्ठते ('स्थिरः भवति' इत्यर्थः) । वार्त्तिकम् - - 'प्रतिज्ञां करोति' अस्मिन् अर्थे 'आङ् + स्था' इत्यस्य आत्मनेपदं भवति । यथा - शब्दं आतिष्ठेऽहम् ('अहम् यम् शब्दमुक्तवान्, तावदेव अनुसरामि - इति प्रतिज्ञां करोमि' इत्यर्थः)। Sutrartha (English) ------------------- When any of the उपसर्गs - सम् , अव, प्र, वि - is attached to the verb 'स्था', it gets the प्रत्ययाः of आत्मनेपद. Vasu English Summary -------------------- After the verb स्था 'to stand', preceded by सम् , अव , प्र , वि , the आत्मनेपद affix is used. Vasu English Translation ------------------------ After the verb स्था 'to stand', preceded by सम् , अव , प्र , वि , the आत्मनेपद affix is used. As संतिष्ठते 'he stays with,' अवतिष्ठते 'he waits patiently,' प्रतिष्ठते 'he sets forth,' वितिष्ठते 'he stands apart.' Vart:- The verb स्था when preceded by आङ् and meaning 'solemn declaration' takes *atmanepada* terminations; as अस्ति संस्कारमात्रमातिष्ठते ॥ Or to take another example, जलं विशं वा तव कारणादास्थास्ये 'for thee I shall surely have recourse to water or poison.' Bhashya ------- समवप्रविभ्यः स्थः आङः स्थः प्रतिज्ञाने ॥ 1 ॥ आङः स्थः प्रतिज्ञान इति वक्तव्यम्। अस्ति सकारमातिष्ठते। आगमौ गुणवृद्धी आतिष्ठते। विकारौ गुणवृद्धी आतिष्ठते। Kashika ------- सम् अव प्र वि इत्येवंपूर्वात् तिष्ठतेरात्मनेपदं भवति। संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥ आङःस्थः प्रतिज्ञान इति वक्तव्यम्॥ अस्तिं सकारमातिष्ठते। आगमौ गुणवृद्धी आतिष्ठते॥ Siddhanta Kaumudi ----------------- सन्तिष्ठते । स्थाघ्वोरिच्च -(SK2389) । समस्थित । समस्थिषाताम् । समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्टते । (वार्तिकम्) ॥ शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीत इत्यर्थः ॥ Laghu Siddhanta Kaumudi ----------------------- संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥ Balamanorama ------------ **समवप्रविभ्यः स्थः** - समवप्रविभ्यः स्थः । स्थ इति पञ्चमी । समव प्र वि एभ्यः परस्मात्स्थाधातोरात्मनेपदमित्यर्थः । संतिष्ठते इति । समाप्तं भवतीत्यर्थः । Padamanjari ----------- सन्तिष्ठत इति। पाघ्रादिसूत्रेण तिष्ठादेशः। अत्राप्युपसर्गग्रहणादिह न भवति-वे तिष्ठसि, वी तिष्ठत इति। अस्तिं सकारमिति। श्तः सन्तीत्यादौ सकारमात्रस्य दर्शनात्'स भुवि' इत्यवे धातुः पाठयः, अस्तीत्यादौ पिति सार्वधातुके अडागमो विधेयः, आस्तामासन्नित्यादौ आडागमः स्यात्' इति आपिशला मन्यन्ते । गुणस्य त्वागमत्वे उदाहरणं मृग्यम्॥ Nyaas ----- `सन्तिष्ठते` इति। पाघ्रादिसूत्रेण (7.3.78) तिष्ठादेशः।`अस्त सकारमातिष्ठते` इति सकारमात्रमस्त धातुमापिशलिराचार्यः प्रतिजानीते। तथा हि - न तस्य पाणिनेरिव `अस भुवि` (धातुपाठः-1065) इति गणपाठः, किं तर्हि? `स भुवि` इति स पठति। `आगमौ गुणवृद्धी आतिष्ठते` इति। स त्वागमौ गुणवृद्धी आतिष्ठते। एवं हि स प्रतिजनीत इत्यर्थः॥ Prakriyasarvasvam ----------------- एभ्यस्तिष्ठतेस्तङ् । सन्तिष्ठत इत्यादि । ‘आङः स्थः प्रतिज्ञाने’ । शब्दं नित्यमातिष्ठते³ । Sudha ----- समवप्रविभ्यः स्थ इति । स्थः इति पञ्चमी । सम् अव प्र वि एभ्यः परस्मात् स्थाघातोरात्मनेपदमित्यर्थः । सन्तिष्ठते । समाप्तं भवतीत्यर्थः । अवतिष्ठते । अत्र सर्वत्र स्थाधातोर्लटः स्थाने **समवप्रविभ्यः स्थः**(1.3.22) इत्यात्मनेपदे, शपि, **पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः**(7.3.78) इत्यादिना तिष्ठ आदेशः। Vartika ------- आङः प्रतिज्ञायाम् । Sutra Prayogas -------------- * **प्रतिष्ठेथाः** (रघुवंशम्): `समवप्रविभ्यः स्थः` इत्यात्मनेपदम्। * **प्रतस्थे** (रघुवंशम्): `समवप्रविभ्यः स्थः` इत्यात्मनेपदम्। * **व्यतिष्ठत** (रघुवंशम्): `समवप्रविभ्यः स्थः` इत्यात्मनेपदम्। * **प्रतस्थे** (कुमारसम्भवम्): `समवप्रविभ्यः स्थः` इत्यात्मनेपदम्। * **सम्प्रतस्थे** (किरातार्जुनीयम्): `समवप्रविभ्यः स्थः` इत्यात्मनेपदम्। * **नावतिष्ठते** (शिशुपालवधम्): `समवप्रविभ्यः स्थः` इत्यात्मनेपदम्। * **प्रतस्थे** (शिशुपालवधम्): `समवप्रविभ्यः स्थः` इत्यात्मनेपदम्। * **वितिष्ठमानम्** (शिशुपालवधम्): `समवप्रविभ्यः स्थः` इत्यात्मनेपदम्। * **प्रतस्थिरे** (शिशुपालवधम्): `समवप्रविभ्यः स्थः` इत्यात्मनेपदम्। * **प्रतिष्ठते** (शिशुपालवधम्): `समवप्रविभ्यः स्थः` इत्यात्मनेपदम्। * **प्रतिष्ठन्त** (शिशुपालवधम्): `समवप्रविभ्यः स्थः` इति तङ्। * **प्रतस्थे** (भट्टिकाव्यम्): `तिष्ठतेःसमव` इत्यादिना लिटि तङ् ॥ * **प्रस्थास्यमानाव्** (भट्टिकाव्यम्): `सम- व-प्र-वि-भ्यः स्थः` इति तङ्। * **अवास्थित** (भट्टिकाव्यम्): `समव` इत्यादिना तङ्। * **प्रास्थिषता** (भट्टिकाव्यम्): `समव-प्र-विभ्यः स्थः` इति तङ्। * **अवतिष्ठस्व** (भट्टिकाव्यम्): `समव-प्र-विभ्यः स्थः` इति तङ्। * **प्रतस्थे** (भट्टिकाव्यम्): `समवप्रविभ्यः स्थः` इति तङ्। * **प्रतिष्ठासांचक्रे** (भट्टिकाव्यम्): `समवप्रविभ्यः स्थः` इति तङ्। * **प्रतिष्ठस्व** (भट्टिकाव्यम्): `समव- प्र- विभ्यः स्थः` इति तङ्।