13019: विपराभ्यां जेः¶
Padacheda: वि-पराभ्याम् | S | 5 | 2 |
जेः | S | 5 | 1 |
Sutrartha¶
‘वि’ / ‘परा’ उपसर्गाभ्याम् ‘जि’ धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
यद्यपि जि (जये) धातुः परस्मैपदी अस्ति, तथापि वि-उपसर्गपूर्वकः परा-उपसर्गपूर्वकः जि-धातुः आत्मनेपदस्य प्रत्ययान् प्राप्नोति । यथा - विजयते (उत्कृष्टः भवति / विजयं प्राप्नोति), पराजयते (निकृष्टः भवति / पराजयं प्राप्नोति ) । ज्ञातव्यम् - ‘सत्यमेव जयते’ इत्यत्र ‘जयते’ अयं आर्षः प्रयोगः ज्ञातव्यः । ‘सत्यमेव जयते नानृतम् सत्येन पन्थाः विततो देवयानः’ इति मुण्डकोपनिषदि अयं प्रयोगः दृश्यते । सामान्यभाषायां तु ‘सत्यमेव जयति’ इत्येव वक्तव्यम् ।
Sutrartha (English)¶
When any of the उपसर्गs - वि or परा - is attached to the verb ‘जि’, it gets the प्रत्ययाः of आत्मनेपद.
Vasu English Summary¶
After the verb जि ‘to conquer’, preceded by वि or परा , the आत्मनेपद affix is employed.
Vasu English Translation¶
After the verb जि ‘to conquer’, preceded by वि or परा , the आत्मनेपद affix is employed. As विजयते ‘he conquers’, पराजयते ‘he conquers.’ The words vi and para must be upasargas (prepositions), for the application of this rule. In the following examples, they are used as substaintives बहुविजयति वनम्, पराजयति सेना ॥
Bhashya¶
विपराभ्यां जेः विपराभ्यामित्युपसर्गग्रहणम् ॥1 ॥ (विपराभ्यामिति) उपसर्गग्रहणं कर्तव्यम्। इह मा भूत् - पराजयति सेनेति। तत्तर्हि वक्तव्यम्। न वक्तव्यम् । यद्यपि तावदयं पराशब्दो दृष्टापचार उपसर्गश्चानुपसर्गश्च, अयं खलु विशब्दोऽदृष्टापचार उपसर्ग एव। तस्यास्य कोऽन्यो द्वितीयः सहायो भवितुमर्हत्यन्यदत उपसर्गात् । तद्यथा - अस्य गोर्द्वितीयेनार्थः इति गौरेवोपादीयते नाश्वो न गर्दभ इति ॥ 19 ॥
Kashika¶
शेषात् कर्तरि परस्मैपदम् (१.३.७८) इत्यस्यापवादः। विपरापूर्वाज् जयतेर्धातोरात्मनेपदं भवति। विजयते। पराजयते। विपराशब्दावुपसर्गौ गृह्येते, साहचर्यात्। तेनेह न भवति — बहुवि जयति वनम्। परा जयति सेनेति॥
Siddhanta Kaumudi¶
विजयते । पराजयते ॥
Laghu Siddhanta Kaumudi¶
विजयते। पराजयते॥
Balamanorama¶
विपराभ्यां जेः - विपराभ्यां जेः । वि परा आभ्यां परस्माज्जिधातोरात्मनेपदमित्यर्थः । विजयते इति । उत्कृष्टो भवतीत्यर्थः । पराजयते इति । निकृष्टो भवतीत्यर्थः ।
Padamanjari¶
साहचर्यादिति। द्वयोर्द्दष्टापचारत्वेऽपि परस्परसाहचर्यादित्यर्थः।’नेर्विशः’ इत्यादिप्रकरणसाहचर्याद्वा । बहुवीति। अत्रापि वे जयसि, वी जयत इत्युदाहार्यम्। परा उत्कृष्टा। अथ कथं जेरिति निर्देशः, यावता प्रकृतिवदनुकरणं भवतीति ठचि श्नुधातुऽ इत्यादिनेयङदेशेन भवितव्यम्, न च दीर्घेषु सावकाशमियण्ंó परत्वाद्’घेण्Çóति’ इति गुणो बाधत इति युक्तम्;हृस्वेष्वपि पूर्वविप्रतिषेधेन इयङ् इष्टत्वात्। तथा च’क्षियः’ इति निर्देशः? उच्यते; धातुत्वं तावदर्थाश्रयम् - क्रियावचनो धातुरिति, इह वा विवक्षितार्थं रूपमात्रमनुकृतमिति। अनुकार्यस्यापि धातुत्वं नास्ति प्रागेवानुकरणस्य॥
Nyaas¶
साहचर्यात् इति। उपसर्गग्रहणए हेतुः नेर्विशः (1.3.17) इत्यत्र नेरुपसर्गस्य ग्रहणम्। अनन्तरसूत्रेऽपि (1.3.18) पर्यादीनामुपसर्गाणामेव ग्रहणम्। अतः प्रकरणसाहचर्यादद्विपराशब्दावुपसर्गौ गृह्रेतेत - इत्येके।अपरे तु वर्णन्ति - साहचर्य पत्र्यासत्त्युपलक्षणम्। येषां साहचर्यं तेषां नियोगतः प्रत्यासत्त्या भवितव्यमिति। अतः साहचर्यस्य प्रत्यासत्त्याऽविनाभावित्वात् तेन प्रत्यासत्तिर्लभ्यते। तदेतदुक्तं भवति - प्रत्यासत्तेर्विपराशब्दावुपपसर्गौ गृह्रेते इति। प्रत्यासत्तिश्च जयतेर्विपराशब्दाभ्यामुपसर्गाभ्यामेव, नानुपसर्गाभ्याम्। तथा हि - ताभ्यामेव जयत्यर्थो जयत्यर्थो विशिष्यते,नेतरभ्यामिति॥
Prakriyasarvasvam¶
विजयते, पराजयते ।
Sudha¶
विपराभ्यां जेरिति । वि परा आभ्यां परस्मात् जिधातोरात्मनेपदमित्यर्थः । विजयते । विपूर्वकजिधातोर्लटः स्थाने विपराभ्यां जेः इति ते, शपि, गुणे, अयादेशे टेरेत्वे च तत्सिद्धिः। विजयते - उत्कृष्टो भवतीत्यर्थः । पराजयते । निकृष्टो भवतीत्यर्थः ।
Sutra Prayogas¶
विजिग्यिरे (शिशुपालवधम्): विपराभ्यां जेः इत्यात्मनेपदम्।
पराजिग्ये (शिशुपालवधम्): विपराभ्यां जेः इत्यात्मनेपदम्।
व्यजेष्ट (भट्टिकाव्यम्): वि-पराभ्यां जेः इति तङ् ॥
व्यजेष्ठा (भट्टिकाव्यम्): विपराभ्यां जेः इत्यात्मनेपदम्।
पराजयमानो (भट्टिकाव्यम्): विपराभ्यां जेः इति तङ्।
विजिग्ये (भट्टिकाव्यम्): विपराभ्यां जेः इति तङ्।
व्यजेष्ट (भट्टिकाव्यम्): वि-पराभ्यां जेः इति तङ्।
विजेष्ये (भट्टिकाव्यम्): वि- पराभ्यां जेः इति तङ्।