13018: परिव्यवेभ्यः क्रियः

Padacheda: परि-वि-अवेभ्यः | S | 5 | 3 |

क्रियः | S | 5 | 1 |

Sutrartha

‘परि’ / ‘वि’ / ‘अव’ उपसर्गेभ्यः ‘क्री’ धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

वस्तुतः क्री (द्रव्यविनिमये) अयं उभयपदी धातुः अस्ति, परन्तु परि / वि / अव - एभ्यः उपसर्गेभ्यः परः क्री-धातुः (कर्तरि क्रियायाः फलम् न भवति चेत् अपि) आत्मनेपदस्य प्रत्ययान् एव प्राप्नोति । यथा - परिक्रीणीते (प्राप्नोति / लभते ) , विक्रीणीते (धनं स्वीकृत्य वस्तु ददाति), अवक्रीणीते (उत्कोचं ददाति / भ्रष्टाचारेण धनं ददाति) ।

Sutrartha (English)

When any of the उपसर्गs - परि, वि, अव - is attached to the verb ‘क्री’, it gets the प्रत्ययाः of आत्मनेपद.

Vasu English Summary

After the verb क्री ‘to purchase’, when preceded by परि , वि or अव , the आत्मनेपद affix is employed, even when the fruit of the action does not accrue to the agent.

Vasu English Translation

After the verb क्री ‘to purchase’, when preceded by परि , वि or अव , the आत्मनेपद affix is employed, even when the fruit of the action does not accrue to the agent. The verb डुक्रीञ् ‘to buy or barter,’ has an indicatory ञ् and therefore, by sutra (1.3.72) it will be Atmanepadi when the fruit of the action accrues to the agent. The present sutra, therefore, refers to cases where the fruit of the action does not accrue to the agent.

The root क्री ‘to buy’ as a general rule takes the terminations of both padas, but when it is preceded by pari, vi, or ava, it is restricted to Atmanepada terminations. As प्ररीक्रीणीते ‘he buys’; विक्रीणीते ‘he sells’; अवक्रीणीते ‘he buys.’

The word pari, vi, and ava must be upasargas, therefore, in the following example, there is no Atmanepada termination, because the vi there is not a preposition but a noun, as, बहुविक्रीणाति वनम्.

Kashika

डुक्रीञ् द्रव्यविनिमये ञित्त्वात् कर्त्रभिप्राये क्रियाफले सिद्धमात्मनेपदम्, अकर्त्रभिप्रायार्थोऽयमारम्भः। परिव्यवेभ्य उत्तरस्मात् क्रीणातेरात्मनेपदं भवति। परिक्रीणीते। विक्रीणीते। अवक्रीणीते। पर्यादय उपसर्गा गृह्यन्ते। तेनेह न भवति — बहुवि क्रीणाति वनम्॥

Siddhanta Kaumudi

अकर्त्रभिप्रायार्थमिदम् । परिक्रीणीते - विक्रीणीते - अवक्रीणीते ॥

Laghu Siddhanta Kaumudi

परिक्रीणीते। विक्रीणीते। अवक्रीणीते॥

Balamanorama

परिव्यवेभ्यः क्रियः - परि वि अव एभ्य परस्मात् क्रीञ्दातोरात्मनेपदमित्यर्थः । ञित्त्वादात्मनेपदसिद्धेः किमर्थमिदमित्यत आह — अकत्र्रभिप्रायार्थमिति ।

Padamanjari

पर्यादय उपसर्गा गृह्यन्त इति कथं’क्रियः’ इति षष्ठी, उसर्गैरेव पर्यादिभिरर्थद्वारको विशेषणविशेष्यभावलक्षणसम्बन्धः, न च क्रियो चे उपसर्गास्तेभ्यः परं धात्वन्तरं सम्भवतीति क्रीणातेरेवात्मनेपदं भवतीति। यद्वा - पर्यादिविशेषणाय षष्ठीमनुभूयात्मनेपदसम्बन्धे’क्रियः’ इति पञ्चमी सम्पद्यते, तदाह - इत्येतेभ्य उतरस्मात् क्रीणातेरिति। बहुवीति। बहवो वयः पक्षिणोऽस्मिन्निति बहुव्रीहिः, कर्मपदं चैतत्, पक्षिवाचिनो विशब्दस्य नपुंसकत्वाभावाद् विभक्त्यास्य व्यवधानात्केवलो नोदाहृतः। ननु बहुव्रीहावपि जहत्स्वार्थायां वृतौ वेरानर्थक्यम्, अजहस्त्वार्थायामपि तदर्थस्योपसर्जनत्वमिति न भविष्यति ? एवं तर्ह्युदाहरणदिगियं दर्शिता। इद तत्रोदाहरणम्-वे क्रीणासि, अत्रैकदेशविकृतस्यानन्यत्वात्प्रसङ्गः, वी क्रीणीतः- अत्रैकादेशस्य पूर्वं प्रत्यन्तवद्भावात्प्रसङ्गः॥

Nyaas

परिक्रीणीते इति। ई हल्यघोः (6.4.113) इतीत्त्वम्। पर्यादय उपसर्गा गृह्यन्ते इति। कथम्? क्रिय इति सम्बन्धलक्षणा षष्ठी, न पञ्चमी - क्रियो ये सम्बन्धिनः पर्यादय इति। अर्थद्वारश्च तेषां सम्बन्धो विशेषणविशेष्यभावलक्षणः। स चोपसर्गैरेव पर्यादिभिः सम्भवति; नान्यैरिति सामर्थ्यादुपसर्गग्रहणं भवति। बहुवि क्रीणाति इति। बहवो वयो यस्मिन्निति बहुव्रीहिः। विशब्दोऽत्र पक्षिणि वर्तते॥

Prakriyasarvasvam

एभ्यः क्रीणातेस्तङेव । परिक्रीणीते, विक्रीणीते । अवक्रीणीते, अत्र परस्मै- पदिनां तङ्‌सिद्ध्यर्थं विधिः । उभयपदिनां तु नित्यार्थम् ।

Sudha

परिव्यवेभ्य इति । परि वि अव एभ्यः परस्मात् क्रीञ्धातोरात्मनेपदमित्यर्थः। ञित्वादात्मनेपदसिद्धेः अकर्त्रभिप्रायार्थमिदम् । परिक्रीणीते इत्यादि । परिपूर्वकक्रीञ्धातोः **वर्तमाने लट्**(3.2.123) इति लटः स्थाने **स्वरितञितः कर्त्रभिप्राये क्रियाफले**(1.3.72) इति कर्त्रभिप्राये क्रियाफले आत्मनेपदे प्राप्ते तम्बाधित्वा **परिव्यवेभ्यः क्रियः**(1.3.18) इत्यात्मनेपदे ते **क्र्यादिभ्यः श्ना**(3.1.81) इति श्ना, अनुबन्धलोपे, **ई हल्यघोः**(6.4.113) इति ईत्वे णत्वे टेरेत्वे च तत्सिद्धिः । एवं वि अवएतदुपसर्गाभ्यां परस्य क्रीञ् धातोरपि बोध्यम् ।