13019: विपराभ्यां जेः ===================== **Padacheda:** वि-पराभ्याम् | S | 5 | 2 | जेः | S | 5 | 1 | Sutrartha --------- **'वि' / 'परा' उपसर्गाभ्याम् 'जि' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।** यद्यपि जि (जये) धातुः परस्मैपदी अस्ति, तथापि वि-उपसर्गपूर्वकः परा-उपसर्गपूर्वकः जि-धातुः आत्मनेपदस्य प्रत्ययान् प्राप्नोति । यथा - विजयते (उत्कृष्टः भवति / विजयं प्राप्नोति), पराजयते (निकृष्टः भवति / पराजयं प्राप्नोति ) । ज्ञातव्यम् - 'सत्यमेव जयते' इत्यत्र 'जयते' अयं आर्षः प्रयोगः ज्ञातव्यः । 'सत्यमेव जयते नानृतम् सत्येन पन्थाः विततो देवयानः' इति मुण्डकोपनिषदि अयं प्रयोगः दृश्यते । सामान्यभाषायां तु 'सत्यमेव जयति' इत्येव वक्तव्यम् । Sutrartha (English) ------------------- When any of the उपसर्गs - वि or परा - is attached to the verb 'जि', it gets the प्रत्ययाः of आत्मनेपद. Vasu English Summary -------------------- After the verb जि 'to conquer', preceded by वि or परा , the आत्मनेपद affix is employed. Vasu English Translation ------------------------ After the verb जि 'to conquer', preceded by वि or परा , the आत्मनेपद affix is employed. As विजयते 'he conquers', पराजयते 'he conquers.' The words *vi* and *para* must be *upasargas* (prepositions), for the application of this rule. In the following examples, they are used as substaintives बहुविजयति वनम्, पराजयति सेना ॥ Bhashya ------- विपराभ्यां जेः विपराभ्यामित्युपसर्गग्रहणम् ॥1 ॥ (विपराभ्यामिति) उपसर्गग्रहणं कर्तव्यम्। इह मा भूत् - पराजयति सेनेति। तत्तर्हि वक्तव्यम्। न वक्तव्यम् । यद्यपि तावदयं पराशब्दो दृष्टापचार उपसर्गश्चानुपसर्गश्च, अयं खलु विशब्दोऽदृष्टापचार उपसर्ग एव। तस्यास्य कोऽन्यो द्वितीयः सहायो भवितुमर्हत्यन्यदत उपसर्गात् । तद्यथा - अस्य गोर्द्वितीयेनार्थः इति गौरेवोपादीयते नाश्वो न गर्दभ इति ॥ 19 ॥ Kashika ------- **शेषात् कर्तरि परस्मैपदम्** (१.३.७८) इत्यस्यापवादः। विपरापूर्वाज् जयतेर्धातोरात्मनेपदं भवति। विजयते। पराजयते। विपराशब्दावुपसर्गौ गृह्येते, साहचर्यात्। तेनेह न भवति — बहुवि जयति वनम्। परा जयति सेनेति॥ Siddhanta Kaumudi ----------------- विजयते । पराजयते ॥ Laghu Siddhanta Kaumudi ----------------------- विजयते। पराजयते॥ Balamanorama ------------ **विपराभ्यां जेः** - विपराभ्यां जेः । वि परा आभ्यां परस्माज्जिधातोरात्मनेपदमित्यर्थः । विजयते इति । उत्कृष्टो भवतीत्यर्थः । पराजयते इति । निकृष्टो भवतीत्यर्थः । Padamanjari ----------- साहचर्यादिति। द्वयोर्द्दष्टापचारत्वेऽपि परस्परसाहचर्यादित्यर्थः।'नेर्विशः' इत्यादिप्रकरणसाहचर्याद्वा । बहुवीति। अत्रापि वे जयसि, वी जयत इत्युदाहार्यम्। परा उत्कृष्टा। अथ कथं जेरिति निर्देशः, यावता प्रकृतिवदनुकरणं भवतीति ठचि श्नुधातुऽ इत्यादिनेयङदेशेन भवितव्यम्, न च दीर्घेषु सावकाशमियण्ंó परत्वाद्'घेण्Çóति' इति गुणो बाधत इति युक्तम्;हृस्वेष्वपि पूर्वविप्रतिषेधेन इयङ् इष्टत्वात्। तथा च'क्षियः' इति निर्देशः? उच्यते; धातुत्वं तावदर्थाश्रयम् - क्रियावचनो धातुरिति, इह वा विवक्षितार्थं रूपमात्रमनुकृतमिति। अनुकार्यस्यापि धातुत्वं नास्ति प्रागेवानुकरणस्य॥ Nyaas ----- `साहचर्यात्` इति। उपसर्गग्रहणए हेतुः **नेर्विशः** (1.3.17) इत्यत्र नेरुपसर्गस्य ग्रहणम्। अनन्तरसूत्रेऽपि (1.3.18) पर्यादीनामुपसर्गाणामेव ग्रहणम्। अतः प्रकरणसाहचर्यादद्विपराशब्दावुपसर्गौ गृह्रेतेत - इत्येके।अपरे तु वर्णन्ति - साहचर्य पत्र्यासत्त्युपलक्षणम्। येषां साहचर्यं तेषां नियोगतः प्रत्यासत्त्या भवितव्यमिति। अतः साहचर्यस्य प्रत्यासत्त्याऽविनाभावित्वात् तेन प्रत्यासत्तिर्लभ्यते। तदेतदुक्तं भवति - प्रत्यासत्तेर्विपराशब्दावुपपसर्गौ गृह्रेते इति। प्रत्यासत्तिश्च जयतेर्विपराशब्दाभ्यामुपसर्गाभ्यामेव, नानुपसर्गाभ्याम्। तथा हि - ताभ्यामेव जयत्यर्थो जयत्यर्थो विशिष्यते,नेतरभ्यामिति॥ Prakriyasarvasvam ----------------- विजयते, पराजयते । Sudha ----- विपराभ्यां जेरिति । वि परा आभ्यां परस्मात् जिधातोरात्मनेपदमित्यर्थः । विजयते । विपूर्वकजिधातोर्लटः स्थाने विपराभ्यां जेः इति ते, शपि, गुणे, अयादेशे टेरेत्वे च तत्सिद्धिः। विजयते - उत्कृष्टो भवतीत्यर्थः । पराजयते । निकृष्टो भवतीत्यर्थः । Sutra Prayogas -------------- * **विजिग्यिरे** (शिशुपालवधम्): `विपराभ्यां जेः` इत्यात्मनेपदम्। * **पराजिग्ये** (शिशुपालवधम्): `विपराभ्यां जेः` इत्यात्मनेपदम्। * **व्यजेष्ट** (भट्टिकाव्यम्): `वि-पराभ्यां जेः` इति तङ् ॥ * **व्यजेष्ठा** (भट्टिकाव्यम्): `विपराभ्यां जेः` इत्यात्मनेपदम्। * **पराजयमानो** (भट्टिकाव्यम्): `विपराभ्यां जेः` इति तङ्। * **विजिग्ये** (भट्टिकाव्यम्): `विपराभ्यां जेः` इति तङ्। * **व्यजेष्ट** (भट्टिकाव्यम्): `वि-पराभ्यां जेः` इति तङ्। * **विजेष्ये** (भट्टिकाव्यम्): `वि- पराभ्यां जेः` इति तङ्।