13017: नेर्विशः

Padacheda: नेः | S | 5 | 1 |

विशः | S | 5 | 1 |

Sutrartha

‘नि’ उपसर्गात् ‘विश्’ धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

यद्यपि विश् (प्रवेशने) अयं परस्मैपदी धातुः, तथापि नि-उपसर्गपूर्वकः विश्-धातुः आत्मनेपदस्य प्रत्ययान् प्राप्नोति । यथा - निविशते (इत्युक्ते, अन्तर्गच्छति / अदृश्यः भवति, आदयः) । ज्ञातव्यम् - लङ् / लृङ् / लुङ्-लकारेषु यद्यपि ‘नि + विश्’ एतयोः मध्ये अडागमस्य व्यवधानं दृश्यते, तथापि ** यदागमाः तद्गुणीभूताः तद्ग्रहणेन गृह्यन्ते ** अनया परिभाषया सः अडागमः धात्ववयवः एव मन्यते, अतः तत्रापि आत्मनेपदमेव भवति । यथा - न्यविशत ।

Sutrartha (English)

When the उपसर्ग ‘नि’ is attached to the verb ‘विश्’, it gets the प्रत्ययाः of आत्मनेपद.

Vasu English Summary

After the verb विश् ‘to enter’, when preceded by the preposition नि, the आत्मनेपद affixes are employed

Vasu English Translation

After the verb विश् ‘to enter’, when preceded by the preposition नि, the आत्मनेपद affixes are employed As विशति ‘he enters, but निविशते ‘he enters in.’

Even when the augment अट् of the imperfect, Aorist and Conditional tenses intervenes between the root and the preposition, terminations are of the atmanepada. As न्यविशत ‘he entered in.’

The नि of the sutra must be an upasarga, because that has a sense, and not any नि. On this there is this paribhasha:-अर्थवद्ग्रहणेनानर्थकस्य “a combination of letters capable of expressing a meaning denotes, whenever it is employed in grammar that combination of letters in so far as it possesses that meaning, but it does not denote the same combination of letters void of a meaning.” Thus in मधुनि विशन्ति भ्रमराः ‘the beetles enter the honey flowers.” Here the नि is a part of the word मधुनि and has no sense by itself, and therefore the verb is in the Parasmaipada and not in the Atmanepada.

Kashika

शेषात् कर्तरि० (१.३.७८) इति परस्मैपदे प्राप्ते निपूर्वाद् विश आत्मनेपदं विधीयते। नेःपरस्माद् विश आत्मनेपदं भवति। निविशते। निविशन्ते। नेरिति किम्? प्रविशति। यदागमास्तद्ग्रहणेन गृह्यन्ते, तेनाटा नास्ति व्यवधानम्। न्यविशत। नेरुपसर्गस्य ग्रहणम् अर्थवद्ग्रहणे नानर्थकस्य इति। तस्मादिह न भवति — मधुनि विशन्ति भ्रमराः॥

Siddhanta Kaumudi

निविशते ॥

Laghu Siddhanta Kaumudi

निविशते॥

Balamanorama

नेर्विशः - नेर्विशः । निपूर्वाद्विश आत्मनेपदं स्यादित्यर्थः । नेति निवृत्तम् । यद्यपि न्यविशतेत्यत्र न विशिर्नेः परः, अटा व्यवधानात्टो विकरणान्ताङ्गभक्तत्वेन विशधात्ववयवत्वऽभावात्, तथापिअड्व्यवाये उपसङ्ख्यान॑मिति वार्तिकाद्भवतीति ‘शदेः शितः’ इत्यत्र भाष्ये स्पष्टम् ।

Tattvabodhini

नेर्विशः - नेर्विशः । नेः किम् । प्रविशति । अर्थवद्ग्रहणलक्षणप्रतिपदोक्तपरिभाषाभ्यां नेरुपसर्गस्य ग्रहणम् । तेनेह न — मधूनि विशन्ति भ्रमराः॑ ।इत्युक्त्वा मैथिली भर्तुरङ्के निविशी भया॑ दित्यत्र तुअङ्गानि विशती॑ति पाठम् । न च पदसंस्कारपक्षे त्वङ्के नि विशतीति पाठेऽप्यदोष इति वाच्यं, त्वं करोति भवान् करोषीत्यादिप्रयोगस्यापि त्वदुक्तरीत्या साधुत्वापत्तेः,वा लिप्साया॑मित्यदेर्वैयथ्र्यापत्तेश्च । स्यादेतत् — नवाऽम्बुदश्यामतनुन्र्यविक्षते॑ त्यत्रात्मनेपदं न स्यात्, अटा व्यवधानात् । न च स्वाङ्गमव्यवधायकमिति वाच्यम्ङ्गभक्तस्याऽटो विकरणविशिष्टस्याऽवयवत्वेऽपि धातोरनवयवत्वादिति चेत् । अत्राहुः — लावस्थायामडागम॑इति भाष्यमते न कश्चिद्दोषः । मतान्तरे तु उपसर्गनियमेअड्व्यवाये उपसङ्ख्यान॑मिति वार्तिकमस्तीति [दिक्] ।

Padamanjari

शेषात्कर्तरि परस्मैपदे प्राप्ते इति। अनारम्भस्यापि शेषपक्षे निक्षेपात्। आत्मनेपदं विधीयत इति। यद्यपि तिबादिसूत्रापेक्षया सर्वस्यैव प्रकरणस्य नियमार्थत्वम्, ठनुदातङ्ति आत्मनेपदम्ऽठ्भावकर्मणोःऽ इति सूत्रद्वयायेक्षया तु विध्यर्थत्वमपि सम्भवतीति मत्वैवमुक्तम्। एवं सर्वत्र द्रष्टव्यम्। न्यविशतेत्यत्र लङ् इनिविश् ल् इति स्थिते लादेशो लकारमात्रापेक्षत्वाद् अन्तरङ्गः, अडागमस्तु लुङदिविशेषापेक्षत्वाद्बहिरङ्ग इति पूर्वं लादेशे विकरणश्च प्राप्नोति अडागमश्च, नित्यत्वाद्विकरणः। अडागमो हि विकरणे कृते तदन्तमेव लङ् पिरतोऽङ्गम् तदादिग्रहणस्य स्यादिनुमर्थत्वादिति तस्यैव प्राप्नोति, अकृते विकरणे धातुमात्रस्योति शब्दान्तरप्राप्तेरनित्यः;ततश्च विकरणान्तस्य विधीयमानोऽडागमो धातुमात्रं प्रत्यभक्त इति नेश्च धातोश्च व्यवधायक इत्यात्मनेपदं न प्राप्नोतीत्यत आह-यदागमा इत्यदि। एवं मन्यते-बाह्यएपसर्गसम्बन्धापेक्षत्वादयं विधिर्बहिरङ्गः, अस्मिंश्चाप्रवृते लादेशोऽप्यप्रवृत एव, अपवादविषयपरिहारेण हि तेन प्रवर्तितवयम्। अनिर्वृतश्च लादेशो विकरणोत्पतौ न निमितम्, तेन लावस्थायामेवाड् भवन् धातुमात्रस्यैव भवति, ततश्च तदवयवत्वान्न तस्यैव वयवधायक इति । कथं तर्ह्युक्तम् - व्यवधानेऽपि भवतीति? श्रुतिमात्रापेक्षया। क्वचितु-अटा नास्ति व्यवधानमित्येव पाठः। मधुनि विशन्तीति अङ्गभक्तो नुम् णेóरनवयव इति निशब्दस्यानर्थक्यम्। क्वचितु मधूनि निविशन्ति भ्रमरा इति शसन्तं पठ।ल्ते॥

Nyaas

निविशते इति। विश प्रवेशने (1424) तुदादित्वाच्छः।न्यविशत इति। अडागमेन व्यवधानमित्यात्मनेपदेन न भविव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह - {यदागमास्तद्ग्रहणेन इति - काशिका।पदमञ्जरी च। अडागमः` इत्यादि। मधुनि विशन्ति इति। अत्र नेः परस्य विशतेरात्मनेपदं प्राप्नोति, तत्कस्मान्न भवतीत्याह - नेरुपसर्गस्य इत्यादि। मधुशब्दस्य सप्तमेयकवचने इकोऽचि विभक्तौ (7.1.73) इति नुमि मधुनीति रूपं भवति, तस्य चावयवो निशब्दोऽनर्थकः॥

Prakriyasarvasvam

नेरुपसर्गात् परस्य विशेस्तङ् स्यात् । निविशते । ‘अङ्के निविशतीं भिया’ इत्युपसर्गप्रतिरूपनिपातान्तरस्यैव योगादतङ् इति माधवः ।

Sudha

नेविंशः । निपूर्वाद्विशः आत्मनेपदं स्यादित्यर्थः । निविशते । निपूर्वात् विश्धातोर्लट: स्थाने **नेर्विशः**(1.3.17) इति ते, शपि, अनुबन्धलोपे च तत्सिद्धिः।

Sutra Prayogas

  • न्यविक्षत (शिशुपालवधम्): नेर्विशः इति निपूर्वकाद्विशेरात्मनेपदम्।

  • न्यविक्षत (भट्टिकाव्यम्): नेर्विशः इति तङ्।

  • न्यविशत (भट्टिकाव्यम्): नेर्विशः इति तङ्।

  • न्यविक्षत (भट्टिकाव्यम्): नेर्विशः इत्यात्मनेपदम्।

  • अभिन्यविक्षथास्त्वं (भट्टिकाव्यम्): नेर्विशः इति तङ्।