13016: इतरेतरान्योन्योपपदाच्च¶
Padacheda: इतरेतर-अन्योन्य-उपपदात् | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘इतरेतर’ उत ‘अन्योन्य’ इत्यस्य उपस्थितौ, क्रियायाः व्यतिहारे कर्तरि प्रयोगे, धातोः आत्मनेपदस्य प्रत्ययाः न विधीयन्ते ।
कर्तरि कर्मव्यतिहारे (1.3.14) इत्यनेन क्रियायाः व्यतिहारे कर्तरि प्रयोगे यद् आत्मनेपदमुक्तमस्ति, तत् ‘इतरेतर’ तथा ‘अन्योन्य’ एतयोः पदयोः उपस्थितौ न भवति । यथा - इतरेतरस्य सस्यं व्यतिलूनन्ति (छिन्दन्ति इत्यर्थः) - अत्र यद्यपि व्यतिहारः (=परस्परयोः समानः व्यवहारः) अस्ति, तथापि ‘इतरेतर’ पदस्य साक्षात् प्रयोगः कृतः अस्ति, अतः कर्तरि कर्मव्यतिहारे (1.3.14) इत्यनेन निर्दिष्टमात्मनेपदम् न भवति । तथैव - अन्योन्यस्य व्यतिलूनन्ति । वार्त्तिकम् - <!परस्परोपपदाच्चेति वक्तव्यम् !> - ‘परस्पर’ शब्दस्य उपस्थितौ अपि एवमेव भवति इत्यर्थः । यथा - परस्परस्य सस्यं व्यतिलूनन्ति ।
Sutrartha (English)¶
A verb does not get the प्रत्ययाः of आत्मनेपद in the कर्तरि प्रयोग, in the context of व्यतिहार (exchange of actions) when either of the words ‘इतरेतर’ or ‘अन्योन्य’ is used to describe the situation.
Vasu English Summary¶
And after the verbs which take the words इतरेतर ‘each other’ and अन्योन्य ‘one another’, as उपपद (or dependant qualifying words), the affixes of आत्मनेपद are not used, though reciprocity of action be denoted.
Vasu English Translation¶
And after the verbs which take the words इतरेतर ‘each other’ and अन्योन्य ‘one another’, as उपपद (or dependant qualifying words), the affixes of आत्मनेपद are not used, though reciprocity of action be denoted. Thus इतरेतरस्य व्यति लुनन्ति ‘they cut each other’ अन्योन्यस्य व्यतिलुनन्ति ‘they cut one another.’
Vart:- This rule must also be applied when the word परस्पर is in composition with the verb, as an upapada. As परस्परस्य व्यतिलुनन्ति.
Bhashya¶
इतरेतरान्योन्योपपदाच्च परस्परोपपदाच्च ॥ 1 ॥ परस्परोपपदाच्चेति वक्तव्यम्। परस्परस्य व्यतिलुनन्ति। परस्परस्य व्यतिपुनन्ति ॥ 16 ॥
Kashika¶
इतरेतरोऽन्योन्य इत्येवमुपपदाद् धातोः कर्मव्यतिहार आत्मनेपदं न भवति। इतरेतरस्य व्यतिलुनन्ति। अन्योऽन्यस्य व्यतिलुनन्ति॥ परस्परोपपदाच्चेति वक्तव्यम्॥ परस्परस्य व्यतिलुनन्ति॥
Siddhanta Kaumudi¶
।<!परस्परोपपदाच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिलुनन्ति ॥
Balamanorama¶
इतरेतरान्योन्योपपदाच्च - इतरेतर.॒नात्मनेपद॑मिति शेषः ।
Tattvabodhini¶
इतरेतरान्योन्योपपदाच्च - इतरेतरा । नन्वितरेतरादिशब्दैरेव कर्मव्यतिहारस्य द्योतितत्वात्तद्द्योतकमात्मनेपदं न प्राप्नोतीतित किमर्थो निषेधः । अत्राहुः लौकिके व्यवहारे लाघवाऽनादरादात्मनेपदं प्रसज्येतेति निषेधोऽयमारभ्यते । अत एव व्यतिलुनीते इत्यादौ कर्मव्यतिहारद्योतनायव्यती॑ त्युपसर्गावात्मनेपदं च समुञ्चित्य प्रयुज्यत इति ।
Padamanjari¶
उपोच्चारितं पदमुपदम्, न पारिभाषिकम्;असम्वाद्। असत्युपपदग्रहणे पञ्चमीतिर्देअशे परस्यैवानन्तरस्य स्यात्;’तस्मादित्युतरस्य’ इति वचनात्। सप्तमीनिर्देशे तु’तस्मिन्निति निर्दिष्टे पूर्वस्य’ इति पूर्वस्यैवानन्तरस्य स्यात्। तत्र यद्यपि लकारोऽनन्तरः परो न सम्भवति, धातुस्तु सम्भवति;पूर्वस्तु धातुरनन्तरो न सम्भवति, लकारस्तु संभवति। तृतीयानिर्देशस्तु पञ्चमीसाधारणत्वादनध्यवसान इत्युपपदग्रहणं क्रियते। इतरेतरस्यत्यादि। लौकिके तु शब्दव्यवहारे लाघवं प्रत्युनादराद् इतरेतरादिशब्दस्तङ् उपसर्गाश्च कर्मव्यतीहारद्योतनाय समुच्चीयन्ते । कर्मव्यतीहारे’सर्वनाम्नो द्वे भवतस्समासवच्च बहुलम्’ यदा न समासवत् प्रथमैकवचनं तदा पूर्वपदस्येति षष्ठ।लेकवचनान्तस्येतरशब्दस्य द्विर्वचने समासवद्भावेन सुब्लुकि समासत्वादेव प्रातिपदिकत्वात् पुनः षष्ठ।लेकवचनम्। अन्यशब्दस्य तु बहुलग्रहणादसमासवद्भावे पूर्वपदस्थस्य षष्ठ।लेकवचनस्य प्रथमैकवचनम्। एवं परस्परस्येत्यत्रापि सूत्रवाक्ययोः प्रकृतिभागमात्रस्यानुकरणं द्रष्टव्यम्॥
Nyaas¶
उपोच्चारितं पदमुपपदम्। इतरेतरान्योऽन्यशब्दावुपपदे यस्य स तथोक्तः। अथोपपदग्रहणं किमर्थम्, नेतरेतरान्योऽन्याभ्याम् इत्युच्यताम्? अशक्यमेवं वक्तुम्; एवं ह्रुच्यमाने पञ्चमीनिर्देशात् तस्मादित्युत्तरस्य (1.1.67) इत्युत्तरस्यैव स्यात् - इतरेतरस्य व्यतिलुनन्तीति, इह तु न स्यात् - व्यतिलुनन्तीतरेतरस्येति।परस्परोपपदाच्चेति वक्तव्यम् इति। परस्परशब्द उपपदं यस्य तस्मात् प्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्- चकारोऽत्र क्रियते। स चानुक्तसमच्चयार्थः। तेन परस्परोपपदादपि प्रतिषेधो भविष्यतीति।
Prakriyasarvasvam¶
आभ्यां योगे क्रियाविनिमयोक्तस्तङ् न ।<!परस्पराच्च नेति वाच्यम्!> (वा०) । इतरेतरमन्योन्यं परस्परं वा व्यतिलुनन्ति ।
Vartika¶
परस्परोपपदाच्चेति वक्तव्यम् ।
Sutra Prayogas¶
व्यतियुतः (भट्टिकाव्यम्): इतरेतर इत्यादिना कर्मव्यतिहारे आत्मनेपदप्रतिषेधः।