13011: स्वरितेनाधिकारः

Padacheda: स्वरितेन | S | 3 | 1 |

अधिकारः | S | 1 | 1 |

Sutrartha

अस्मिन् सूत्रपाठे अनुवृत्तेः निर्देशः स्वरितस्वरेण कृतः अस्ति ।

अष्टाध्याय्याः उच्चारणे येषां शब्दानां स्वरित-स्वरेण उच्चारणं क्रियते, ते शब्दाः अग्रिमसूत्रेषु अनुवृत्तिरूपेण स्वीकर्तुं शक्यन्ते — इति अस्य सूत्रस्य अर्थः ।

सूत्रसम्बन्धिनः केचन बिन्दवः

  1. प्रकृतसूत्रे उपयुक्तः “अधिकारः” इति शब्दः “अधिकारसूत्रम्” अस्मिन् अर्थे प्रयुक्तः नास्ति, अपि तु “उत्तरसूत्रेषु उपस्थापनम्” (a governing word that can be carried in the further sutras) इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । अधिकारसूत्रेषु विद्यमानाः शब्दाः अपि एतादृशम् अग्रिमसूत्रेषु अवश्यं स्वीक्रियन्ते, अतः तेषाम् निर्देशः अपि स्वरितस्वरेण अवश्यम् कृतः स्यात् । परन्तु ये शब्दाः अधिकारसूत्रस्थाः न सन्ति, तेषाम् विषये अपि अनुवृत्तेः निर्देशः स्वरितस्वरस्य साहाय्येन एव कृतः वर्तते — इति अस्य सूत्रस्य आशयः ।

  2. सूत्राणाम् उच्चारणे प्रयुक्तानाम् उदात्त-अनुदात्त-स्वरित-स्वराणाम् ज्ञानम् अद्यतनकाले सम्पूर्णरूपेण लुप्तम् अस्ति । अतः प्रकृतसूत्रस्य उदाहरणरूपेण कोऽपि शब्दः स्पष्टरूपेण दातुं नैव शक्यते । अद्यतनकाले अनुवृत्तेः ज्ञानम् व्याख्यानाद् एव सम्भवति । इत्युक्ते, अङ्गस्य, धातोः, ङ्याप्प्रातिपदिकात् इत्येते ये शब्दाः अग्रिमसूत्रेषु अनुवर्तन्ते, तेषाम् पाणिनिना कृते उच्चारणे स्वरितः स्वरः अवश्यं स्यात् — इत्येव प्रतिपादनम् इदानीम् शक्यम् ।

  3. ‘अनुवृत्तेः समापनम् कुत्र भवति’ अस्मिन् विषये केचन बिन्दवः प्रकृतसूत्रस्य भाष्ये उक्ताः सन्ति, परन्तु सामान्यरूपेण अस्य ज्ञानम् अपि व्याख्यानादेव सम्भवति, इति तत्र निष्कर्षः । अस्मिन् सन्दर्भे अधिकं पिपठिषवः प्रकृतसूत्रस्य भाष्यम् एव पश्येयुः ।

Sutrartha (English)

In this सूत्रपाठ, a स्वरित स्वर is used to denote अनुवृत्तिs.

Vasu English Summary

In these aphorisms, when a word is marked with a स्वरित accent, by that an अधिकार or a governing rule is to be understood.

Vasu English Translation

In these aphorisms, when a word is marked with a स्वरित accent, by that an अधिकार or a governing rule is to be understood. When in this collection of grammatical sutras, there is any sutra that has a circumflex accent, it denotes that it is either the beginning of a subject and the subsequent sutras are governed by it, or that it ends a subject and separates the previous sutras from the following.

As a rule, the sutras are not marked with accents; it is therefore from commentaries that one has to learn whether a sutra has a svarita or not. Thus the following sutras must evidently have svarita as they are governing sutras; प्रत्ययः (III.I.1.) धातोः (3.1.91), अङ्गस्य (6.4.1), भस्य (6.4.129).

Bhashya

स्वरितेनाधिकारः किमर्थमिदमुच्यते ?। अधिकारः प्रतियोगं तस्यानिर्देशार्थः ॥ 1 ॥ अधिकारः क्रियते - प्रतियोगं तस्यानिर्देशार्थ इति । किमिदं प्रतियोगमिति ?। योगं योगं प्रति प्रतियोगम् । योगे योगे तस्य ग्रहणं मा कार्षमिति । किं गतमेतदियता सूत्रेण ?। गतमित्याह । कुतः ?। लोकतः। तद्यथा लोके - अधिकृतोऽसौ ग्रामे अधिकृतोऽसौ नगरे इत्युच्यते यो यत्र व्यापारं गच्छति । शब्देन चाप्यधिकृतेन कोन्यो व्यापारः शक्योवगन्तुमन्यदतो योगे योग उपस्थानात् । न वा निर्दिश्यमानाधिकृतत्वाद्यथा लोके ॥ 2 ॥ न वा एतत्प्रयोजनमस्ति । किं कारणम् ?। निर्दिश्यमानाधिकृतत्वात्। यथा लोके । निर्दिश्यमानमधिकृतं गम्यते । तद्यथा - देवदत्ताय गौर्दीयतां यज्ञदत्ताय विष्णुमित्राय इति । गौरिति गम्यते । एवमिहापि पदरुजविशस्पृशो घञ्ञ् (3.3.16) सृ स्थिरे (17) भावे (18) घञ्ञिति गम्यते । अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषा ॥ 3 ॥ अन्यनिर्देशस्तु लोके निवर्तको भवति । तद्यथा - देवदत्ताय गौर्दीयताम् विष्णुमित्राय कम्बलः इति कम्बलो गोर्निवर्त्तको भवति । एवमिहापि अभिविधौ भाव इनुण् (3.3.44) घञ्ञो निवर्तकः स्यात् । तस्मात् परिभाषा कर्तव्या । अधिकारपरिमाणाज्ञानं तु ॥ 4 ॥ अधिकारपरिमाणाज्ञानं तु भवति । न ज्ञायते कियन्तमवधिमधिकारोनुवर्तत इति । अधिकारपरिमाणज्ञानार्थं तु ॥5 ॥ अधिकारपरिमाणज्ञानार्थमेव तर्ह्ययं योगो वक्तव्यः । अधिकारपरिमाणं ज्ञास्यामीति । कथं पुनः - स्वरितेनाधिकार इत्येनेनाधिकारपरिमाणं शक्यं विज्ञातुम् ?। एवं वक्ष्यामि - स्वरिते नाधिकारः इति । स्वरितं दृष्ट्वाधिकारो न भवतीति । केनेदानीमधिकारो भविष्यति ?। लौकिकोधिकारः । नाधिकार इति चेदुक्तम् ॥ 6 ॥ किमुक्तम् ? अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषेति । अधिकारार्थमेव तर्ह्ययं योगो वक्तव्यः । ननु चोक्तम् - अधिकारपरिमाणाज्ञानं तु इति । यावतिथोऽलनुबन्धस्तावतो योगानिति वचनात्सिद्धम् ॥ 7 ॥ यावतिथोऽलनुबध्यते तावतो योगानधिकारोनुवर्त्तत इति वक्तव्यम् । अथेदानीं यत्राल्पीयांसोऽलः भूयसश्च योगानधिकारोनुवर्तते, कथं तत्र कर्तव्यम् ?। भूयसि प्राग्वचनम् ॥ 8 ॥ भूयसि प्राग्वचनं कर्तव्यम् । प्रागमुत इति वक्तव्यम् ॥ तत्तर्हि वक्तव्यम् । न वक्तव्यम् । सन्देहमात्रमेतद्भवति, सर्वसन्देहेषु चेदमुपतिष्ठते - व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम् इति प्रागमुत इति व्याख्यास्यामः । यद्येवं नार्थोनेन । केनेदानीमधिकारो भविष्यति ?। लौकिकोधिकारः । ननु चोक्तं - ।नाधिकार इति चेदुक्तम्। । किमुक्तम् ?। ।अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषा।इति। सन्देहमात्रमेतद्भवति । सर्वसन्देहेषु चेदमुपतिष्ठते व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणःइत्युक्तम् । इनुण्घञ्ञिति सन्देहे घञ्ञिति व्याख्यास्यामः । न तर्हीदानीमयं योगो वक्तव्यः ?। वक्तव्यश्च । किं प्रयोजनम् ?। स्वरितेनाधिकारगतिर्यथा विज्ञायेत अधिकं कार्यम् । अधिकः कारः । अधिकारगतिः - गोस्त्रियोरुपसर्जनस्य (1.2.48) इत्यत्र गोटाङ्ग्रहणं चोदितं तन्न कर्तव्यं भवति । स्त्रीग्रहणं स्वरयिष्यते । स्वरितेनाधिकारगतिर्भविष्यतीति स्त्रियाम् (4.1.3) इत्येवं प्रकृत्य ये प्रत्यया विहितास्तेषां ग्रहणं विज्ञास्यते । तत्र स्वरितेनाधिकारगतिर्भवतीति न दोषो भवति । (अधिकारगतिः) अधिकं कार्यम् - अपादानमाचार्यः किं न्याय्यं मन्यते?। यत्र प्राप्य निवृत्तिः । तेनेहैव स्यात् - ग्रामादागच्छति नगरादागच्छति । सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इत्यत्र न स्यात् । स्वरितेनाधिकं कार्यं भवतीत्यत्रापि सिद्धं भवति । तथा - अधिकरणमाचार्यः किं न्याय्यं मन्यते?। यत्र कृत्स्न आधारात्मा व्याप्तो भवति । तेनेहैव स्यात् - तिलेषु तैलम्, दध्नि सर्पिरिति । गङ्गायां गावः, कूपे गर्गकुलमित्यत्र न स्यात् । स्वरितेनाधिकं कार्यं भवतीत्यत्रापि सिद्धं भवति । अधिकं कार्यम् । अधिकः कारः - पूर्वविप्रतिषेधाश्च न पठितव्या भवन्ति - ।गुणवृद्ध्यौत्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रतिसिद्धम्। नुमचिरतृज्वद्भावेभ्यो नुट्।इति । नुम्नुटौ स्वरयिष्येते । तत्र स्वरितेनाधिकः कारो भवतीति नुम्नुटौ भविष्यतः । कथं पुनरधिकः कार इत्यनेन पूर्वविप्रतिषेधाः शक्या न पठितुम् ?। लोकतः । तद्यथा - लोकेऽधिकमयं कारं करोतीत्युच्यते योयं दुर्बलः सन्बलवदि्भः सह भारं वहति । एवमिहाप्यधिकमयं कारं करोतीत्युच्यते योयं पूर्वः सन्परं बाधते । अधिकारगतिस्त्र्यर्था विशेषायाधिकं कार्यम् । अथ योन्योऽधिकः कारः पूर्वविप्रतिषेधार्थः सः ॥11 ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्य तृतीयपादे प्रथमाह्निकम् ॥

Kashika

स्वरितेनेतीत्थंभूतलक्षणे (२.३.२१) तृतीया। स्वरितो नाम स्वरदोषो वर्णधर्मः। तेन चिह्नेनाधिकारो वेदितव्यः। अधिकारो विनियोगः। स्वरितगुणयुक्तं ंशब्दरूपमधिकृतत्वादुत्तरत्रोपतिष्ठते। प्रतिज्ञास्वरिताः पाणिनीयाः (व्या०प० १२२)। प्रत्ययः (३.१.१)। धातोः (३.१.९१)। ङ्यप्प्रातिपदिकात् (४.१.१)। ‘अङ्गस्य (६.४.१)। भस्य (६.४.१२९)। पदस्य (८.१.१६)॥

Siddhanta Kaumudi

स्वरितत्वयुक्तं शब्दस्वरुपमधिकृतं बोध्यम् ॥ [(परिभाषा - ) परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः] ॥ [(परिभाषा - ) असिद्धं बहिरङ्गमन्तरङ्गे] ॥ [(परिभाषा - ) अकृतव्यूहाः पाणिनीयाः] ॥ निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः ॥

Laghu Shabdendushekhar

स्वरितेनाधिकारः (1.3.11) । इत्थम्भूतलक्षणे तृतीया । स्वरितत्वज्ञाप्योऽधिकारो विनियोग इत्यर्थः । स्वरितत्वञ्चेदं दोषविशेषरूपमज्झल्साधारणं स्व रूपमधिक्रियमाणपदघटकाज्निष्ठं वा । तच्चानुनासिक्यवत्प्रतिज्ञागम्यम् । विनियोगश्च प्रायेणोत्तरत्रोपस्थितिः, क्वचित्पूर्वत्रापि । कियद् दूरमधिकार इत्यत्रासति गमके व्याख्यानमेव शरणम् ।

किञ्च स्वरितेनाधिकारगतिः । तेन गोस्त्रियो (1.2.48) इत्यादौ ख्यधिकारस्थप्रत्ययग्रहणमित्याद्याकरादवसेयम् एतेन - व्याख्यानादेव निवृत्तिवदनुवृत्तिरपि भविष्यति, आकाङ्क्षायान्तु सत्यामश्रुतकल्पनाया अन्या व्यत्वाच्छ्रुतापेक्षणस्य न्याय्यत्वाच्च किं सूत्रेण इत्यपास्तम् । स्पष्टं चेदं भाष्ये ।

परनित्येति । परं विप्रतिषेधसूत्राद् बलवत् । नित्यं कृताकृतप्रसङ्गि, तद्विपरीत मनित्यम् । तत्राक्लृप्ताभावकस्या भावकल्पनापेक्षया क्लृप्ताभावकस्यैव तत्कल्पनं युक्तमिति तस्य बलवत्त्वे बीजम् । अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्येऽन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम् । तदीयनिमित्तसमुदायाद्बहिर्भूताङ्गकं बहिरङ्गम् । तस्य बलवत्त्वे बीजमाह असिद्धमिति । इयञ्च वाह ऊठ् (6.2.132) इति सूत्रेण ज्ञापिता । यद्यपि प्रत्यङ्गवर्त्ती लोको दृश्यते । मनुष्योऽयं प्रातरुत्थाय प्रथमं शरीर कार्याणि करोति, ततः सुहृदां, ततः सम्बन्धिनाम् इति न्यायमूलकत्वमस्या अचः परस्मिन्.. (1.1.57) इति भाष्ये उक्तं, तथापि तेन न्यायेन युगपत्प्राप्तिविषयतैव स्यात् । ज्ञापकेन तु सर्वविषयता बोध्यते इति वाह ऊठ् (6.2.132) इति सूत्रे कैयटे स्पष्टम्। अन्यथा वाहः सम्प्रसारणे पूर्वरूपे च कृते प्रयाश्रये गुणे वृद्धिरेचि (6.9.88) इति वृद्धौ “प्रष्ठौह” इत्यादिसिद्धावूठ्विधानं व्यर्थं स्यात् । नाजानन्तर्यपरिभाषा तु नास्त्येवेति “न अयजे इन्द्रम्” इत्यादौ दोष इति परिभाषेन्दुशेखरे विस्तरः । अपवादस्तु वचनप्रामाण्याद् बलवान् । अकृतेति । न कृतो विशिष्ट ऊहस्तकों निमित्तविनाशेऽपि कार्यस्थितिरूपः, यथा दण्डविनाशेऽपि घटस्थितिः, स यैस्ते इत्यर्थस्तदाह - ** निमित्तमित्यादि ** । तत्प्रयुक्तं कार्यजातमपि न कुर्वन्ति नोच्चारयन्तीत्यर्थ इति कैयटादयः । अन्ये तु - व्यूहोऽन्तरङ्गशास्त्रं बहिरङ्गापोहनरूपत्वात् तन्निमित्तविनाशं दृष्ट्वा पूर्वमपि न कुर्वन्ति इत्यर्थ इत्याहुः । इयं परिभाषा निष्फला निर्मूलेति परिभाषेन्दुशेखरे निरूपितम् । इति परिभाषाप्रकरणम् ।

Balamanorama

स्वरितेनाधिकारः - स्वरितेनाधिकारः । अधिकारः=व्यापृतिः । यथा लोकेअधिकृतो ग्रामेऽसा॑विति व्यापृत इति गम्यते । शब्दस्य च उत्तरसूत्रेष्वनुवृत्तिरेव व्यापृतिः । स्वरितेन=स्वरविशेषेण अधिकार उत्तरत्रानुवृत्तिरूपव्यापारः प्रत्येतव्यः । यत् पदं शास्त्रकृता स्वरिताख्यस्वरविशेषविशिष्टमुच्चारितं तदुत्तरसूत्रेष्वनुवर्तनीयमिति यावत् । फलितमाह — स्वरितत्वयुक्तमित्यादिना । आनुनासिक्यवत्सव्रितोच्चारणमपि प्रतिज्ञागम्यम् । अनुवृत्तावुत्तरावधिस्तु व्याख्यानादेवावगन्तव्यः । यद्यपि निवृत्तिवदनुवृत्तिरपि व्याख्यानादेव भविष्यतीति किं सूत्रेण, तथापि भाष्ये एतत्प्रयोजनं बहुधा प्रपञ्चितम् ।परनित्येति । परादीनां मध्ये पूर्वपूर्वापेक्षया उत्तरमुत्तरं शास्त्रं बलवत्तपरमित्यर्थः ।उत्तरोत्तर॑मित्यत्रआनुपूर्व्ये द्वे वाच्ये॑ इति द्वित्वम् ।कर्मधारयवदुत्तरेषु॑ इति कर्मधारयवद्भावात्सुपो लुक् । बलवच्छब्दात्द्विवचनविभज्योपपदे तरबीयसुनौ ॑ इति ईयसुन् ।विन्मतोर्लु॑गिति मतुपो लुक् । परापेक्षया नित्यान्तरङ्गापवादाः, नित्यापेक्षयाऽपि अन्तरङ्गापवादौ, अन्तरङ्गापेक्षयापि अपवाद इत्येवं क्रमेण पूर्वपूर्वापेक्षया उत्तरोत्तरबलवत्त्वमिति फलितोऽर्थः । परं विप्रतिषेधसूत्रात् बलवत् । परान्नित्यं यथा — तुदति । अत्र ‘तुदादिभ्यः शः’ इति शप्रत्ययं बाधित्वा परत्वाल्लधूपधगुणः प्राप्तः, स च शप्रत्यये प्रवृत्ते सति न प्रवृत्तिमर्हति । शप्रत्ययस्तु कृतेऽकृतेऽपि लघूपधगुणे प्रवृत्तिमर्हतीति स नित्यः ।कृताकृतप्रसङ्गी यो विधिः स नित्य॑ इति हि तल्लक्षणम् । अतो नित्यः शप्रत्ययो लघूपधगुणं बाधित्वा प्रथमं प्रवर्तते । ततः ‘सार्वधातुकमपित्’ इति शस्य ङित्त्वात् ‘क्ङिति च ‘ इति निषेधान्न गुणः । अकॢप्ताऽभावकस्य नित्यशास्त्रस्याऽभावकल्पनापेक्षया कॢप्ताऽभावकस्याऽनित्यशास्त्रस्यैव तत्कल्पनं युज्यत इति नित्यस्य बलवत्त्वे बीजम् । परादन्तरङ्गं यथा — उभये देवमनुष्याः । अत्रप्रथमचरमे॑ति परमपि विकल्पं बाधित्वासर्वादीनी॑ति नित्यैव सर्वनामसंज्ञा भवति, तस्या विभक्तिनिरपेक्षत्वेनारङ्गत्वात् । अल्पापेक्षमन्तरङ्गमिति हि तल्लक्षणम् । तस्य बलवत्त्वे बीजमाह — असिद्धं बहिरङ्गमन्तरङ्गे । अन्तरङ्गशास्त्रे प्रसक्ते बहिरङ्गशास्त्रमविद्यमानं प्रत्येतव्यमित्यर्थः । इयं तु परिभाषावाहौउठ्सूत्रे भाष्ये स्थिता । परादपवादो यथा — दध्ना । अस्थिदधीत्यनङ् । इह परमप्यनेकालिति सर्वादेशं बाधित्वाङिच्चे॑त्यन्तादेशः, तस्य येन नाप्राप्तिन्यायेन तदपवादत्वात् । अपवादस्य बलवत्त्वे बीजं । त्वनुपदमेवोक्तम् । नित्यादन्तरङ्गं यथा — ग्रामणिनि कुले इह । नित्यमपीकोऽचीति नुमं बाधित्वा ‘ह्रस्वो नपुंसके’ इति ह्रस्वः । प्रथमतः कृते नुम्यनजन्तत्वाध्यस्वो न स्यात् । अन्तरङ्गादपवादो यथा — दैत्यारिः । श्रीशः । परमपि सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणे यणि च प्राप्तेऽपवादत्वात्सवर्णदीर्घः ।अकृतव्यूहाः पाणिनीयाः । न कृतः अकृतः, व्यूह=प्रकृतिप्रत्ययविवेचनं यैस्तेऽकृतव्यूहाः पाणिनीयाः=पाणिनिशिष्या इत्यक्षरार्थः । तर्हि सर्वस्य शास्त्रस्य वैयथ्र्यमित्यतोऽध्याह्मत्य व्याचष्टे-निमित्तमित्यादिना । ‘सेदुष’ इत्याद्युदाहरणम् । तच्च शब्दाधिकारेसेदिवस्शब्दनिरूपणावसरे मूल एव स्पष्टीभविष्यति । इयं परिभाषा निर्मूला निष्फला चेति परिभाषेन्दुशेखरे स्पष्टम् । इति श्रीवासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां परिभाषाप्रकरणम्॥*********************अथ प्राग्दिशीयाः । — — — — — —

Tattvabodhini

स्वरितेनाधिकारः - स्वरितेनाधिकारः । अत्रेत्थंभूतलक्षणे तृतीया । अधिकारो विनियोगः । कियद्दूरमधिकार इत्यत्रतु व्याख्यानमेव शरणम् । यथा — आ सप्तमाध्यायपरिसमाप्तेरङ्गाधिकारः, न तु प्रागभ्यासविकारेभ्य एवेत्यादि । यद्वा स्वरिता इति सप्तम्यन्तम्, स्वरिते दृष्टे अधिकारो निवर्तत इत्यर्थः । कः स्वरितोऽधिकारार्थः, कश्च तन्निवृत्त्यर्थ इत्यत्र तु व्याख्यानमेव शरणम् । नन्वेवं व्याख्यानादेवानुवृत्त्यननुवृत्ती स्तः किमनेन सूत्रेणेति चेत्, अत्राहुः-अर्थान्तरसङ्ग्रहायेदं सूत्रं कृतम् । तथाहि-अधि-अधिकः कारोऽधिकारः । अधिकं कार्यं गौणेपि शास्त्रप्रवृत्तिरित्यर्थः । तथा च गौणमुख्यन्यायो यत्र नेष्यते अपादानाधिकरणादौ, तत्र स्वरितः पाठ्यः । किंच अधिकः कारः कृतिरियं-यत्पूर्वः सन् परं बाधते । तथा चनुमचिरतृज्वद्भावेभ्यो नु॑डित्यादिवक्ष्यमाणपूर्वविप्रतिषेधाः सर्वे सङ्गृहीता भवन्ति, तत्र स्वरितपाठेनैव गतार्थत्वादिति॥परनित्येति । परान्नित्यं यथा-॒तुदादिभ्यः शः॑ । तुदति ।रुधादिभ्यः श्नम् । रुणद्धि । परमपि लघूपधगुणं बाधित्वा नित्यत्वात् शश्नमौ । तथा धिनवाव, धिनवाम । परमपिलोपस्चास्यान्यतरस्यां म्वो॑रित्युकारलोपं बाधित्वा नित्यत्वादाडुत्तमस्येत्याट् । परादन्तरङ्गं यथापरमपिअनेका॑लिति सर्वादेशं बाधित्वाडिच्चे॑त्यन्तादेशः । दध्ना, दध्ने ।अस्थिदधी॑त्यनङ् । नित्यादन्तरङ्गं यथा-॒ग्रामणिनी कुले॑ । नित्यमपीकोऽचीति नुमं बाधित्वाह्रस्वो नपुंसके॑ इति ह्रस्वः । कृते तु नुमि अनजन्तत्वाद्ध्रस्वो न स्यात् । अन्तरङ्गादपवादो यथा-॒दैत्यारि॑,श्रीशः॑ । परमपि सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणे यणि च प्राप्तेऽपवादत्वात्सवर्णदीर्घः । तथाउन्न्यः॑ सुल्वौसुल्वः॑ इत्यत्रान्तरङ्गत्वादियङि उवङि च प्राप्तेऽपवादत्वादेरनेकाचेति,ओः सुपी॑ति च यण् । यद्यपवादोऽन्यत्र चरितार्थस्तर्हि परान्तरङ्गाभ्यां उवङि च प्राप्तेऽपवादत्वादेरनेकाचेति,ओः सुपी॑ति च यण् । यद्यपवादेऽन्यत्र चरितार्थत्वात्ताताङि न प्रवर्तते, किंतु परेणअनेकाल्शि॑दित्यनेन बाध्यते,-जीवतात् । भवतात् । अयजे इन्द्रम्, ग्रामे इह, सर्वे इत्थम् ।-अत्र अयज इ इन्द्रम्, ग्राम इह, सर्व ई इत्थमिति स्थितेऽन्तरङ्गेण गुणेन सवर्णदीर्घो बाध्यते । तस्य असमानाश्रयेदैत्यारिः॑श्रीश॑ इत्यादौ चरितार्थत्वात्॥असिद्धमिति । तेनपचावेद॑मित्यादौएत ऐ॑ इत्यैत्वं न । अकृतव्यूहा इति । अकृतकार्या इत्यर्थः । एवं तर्हि सर्वस्य शास्त्रस्य वैयथ्र्यं स्यादत आह — निमित्तं विनाशोन्मुखं दृष्ट्वेति । लोकसिद्धार्थकथनमेतत् । यद्वा । अक्षरार्थेनाप्येतत्कथनम् । ऊह्रते तर्क्यत इत्यूहः-कार्यम् , विशिष्टो य ऊहो व्यूहो=विनाशोन्मुखनिमित्तकं कार्यम् । अकृतो व्यूहो यैस्ते अकृतव्यूहा इति । यद्यपिकृतमपि शास्त्रं निवर्तयन्ती॑ति परिभाषान्तरं पठते, फलं च तुल्यं, तथापिअकृतव्यूहा॑ इत्येव लघु,प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर॑मिति न्यायादिति भावः । न कुर्वन्तीति । यथा निषेदुषी॑मित्यादौ क्वसोरिटमन्तरङ्गत्वात्प्राप्तमपिभाविना संप्रसारणेन वलादित्वं नङ्क्षयती॑त्यालोच्य न कुर्वन्तीत्यर्थः॥इति तत्त्वबोधिन्यां परिभाषाप्रकरणम् । — — — — — — — — — — — -

Padamanjari

अत्र पारिभाषिकस्य’स्वरितस्य ग्रहणे रषाभ्यान्नोणः’ इत्यादौ नकारादेर्व्यञ्जनस्याधिकारोपलक्षणं नोक्तं स्याद्, पारिभाषिकस्याञ्धर्मत्वादिति मत्वाह - स्वरितो नाम वर्णधर्म इति। वर्णमात्रधर्म इत्यर्थः। स चायं धर्मः सलाध्मातादितुल्यः केवलं सूत्रेष्वेव भवति, न प्रयोगे। क्वचितु स्वरितो नाम स्वरदोषो वर्णधर्म इति पाठः। तत्र स्वरदोषःऊच्चारणदोषः, अधिकारशब्दो भावसाधनः। विनियोग इति। व्यापारणम्। अथ शब्दस्यविनियुक्तस्य को व्यापार इत्याह - अधिकृतत्वादुतरत्रोपतिष्ठत इति । उपस्थानमप्येतदेव यदुतास्य तत्रबुद्धिस्थता। उतरत्रेत्युलक्षणम्, क्वचित् पूर्वत्राप्युपतिष्ठते;सूत्रकारेण पठितस्यास्य स्वरितत्वस्य संकीर्णत्वात् पाठस्य विषयविभागो दुर्ज्ञेय इत्याह-प्रतिज्ञास्वरिता इति। प्रत्याय इत्याद्यौदाहरणानि। किमर्थ पुनरिदमुच्यते, यावता निर्द्दिश्यमानं लोकेऽधिक्रियते, यथा-देवदताय गौर्द्दीयतां कम्बलश्चेति देवदतायेति गम्यते, तथा’सृ स्थिरे’ इत्यादीनां साकाङ्क्षत्वादनुवृतैर्घञादिभिरेव सम्बन्धो भविष्यति? अन्यनिर्देशस्तन्निवर्तकः, तद्यथा - देवदताय गौर्द्दीयताम्, विष्णुमित्राय कम्बल इति कम्बलो गोर्निवर्तको भवति, तथेहापि ठभिविधौ भावेऽ इतीनुण् घञो निवर्तकः स्यात्, ततश्च ठाक्रोशेऽवन्येर्ग्रहःऽ इत्यादिष्वनन्तर इनुणेव स्यात्, तस्मात्परिभाषा। अधिकारपरिमाणज्ञानं तु न ज्ञायते - कियन्तमवधिमधिकारोऽनुवर्तत इति? यथा-प्रागभ्यासविकारेभ्योऽङ्गधिकारः?, धातोरिति प्राक् लादेशेभ्यः? उताध्यायस्य परिसमाप्तेः? एवं तर्ह्युभयार्थमिदम् - अधिकारार्थं च निवृत्यर्थं च । कथम्? स्वरितेनाधिकारः स्वरिते द्दष्टेऽधिकारो न भवतीत्यर्थः, तेन विंशतिकात् खः। इत्यत्र स्वरितत्वं प्रतिज्ञेयं तद्दर्शनाच्च द्वित्रिपूर्वादित्यस्य निवृत्तिरष्यते तत्र तावतिथोऽलनुबन्धनीयः, यथा - द्वित्रिपूर्वान्निष्कात् इत्यत्रेकारः। तेन द्वयोर्योगयोरनुवृत्तिर्भविष्यति । एवमन्यत्रापि यत्र तावतिथोऽल् नास्ति तत्र प्राग्वचनं कर्तव्यम्, यथा - अङ्गस्य प्राक् टेः इति तद् गुरु भवति। स्यादेतत्,व्याख्यानात् परिमाणं ज्ञास्यते इति? अधिकारोऽपि तर्हि व्याख्यानात् ज्ञायताम्। इनुण्घञिति संदेहे घञिति व्याख्यास्यामः, इनुण आनन्तर्यम्, घञोऽप्यनुवृत्तिसामर्थ्य द्दष्टमित्यस्त्येव संदेहः।’ग्रहवृद्दनिश्चिगमश्च’ इत्यादिषु त्वनन्तरस्याप एवाधिकारः, न द्दष्टानुवृत्तिसामर्थ्यस्यापि घञः, सिद्धत्वाद्, व्याख्यानाद्वा। यदप्युत्प्रेक्षितम् - आकांक्षारहितेऽपि वाक्ये प्रकृतस्य सम्बन्धार्थं शास्त्रीयोऽधिकारः- यथा दूरान्तिकार्थभ्यो द्वितीया च इत्यत्र पञ्चम्यधिकार इति । तत्रापि व्याख्यानमेव शरणमिति तदेव सर्वत्रास्तु नार्थ एतेन ? इदं तर्हि प्रयोजनम् - अन्यत्र द्दष्टस्याधिकारस्य स्वरितेनोपलक्षणं यथा स्याद्, यथा -‘गोस्त्रियोरुपसर्जनस्य’ इत्यत्र स्त्रीग्रहणस्य, न ह्यएतल्लौकिकेनाधिकारेण सिद्धम्, आनुषङ्गिकं वास्य प्रयोजनं यत् साकाक्षेषु व्यहितस्य चानुवृत्तिः॥

Nyaas

इत्थंभूतलक्षणे तृतीय इति। स्वरितेन चिह्नेनाधिकारस्योपलक्षणीयत्वात्। यदि पारिभाषिकस्येह स्वतिस्य ग्रहणं स्यात्, रषाभ्यां नो णः समानपदे (8.4.1) इत्यत्र णकारण्णाकारस्याधिकारस्याधिकारता न स्यात्; परिभाषिकस्याज्धर्मत्वात्। णकारस्यानच्कत्वादिति मत्वा सर्वेषां वर्णानामचां हलाञ्च स्वरिताख्यो यो वर्णधर्मो गुणस्यस्येदं ग्रहणम्, न पारिभाषिकस्येति दर्शयन्नाह - स्वरितो नाम स्वरदोषो वर्णधर्मः इति। वर्णधर्मस्य तु गर्हणमधिकारावगमाय। स इह हल्यपि स्वरितासरञ्जनाद्विज्ञायते। अधिकारो विनियोगः इति। व्यापारकरणम्। अधिकृतत्वादुत्तरत्रोपतिष्ठते इति। यथा पुरुषो यत्राधिकृतो नगरादौ तत्रैवोपतिष्ठते, तथा स्वरितगुणयुक्तं शब्दरूपं सूत्रकारेण नियुक्तं सूत्रकारेण तत्र तत्रोपतिष्ठते। उत्तरत्र इति वचनमुपलक्षणार्थम्। क्वचित् पूर्वत्राप्युपतिष्ठत एव।क्व पुनरस्य सद्भावो भवति? क्व च वा न भवति? इत्याह - प्रतिज्ञास्वरिताः पाणिनीयाः इति। प्रतिज्ञया स्वरितो येषां ते तथोक्ताः। तदेतदुक्तं भवति - यत्रेव त आचार्याः स्वरितत्वं प्रतिजानते तत्रैवास्य सद्भावो भवति, नान्यत्रेति। तदपि प्रतिज्ञानं नानियमेन भवति, किं तर्हि? यत्राचार्याः स्मरन्ति तत्रैव भवति। स चायं धर्मः कलागद्युपम इति वेदितव्यः। कार्यार्थमुपादीयते, कृतकार्यस्तु निवर्तते; न तु प्रयोगसमवायी भवति। प्रत्ययः (3.1.1) इत्यादिना येऽधिकाराः स्वरितनावच्छिद्यन्ते तेषामुदाहरणानि दर्शयति। अथ किमर्थोऽयमधिकारः क्रियते? प्रतियोगं तस् ग्रहणं मा कार्षीदित्येवमर्थमिति चेत्, न; यथा देवदत्ताय गौर्दीयतां कम्बलश्चेत्युक्ते न च पुनरुच्यते देवदत्तायेति, अथ च प्रस्तुतत्वाद्देवदत्तस्य कम्बलश्चेत्यस्य साकाङ्क्षत्वात् तेनैव सम्बन्धो भवति; तथा च सृ स्थिरे (3.3.17) भावे (3.3.18) इत्येवमादीनामपि वाक्यानां साकाङ्क्षत्वाद्घञादीनाञ्च प्रस्तुतत्वात् तैरेव सम्बन्धो भविष्यति, तत्किमधिकरेण? सत्यमेतत्; यत्रान्य निर्देशो नास्ति तत्रोपतिष्ठते, यत्र त्वन्यनिर्देशस्तत्रासौ प्रकृतस्य निवर्तक एव स्यात्। तथा हि - गौर्दीयतां यज्ञदत्ताय कम्बलो विष्णुमित्रायेत्युक्तेऽन्यनिर्देशेन प्रस्तुतो देवदत्तो निवर्तत्ते। एवञ्चान्यनिर्देशेनास्य निवर्तकत्वे सति अभिविधौ भाव इनुण (3.3.44) इत्यस्येनुणो निर्देशेन प्रस्तुतस्य घञो निवर्तितत्वात् आक्रोशेऽवन्योग्र्रहः (3.3.45) इत्यत्रानन्तरेणेनुणा सम्बन्धः स्यात्,न पुनव्र्यवहितेन घञा,घञ् त्विष्यते। ननु च दृष्टानुवृत्तिसामर्थ्याद् घञेवानुवर्तिष्यते तेनैवाभिसम्बन्धो भविष्यति, तथा च तत्र वक्ष्यति - दृष्टानुवृत्तिसामर्थ्यात्तत्र घञेवानुवर्तते, नानन्तर इनुण् ` इति नैतदस्ति; यदि दृष्टानुवृत्तिसामर्थ्यादघञ एवानुवृत्तिः स्यात्, तदा `ऋदोरप् (3.3.57) इत्तत्रोत्तरेष्वपि योगेषु घञेवानुवर्तेत, नाप्प्रत्ययः। यत्पवुनर्वक्ष्यति - दृष्टानुवृत्तिसामर्थ्यात् इति, तत्र दृष्टानुवृत्तिसामर्थ्यशब्देन स्वरितत्वमेवोक्तम्। दृष्टमनुवृत्तौ सामर्थ्यम् - अधिकृतस्य शब्दरूपस्य यस्मादिति बहुव्रीहिकृत्वा।तस्मात् स्वरितत्वादित्ययमत्रार्थः। यद्येषोऽर्थः सूत्राकाराभिमतः स्यात्, स्वरितत्वादिति कस्मान्नोक्तमिति चेत्? न;स्वच्छन्दतो हि वचसां प्रवृत्तिः, अर्थस्तु परीक्षणीय इत्यचोद्यतमेतत्। तदेवं यतोऽन्यनिर्दशः प्रस्तुतस्य निवर्तको भवति तस्मादधिकारः कर्तव्यः। तस्मश्च क्रियमाणे तदवगमोपायदर्शनाय स्वरितेनाधिकारः इत्येतदिप कर्तव्यः॥

Praudhamanorama

परनित्येति। परान्नित्यं यथा— तुदति,रुणद्धि। परमपि लघूपधगुणं बाधित्वा शश्नमौ । तथा रन्धेर्णिच् रन्धयति । परामप्युपधावृद्धिं बाधित्वा रधिजभोः (7.1.61) इति नुम्। न च सोऽपि शब्दान्तरप्राप्त्याऽनित्य इति वाच्यम्, कृताकृतप्रसङ्गमात्रेणापि क्वचिन्नित्यताभ्युपगमात्। अन्तरङ्गं यथा— उभये देवमनुष्याः। इह प्रथमचरम (1.1.33) इति परमपि विकल्पं बाधित्वा सर्वादीनि (1.1.27) इति सर्वनामसंज्ञा विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वात्। अपवादोऽपि यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यत एव। तद्यथा— अयजे इन्द्रं, ग्रामे इह, सर्वे इत्थम्। अत्रान्तरङ्गेण गुणेन सवर्णदीर्घो बाध्यते। स च यद्यपि यण्गुणयोरपवादस्तथापि समानाश्रये चरितार्थः। तथा च वार्तिकम्— ‘इण्ङिशीनामाद् गुणः सवर्णदीर्घत्वात्’ इति॥ असिद्धमिति॥ तेन पचावेदमित्यादावेत ऐत्वं न। अकृतव्यूहा इति॥ यद्यपि ‘कृतमपि कार्यं निवर्तयन्ति’ परिभाषान्तरं पठ्यते, फलं च तुल्यम्, तथापि ‘अकृत’ इत्येव लघु। ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति न्यायादिति भावः। न कुर्वन्तीति। यथा ‘निषेदुषीम्’ इत्यादौ क्वसोरिटमन्तरङ्गत्वात्प्राप्तमपि भाविना सम्प्रसारणेन वलादित्वं नङ्क्ष्यतीत्यालोच्य न कुर्वन्तीत्यर्थः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां परिभाषाप्रकरणम्॥

Prakriyasarvasvam

स्वरितेन चिह्नेनाधिकारो ज्ञेयः । धातोरित्याद्यधिक्रियमाणानां चिह्णतया स्वरितत्वं प्रतिज्ञायत इत्यर्थः । <karika>सूत्रेष्वनुक्तं सर्वत्र प्राक्सूत्रेभ्योऽनुवर्तते । तद् व्याख्याशरणं प्रायः स्वरितत्वं तु दुर्गमम् ॥ २४ ॥</karika> अतएव ‘अपेक्षातोऽधिकार’ इति भोजोक्तिः ।

Sutra Prayogas

  • न्यवृतन्मनोभिः (भट्टिकाव्यम्): द्युद्भ्यो लुङि इति परस्मैपदविकल्पात् ।

  • व्यरुचन्कुमुदाऽऽकराः (भट्टिकाव्यम्): सर्वत्र द्युयो लुङि इति विभाषा परस्मैपदम्।

  • व्यरोचिष्ट (भट्टिकाव्यम्): द्युच्यो लुङि इति परस्मैपदविकल्पेनात्मने- पदम्।