13011: स्वरितेनाधिकारः ====================== **Padacheda:** स्वरितेन | S | 3 | 1 | अधिकारः | S | 1 | 1 | Sutrartha --------- **अस्मिन् सूत्रपाठे अनुवृत्तेः निर्देशः स्वरितस्वरेण कृतः अस्ति ।** अष्टाध्याय्याः उच्चारणे येषां शब्दानां स्वरित-स्वरेण उच्चारणं क्रियते, ते शब्दाः अग्रिमसूत्रेषु अनुवृत्तिरूपेण स्वीकर्तुं शक्यन्ते — इति अस्य सूत्रस्य अर्थः । **सूत्रसम्बन्धिनः केचन बिन्दवः** 1. प्रकृतसूत्रे उपयुक्तः "अधिकारः" इति शब्दः "अधिकारसूत्रम्" अस्मिन् अर्थे प्रयुक्तः नास्ति, अपि तु "उत्तरसूत्रेषु उपस्थापनम्" (a governing word that can be carried in the further sutras) इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । अधिकारसूत्रेषु विद्यमानाः शब्दाः अपि एतादृशम् अग्रिमसूत्रेषु अवश्यं स्वीक्रियन्ते, अतः तेषाम् निर्देशः अपि स्वरितस्वरेण अवश्यम् कृतः स्यात् । परन्तु ये शब्दाः अधिकारसूत्रस्थाः न सन्ति, तेषाम् विषये अपि अनुवृत्तेः निर्देशः स्वरितस्वरस्य साहाय्येन एव कृतः वर्तते — इति अस्य सूत्रस्य आशयः । 2. सूत्राणाम् उच्चारणे प्रयुक्तानाम् उदात्त-अनुदात्त-स्वरित-स्वराणाम् ज्ञानम् अद्यतनकाले सम्पूर्णरूपेण लुप्तम् अस्ति । अतः प्रकृतसूत्रस्य उदाहरणरूपेण कोऽपि शब्दः स्पष्टरूपेण दातुं नैव शक्यते । **अद्यतनकाले अनुवृत्तेः ज्ञानम् व्याख्यानाद् एव सम्भवति ।** इत्युक्ते, **अङ्गस्य**, **धातोः**, **ङ्याप्प्रातिपदिकात्** इत्येते ये शब्दाः अग्रिमसूत्रेषु अनुवर्तन्ते, तेषाम् पाणिनिना कृते उच्चारणे स्वरितः स्वरः अवश्यं स्यात् — इत्येव प्रतिपादनम् इदानीम् शक्यम् । 3. 'अनुवृत्तेः समापनम् कुत्र भवति' अस्मिन् विषये केचन बिन्दवः प्रकृतसूत्रस्य भाष्ये उक्ताः सन्ति, परन्तु सामान्यरूपेण अस्य ज्ञानम् अपि व्याख्यानादेव सम्भवति, इति तत्र निष्कर्षः । अस्मिन् सन्दर्भे अधिकं पिपठिषवः प्रकृतसूत्रस्य भाष्यम् एव पश्येयुः । Sutrartha (English) ------------------- In this सूत्रपाठ, a स्वरित स्वर is used to denote अनुवृत्तिs. Vasu English Summary -------------------- In these aphorisms, when a word is marked with a स्वरित accent, by that an अधिकार or a governing rule is to be understood. Vasu English Translation ------------------------ In these aphorisms, when a word is marked with a स्वरित accent, by that an अधिकार or a governing rule is to be understood. When in this collection of grammatical *sutras*, there is any *sutra* that has a circumflex accent, it denotes that it is either the beginning of a subject and the subsequent *sutras* are governed by it, or that it ends a subject and separates the previous *sutras* from the following. As a rule, the *sutras* are not marked with accents; it is therefore from commentaries that one has to learn whether a *sutra* has a *svarita* or not. Thus the following *sutras* must evidently have *svarita* as they are governing *sutras*; प्रत्ययः (III.I.1.) धातोः (3.1.91), अङ्गस्य (6.4.1), भस्य (6.4.129). Bhashya ------- स्वरितेनाधिकारः किमर्थमिदमुच्यते ?। अधिकारः प्रतियोगं तस्यानिर्देशार्थः ॥ 1 ॥ अधिकारः क्रियते - प्रतियोगं तस्यानिर्देशार्थ इति । किमिदं प्रतियोगमिति ?। योगं योगं प्रति प्रतियोगम् । योगे योगे तस्य ग्रहणं मा कार्षमिति । किं गतमेतदियता सूत्रेण ?। गतमित्याह । कुतः ?। लोकतः। तद्यथा लोके - अधिकृतोऽसौ ग्रामे अधिकृतोऽसौ नगरे इत्युच्यते यो यत्र व्यापारं गच्छति । शब्देन चाप्यधिकृतेन कोन्यो व्यापारः शक्योवगन्तुमन्यदतो योगे योग उपस्थानात् । न वा निर्दिश्यमानाधिकृतत्वाद्यथा लोके ॥ 2 ॥ न वा एतत्प्रयोजनमस्ति । किं कारणम् ?। निर्दिश्यमानाधिकृतत्वात्। यथा लोके । निर्दिश्यमानमधिकृतं गम्यते । तद्यथा - देवदत्ताय गौर्दीयतां यज्ञदत्ताय विष्णुमित्राय इति । गौरिति गम्यते । एवमिहापि पदरुजविशस्पृशो घञ्ञ् (3.3.16) सृ स्थिरे (17) भावे (18) घञ्ञिति गम्यते । अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषा ॥ 3 ॥ अन्यनिर्देशस्तु लोके निवर्तको भवति । तद्यथा - देवदत्ताय गौर्दीयताम् विष्णुमित्राय कम्बलः इति कम्बलो गोर्निवर्त्तको भवति । एवमिहापि अभिविधौ भाव इनुण् (3.3.44) घञ्ञो निवर्तकः स्यात् । तस्मात् परिभाषा कर्तव्या । अधिकारपरिमाणाज्ञानं तु ॥ 4 ॥ अधिकारपरिमाणाज्ञानं तु भवति । न ज्ञायते कियन्तमवधिमधिकारोनुवर्तत इति । अधिकारपरिमाणज्ञानार्थं तु ॥5 ॥ अधिकारपरिमाणज्ञानार्थमेव तर्ह्ययं योगो वक्तव्यः । अधिकारपरिमाणं ज्ञास्यामीति । कथं पुनः - स्वरितेनाधिकार इत्येनेनाधिकारपरिमाणं शक्यं विज्ञातुम् ?। एवं वक्ष्यामि - स्वरिते नाधिकारः इति । स्वरितं दृष्ट्वाधिकारो न भवतीति । केनेदानीमधिकारो भविष्यति ?। लौकिकोधिकारः । नाधिकार इति चेदुक्तम् ॥ 6 ॥ किमुक्तम् ? अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषेति । अधिकारार्थमेव तर्ह्ययं योगो वक्तव्यः । ननु चोक्तम् - अधिकारपरिमाणाज्ञानं तु इति । यावतिथोऽलनुबन्धस्तावतो योगानिति वचनात्सिद्धम् ॥ 7 ॥ यावतिथोऽलनुबध्यते तावतो योगानधिकारोनुवर्त्तत इति वक्तव्यम् । अथेदानीं यत्राल्पीयांसोऽलः भूयसश्च योगानधिकारोनुवर्तते, कथं तत्र कर्तव्यम् ?। भूयसि प्राग्वचनम् ॥ 8 ॥ भूयसि प्राग्वचनं कर्तव्यम् । प्रागमुत इति वक्तव्यम् ॥ तत्तर्हि वक्तव्यम् । न वक्तव्यम् । सन्देहमात्रमेतद्भवति, सर्वसन्देहेषु चेदमुपतिष्ठते - व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम् इति प्रागमुत इति व्याख्यास्यामः । यद्येवं नार्थोनेन । केनेदानीमधिकारो भविष्यति ?। लौकिकोधिकारः । ननु चोक्तं - ।नाधिकार इति चेदुक्तम्। । किमुक्तम् ?। ।अन्यनिर्देशस्तु निवर्तकस्तस्मात्परिभाषा।इति। सन्देहमात्रमेतद्भवति । सर्वसन्देहेषु चेदमुपतिष्ठते व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणःइत्युक्तम् । इनुण्घञ्ञिति सन्देहे घञ्ञिति व्याख्यास्यामः । न तर्हीदानीमयं योगो वक्तव्यः ?। वक्तव्यश्च । किं प्रयोजनम् ?। स्वरितेनाधिकारगतिर्यथा विज्ञायेत अधिकं कार्यम् । अधिकः कारः । अधिकारगतिः - गोस्त्रियोरुपसर्जनस्य (1.2.48) इत्यत्र गोटाङ्ग्रहणं चोदितं तन्न कर्तव्यं भवति । स्त्रीग्रहणं स्वरयिष्यते । स्वरितेनाधिकारगतिर्भविष्यतीति स्त्रियाम् (4.1.3) इत्येवं प्रकृत्य ये प्रत्यया विहितास्तेषां ग्रहणं विज्ञास्यते । तत्र स्वरितेनाधिकारगतिर्भवतीति न दोषो भवति । (अधिकारगतिः) अधिकं कार्यम् - अपादानमाचार्यः किं न्याय्यं मन्यते?। यत्र प्राप्य निवृत्तिः । तेनेहैव स्यात् - ग्रामादागच्छति नगरादागच्छति । सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इत्यत्र न स्यात् । स्वरितेनाधिकं कार्यं भवतीत्यत्रापि सिद्धं भवति । तथा - अधिकरणमाचार्यः किं न्याय्यं मन्यते?। यत्र कृत्स्न आधारात्मा व्याप्तो भवति । तेनेहैव स्यात् - तिलेषु तैलम्, दध्नि सर्पिरिति । गङ्गायां गावः, कूपे गर्गकुलमित्यत्र न स्यात् । स्वरितेनाधिकं कार्यं भवतीत्यत्रापि सिद्धं भवति । अधिकं कार्यम् । अधिकः कारः - पूर्वविप्रतिषेधाश्च न पठितव्या भवन्ति - ।गुणवृद्ध्यौत्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रतिसिद्धम्। नुमचिरतृज्वद्भावेभ्यो नुट्।इति । नुम्नुटौ स्वरयिष्येते । तत्र स्वरितेनाधिकः कारो भवतीति नुम्नुटौ भविष्यतः । कथं पुनरधिकः कार इत्यनेन पूर्वविप्रतिषेधाः शक्या न पठितुम् ?। लोकतः । तद्यथा - लोकेऽधिकमयं कारं करोतीत्युच्यते योयं दुर्बलः सन्बलवदि्भः सह भारं वहति । एवमिहाप्यधिकमयं कारं करोतीत्युच्यते योयं पूर्वः सन्परं बाधते । अधिकारगतिस्त्र्यर्था विशेषायाधिकं कार्यम् । अथ योन्योऽधिकः कारः पूर्वविप्रतिषेधार्थः सः ॥11 ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्य तृतीयपादे प्रथमाह्निकम् ॥ Kashika ------- स्वरितेनेतीत्थंभूतलक्षणे (२.३.२१) तृतीया। स्वरितो नाम स्वरदोषो वर्णधर्मः। तेन चिह्नेनाधिकारो वेदितव्यः। अधिकारो विनियोगः। स्वरितगुणयुक्तं ंशब्दरूपमधिकृतत्वादुत्तरत्रोपतिष्ठते। **प्रतिज्ञास्वरिताः पाणिनीयाः** (व्या०प० १२२)। **प्रत्ययः** (३.१.१)। **धातोः** (३.१.९१)। **ङ्यप्प्रातिपदिकात् (४.१.१)। ‘अङ्गस्य** (६.४.१)। **भस्य** (६.४.१२९)। **पदस्य** (८.१.१६)॥ Siddhanta Kaumudi ----------------- स्वरितत्वयुक्तं शब्दस्वरुपमधिकृतं बोध्यम् ॥ [(परिभाषा - ) परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः] ॥ [(परिभाषा - ) असिद्धं बहिरङ्गमन्तरङ्गे] ॥ [(परिभाषा - ) अकृतव्यूहाः पाणिनीयाः] ॥ निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः ॥ Laghu Shabdendushekhar ---------------------- **स्वरितेनाधिकारः** (1.3.11) । इत्थम्भूतलक्षणे तृतीया । स्वरितत्वज्ञाप्योऽधिकारो विनियोग इत्यर्थः । स्वरितत्वञ्चेदं दोषविशेषरूपमज्झल्साधारणं स्व रूपमधिक्रियमाणपदघटकाज्निष्ठं वा । तच्चानुनासिक्यवत्प्रतिज्ञागम्यम् । विनियोगश्च प्रायेणोत्तरत्रोपस्थितिः, क्वचित्पूर्वत्रापि । कियद् दूरमधिकार इत्यत्रासति गमके व्याख्यानमेव शरणम् । किञ्च स्वरितेनाधिकारगतिः । तेन **गोस्त्रियो** (1.2.48) इत्यादौ ख्यधिकारस्थप्रत्ययग्रहणमित्याद्याकरादवसेयम् एतेन - **व्याख्यानादेव निवृत्तिवदनुवृत्तिरपि भविष्यति, आकाङ्क्षायान्तु सत्यामश्रुतकल्पनाया अन्या व्यत्वाच्छ्रुतापेक्षणस्य न्याय्यत्वाच्च किं सूत्रेण** इत्यपास्तम् । स्पष्टं चेदं भाष्ये । **परनित्येति** । परं विप्रतिषेधसूत्राद् बलवत् । नित्यं कृताकृतप्रसङ्गि, तद्विपरीत मनित्यम् । तत्राक्लृप्ताभावकस्या भावकल्पनापेक्षया क्लृप्ताभावकस्यैव तत्कल्पनं युक्तमिति तस्य बलवत्त्वे बीजम् । अन्तर्मध्ये बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्येऽन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम् । तदीयनिमित्तसमुदायाद्बहिर्भूताङ्गकं बहिरङ्गम् । तस्य बलवत्त्वे बीजमाह असिद्धमिति । इयञ्च **वाह ऊठ्** (6.2.132) इति सूत्रेण ज्ञापिता । यद्यपि प्रत्यङ्गवर्त्ती लोको दृश्यते । **मनुष्योऽयं प्रातरुत्थाय प्रथमं शरीर कार्याणि करोति, ततः सुहृदां, ततः सम्बन्धिनाम्** इति न्यायमूलकत्वमस्या **अचः परस्मिन्..** (1.1.57) इति भाष्ये उक्तं, तथापि तेन न्यायेन युगपत्प्राप्तिविषयतैव स्यात् । **ज्ञापकेन तु सर्वविषयता बोध्यते** इति **वाह ऊठ्** (6.2.132) इति सूत्रे कैयटे स्पष्टम्। अन्यथा वाहः सम्प्रसारणे पूर्वरूपे च कृते प्रयाश्रये गुणे **वृद्धिरेचि** (6.9.88) इति वृद्धौ "प्रष्ठौह" इत्यादिसिद्धावूठ्विधानं व्यर्थं स्यात् । नाजानन्तर्यपरिभाषा तु नास्त्येवेति "न अयजे इन्द्रम्" इत्यादौ दोष इति परिभाषेन्दुशेखरे विस्तरः । अपवादस्तु वचनप्रामाण्याद् बलवान् । **अकृतेति** । न कृतो विशिष्ट ऊहस्तकों निमित्तविनाशेऽपि कार्यस्थितिरूपः, यथा दण्डविनाशेऽपि घटस्थितिः, स यैस्ते इत्यर्थस्तदाह - ** निमित्तमित्यादि ** । **तत्प्रयुक्तं कार्यजातमपि न कुर्वन्ति नोच्चारयन्तीत्यर्थ** इति कैयटादयः । अन्ये तु - **व्यूहोऽन्तरङ्गशास्त्रं बहिरङ्गापोहनरूपत्वात् तन्निमित्तविनाशं दृष्ट्वा पूर्वमपि न कुर्वन्ति** इत्यर्थ इत्याहुः । इयं परिभाषा निष्फला निर्मूलेति परिभाषेन्दुशेखरे निरूपितम् । इति परिभाषाप्रकरणम् । Balamanorama ------------ **स्वरितेनाधिकारः** - स्वरितेनाधिकारः । अधिकारः=व्यापृतिः । यथा लोकेअधिकृतो ग्रामेऽसा॑विति व्यापृत इति गम्यते । शब्दस्य च उत्तरसूत्रेष्वनुवृत्तिरेव व्यापृतिः । स्वरितेन=स्वरविशेषेण अधिकार उत्तरत्रानुवृत्तिरूपव्यापारः प्रत्येतव्यः । यत् पदं शास्त्रकृता स्वरिताख्यस्वरविशेषविशिष्टमुच्चारितं तदुत्तरसूत्रेष्वनुवर्तनीयमिति यावत् । फलितमाह — स्वरितत्वयुक्तमित्यादिना । आनुनासिक्यवत्सव्रितोच्चारणमपि प्रतिज्ञागम्यम् । अनुवृत्तावुत्तरावधिस्तु व्याख्यानादेवावगन्तव्यः । यद्यपि निवृत्तिवदनुवृत्तिरपि व्याख्यानादेव भविष्यतीति किं सूत्रेण, तथापि भाष्ये एतत्प्रयोजनं बहुधा प्रपञ्चितम् ।परनित्येति । परादीनां मध्ये पूर्वपूर्वापेक्षया उत्तरमुत्तरं शास्त्रं बलवत्तपरमित्यर्थः ।उत्तरोत्तर॑मित्यत्रआनुपूर्व्ये द्वे वाच्ये॑ इति द्वित्वम् ।कर्मधारयवदुत्तरेषु॑ इति कर्मधारयवद्भावात्सुपो लुक् । बलवच्छब्दात्द्विवचनविभज्योपपदे तरबीयसुनौ ॑ इति ईयसुन् ।विन्मतोर्लु॑गिति मतुपो लुक् । परापेक्षया नित्यान्तरङ्गापवादाः, नित्यापेक्षयाऽपि अन्तरङ्गापवादौ, अन्तरङ्गापेक्षयापि अपवाद इत्येवं क्रमेण पूर्वपूर्वापेक्षया उत्तरोत्तरबलवत्त्वमिति फलितोऽर्थः । परं विप्रतिषेधसूत्रात् बलवत् । परान्नित्यं यथा — तुदति । अत्र 'तुदादिभ्यः शः' इति शप्रत्ययं बाधित्वा परत्वाल्लधूपधगुणः प्राप्तः, स च शप्रत्यये प्रवृत्ते सति न प्रवृत्तिमर्हति । शप्रत्ययस्तु कृतेऽकृतेऽपि लघूपधगुणे प्रवृत्तिमर्हतीति स नित्यः ।कृताकृतप्रसङ्गी यो विधिः स नित्य॑ इति हि तल्लक्षणम् । अतो नित्यः शप्रत्ययो लघूपधगुणं बाधित्वा प्रथमं प्रवर्तते । ततः 'सार्वधातुकमपित्' इति शस्य ङित्त्वात् 'क्ङिति च ' इति निषेधान्न गुणः । अकॢप्ताऽभावकस्य नित्यशास्त्रस्याऽभावकल्पनापेक्षया कॢप्ताऽभावकस्याऽनित्यशास्त्रस्यैव तत्कल्पनं युज्यत इति नित्यस्य बलवत्त्वे बीजम् । परादन्तरङ्गं यथा — उभये देवमनुष्याः । अत्रप्रथमचरमे॑ति परमपि विकल्पं बाधित्वासर्वादीनी॑ति नित्यैव सर्वनामसंज्ञा भवति, तस्या विभक्तिनिरपेक्षत्वेनारङ्गत्वात् । अल्पापेक्षमन्तरङ्गमिति हि तल्लक्षणम् । तस्य बलवत्त्वे बीजमाह — असिद्धं बहिरङ्गमन्तरङ्गे । अन्तरङ्गशास्त्रे प्रसक्ते बहिरङ्गशास्त्रमविद्यमानं प्रत्येतव्यमित्यर्थः । इयं तु परिभाषावाहौउठ्सूत्रे भाष्ये स्थिता । परादपवादो यथा — दध्ना । अस्थिदधीत्यनङ् । इह परमप्यनेकालिति सर्वादेशं बाधित्वाङिच्चे॑त्यन्तादेशः, तस्य येन नाप्राप्तिन्यायेन तदपवादत्वात् । अपवादस्य बलवत्त्वे बीजं । त्वनुपदमेवोक्तम् । नित्यादन्तरङ्गं यथा — ग्रामणिनि कुले इह । नित्यमपीकोऽचीति नुमं बाधित्वा 'ह्रस्वो नपुंसके' इति ह्रस्वः । प्रथमतः कृते नुम्यनजन्तत्वाध्यस्वो न स्यात् । अन्तरङ्गादपवादो यथा — दैत्यारिः । श्रीशः । परमपि सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणे यणि च प्राप्तेऽपवादत्वात्सवर्णदीर्घः ।अकृतव्यूहाः पाणिनीयाः । न कृतः अकृतः, व्यूह=प्रकृतिप्रत्ययविवेचनं यैस्तेऽकृतव्यूहाः पाणिनीयाः=पाणिनिशिष्या इत्यक्षरार्थः । तर्हि सर्वस्य शास्त्रस्य वैयथ्र्यमित्यतोऽध्याह्मत्य व्याचष्टे-निमित्तमित्यादिना । 'सेदुष' इत्याद्युदाहरणम् । तच्च शब्दाधिकारेसेदिवस्शब्दनिरूपणावसरे मूल एव स्पष्टीभविष्यति । इयं परिभाषा निर्मूला निष्फला चेति परिभाषेन्दुशेखरे स्पष्टम् । इति श्रीवासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां परिभाषाप्रकरणम्॥*********************अथ प्राग्दिशीयाः । — — — — — — Tattvabodhini ------------- **स्वरितेनाधिकारः** - स्वरितेनाधिकारः । अत्रेत्थंभूतलक्षणे तृतीया । अधिकारो विनियोगः । कियद्दूरमधिकार इत्यत्रतु व्याख्यानमेव शरणम् । यथा — आ सप्तमाध्यायपरिसमाप्तेरङ्गाधिकारः, न तु प्रागभ्यासविकारेभ्य एवेत्यादि । यद्वा स्वरिता इति सप्तम्यन्तम्, स्वरिते दृष्टे अधिकारो निवर्तत इत्यर्थः । कः स्वरितोऽधिकारार्थः, कश्च तन्निवृत्त्यर्थ इत्यत्र तु व्याख्यानमेव शरणम् । नन्वेवं व्याख्यानादेवानुवृत्त्यननुवृत्ती स्तः किमनेन सूत्रेणेति चेत्, अत्राहुः-अर्थान्तरसङ्ग्रहायेदं सूत्रं कृतम् । तथाहि-अधि-अधिकः कारोऽधिकारः । अधिकं कार्यं गौणेपि शास्त्रप्रवृत्तिरित्यर्थः । तथा च गौणमुख्यन्यायो यत्र नेष्यते अपादानाधिकरणादौ, तत्र स्वरितः पाठ्यः । किंच अधिकः कारः कृतिरियं-यत्पूर्वः सन् परं बाधते । तथा चनुमचिरतृज्वद्भावेभ्यो नु॑डित्यादिवक्ष्यमाणपूर्वविप्रतिषेधाः सर्वे सङ्गृहीता भवन्ति, तत्र स्वरितपाठेनैव गतार्थत्वादिति॥परनित्येति । परान्नित्यं यथा-॒तुदादिभ्यः शः॑ । तुदति ।रुधादिभ्यः श्नम् । रुणद्धि । परमपि लघूपधगुणं बाधित्वा नित्यत्वात् शश्नमौ । तथा धिनवाव, धिनवाम । परमपिलोपस्चास्यान्यतरस्यां म्वो॑रित्युकारलोपं बाधित्वा नित्यत्वादाडुत्तमस्येत्याट् । परादन्तरङ्गं यथापरमपिअनेका॑लिति सर्वादेशं बाधित्वाडिच्चे॑त्यन्तादेशः । दध्ना, दध्ने ।अस्थिदधी॑त्यनङ् । नित्यादन्तरङ्गं यथा-॒ग्रामणिनी कुले॑ । नित्यमपीकोऽचीति नुमं बाधित्वाह्रस्वो नपुंसके॑ इति ह्रस्वः । कृते तु नुमि अनजन्तत्वाद्ध्रस्वो न स्यात् । अन्तरङ्गादपवादो यथा-॒दैत्यारि॑,श्रीशः॑ । परमपि सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणे यणि च प्राप्तेऽपवादत्वात्सवर्णदीर्घः । तथाउन्न्यः॑ सुल्वौसुल्वः॑ इत्यत्रान्तरङ्गत्वादियङि उवङि च प्राप्तेऽपवादत्वादेरनेकाचेति,ओः सुपी॑ति च यण् । यद्यपवादोऽन्यत्र चरितार्थस्तर्हि परान्तरङ्गाभ्यां उवङि च प्राप्तेऽपवादत्वादेरनेकाचेति,ओः सुपी॑ति च यण् । यद्यपवादेऽन्यत्र चरितार्थत्वात्ताताङि न प्रवर्तते, किंतु परेणअनेकाल्शि॑दित्यनेन बाध्यते,-जीवतात् । भवतात् । अयजे इन्द्रम्, ग्रामे इह, सर्वे इत्थम् ।-अत्र अयज इ इन्द्रम्, ग्राम इह, सर्व ई इत्थमिति स्थितेऽन्तरङ्गेण गुणेन सवर्णदीर्घो बाध्यते । तस्य असमानाश्रयेदैत्यारिः॑श्रीश॑ इत्यादौ चरितार्थत्वात्॥असिद्धमिति । तेनपचावेद॑मित्यादौएत ऐ॑ इत्यैत्वं न । अकृतव्यूहा इति । अकृतकार्या इत्यर्थः । एवं तर्हि सर्वस्य शास्त्रस्य वैयथ्र्यं स्यादत आह — निमित्तं विनाशोन्मुखं दृष्ट्वेति । लोकसिद्धार्थकथनमेतत् । यद्वा । अक्षरार्थेनाप्येतत्कथनम् । ऊह्रते तर्क्यत इत्यूहः-कार्यम् , विशिष्टो य ऊहो व्यूहो=विनाशोन्मुखनिमित्तकं कार्यम् । अकृतो व्यूहो यैस्ते अकृतव्यूहा इति । यद्यपिकृतमपि शास्त्रं निवर्तयन्ती॑ति परिभाषान्तरं पठते, फलं च तुल्यं, तथापिअकृतव्यूहा॑ इत्येव लघु,प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर॑मिति न्यायादिति भावः । न कुर्वन्तीति । यथा निषेदुषी॑मित्यादौ क्वसोरिटमन्तरङ्गत्वात्प्राप्तमपिभाविना संप्रसारणेन वलादित्वं नङ्क्षयती॑त्यालोच्य न कुर्वन्तीत्यर्थः॥इति तत्त्वबोधिन्यां परिभाषाप्रकरणम् । — — — — — — — — — — — - Padamanjari ----------- अत्र पारिभाषिकस्य'स्वरितस्य ग्रहणे रषाभ्यान्नोणः' इत्यादौ नकारादेर्व्यञ्जनस्याधिकारोपलक्षणं नोक्तं स्याद्, पारिभाषिकस्याञ्धर्मत्वादिति मत्वाह - स्वरितो नाम वर्णधर्म इति। वर्णमात्रधर्म इत्यर्थः। स चायं धर्मः सलाध्मातादितुल्यः केवलं सूत्रेष्वेव भवति, न प्रयोगे। क्वचितु स्वरितो नाम स्वरदोषो वर्णधर्म इति पाठः। तत्र स्वरदोषःऊच्चारणदोषः, अधिकारशब्दो भावसाधनः। विनियोग इति। व्यापारणम्। अथ शब्दस्यविनियुक्तस्य को व्यापार इत्याह - अधिकृतत्वादुतरत्रोपतिष्ठत इति । उपस्थानमप्येतदेव यदुतास्य तत्रबुद्धिस्थता। उतरत्रेत्युलक्षणम्, क्वचित् पूर्वत्राप्युपतिष्ठते;सूत्रकारेण पठितस्यास्य स्वरितत्वस्य संकीर्णत्वात् पाठस्य विषयविभागो दुर्ज्ञेय इत्याह-प्रतिज्ञास्वरिता इति। प्रत्याय इत्याद्यौदाहरणानि। किमर्थ पुनरिदमुच्यते, यावता निर्द्दिश्यमानं लोकेऽधिक्रियते, यथा-देवदताय गौर्द्दीयतां कम्बलश्चेति देवदतायेति गम्यते, तथा'सृ स्थिरे' इत्यादीनां साकाङ्क्षत्वादनुवृतैर्घञादिभिरेव सम्बन्धो भविष्यति? अन्यनिर्देशस्तन्निवर्तकः, तद्यथा - देवदताय गौर्द्दीयताम्, विष्णुमित्राय कम्बल इति कम्बलो गोर्निवर्तको भवति, तथेहापि ठभिविधौ भावेऽ इतीनुण् घञो निवर्तकः स्यात्, ततश्च ठाक्रोशेऽवन्येर्ग्रहःऽ इत्यादिष्वनन्तर इनुणेव स्यात्, तस्मात्परिभाषा। अधिकारपरिमाणज्ञानं तु न ज्ञायते - कियन्तमवधिमधिकारोऽनुवर्तत इति? यथा-प्रागभ्यासविकारेभ्योऽङ्गधिकारः?, धातोरिति प्राक् लादेशेभ्यः? उताध्यायस्य परिसमाप्तेः? एवं तर्ह्युभयार्थमिदम् - अधिकारार्थं च निवृत्यर्थं च । कथम्? स्वरितेनाधिकारः स्वरिते द्दष्टेऽधिकारो न भवतीत्यर्थः, तेन विंशतिकात् खः। इत्यत्र स्वरितत्वं प्रतिज्ञेयं तद्दर्शनाच्च द्वित्रिपूर्वादित्यस्य निवृत्तिरष्यते तत्र तावतिथोऽलनुबन्धनीयः, यथा - द्वित्रिपूर्वान्निष्कात् इत्यत्रेकारः। तेन द्वयोर्योगयोरनुवृत्तिर्भविष्यति । एवमन्यत्रापि यत्र तावतिथोऽल् नास्ति तत्र प्राग्वचनं कर्तव्यम्, यथा - अङ्गस्य प्राक् टेः इति तद् गुरु भवति। स्यादेतत्,व्याख्यानात् परिमाणं ज्ञास्यते इति? अधिकारोऽपि तर्हि व्याख्यानात् ज्ञायताम्। इनुण्घञिति संदेहे घञिति व्याख्यास्यामः, इनुण आनन्तर्यम्, घञोऽप्यनुवृत्तिसामर्थ्य द्दष्टमित्यस्त्येव संदेहः।'ग्रहवृद्दनिश्चिगमश्च' इत्यादिषु त्वनन्तरस्याप एवाधिकारः, न द्दष्टानुवृत्तिसामर्थ्यस्यापि घञः, सिद्धत्वाद्, व्याख्यानाद्वा। यदप्युत्प्रेक्षितम् - आकांक्षारहितेऽपि वाक्ये प्रकृतस्य सम्बन्धार्थं शास्त्रीयोऽधिकारः- यथा दूरान्तिकार्थभ्यो द्वितीया च इत्यत्र पञ्चम्यधिकार इति । तत्रापि व्याख्यानमेव शरणमिति तदेव सर्वत्रास्तु नार्थ एतेन ? इदं तर्हि प्रयोजनम् - अन्यत्र द्दष्टस्याधिकारस्य स्वरितेनोपलक्षणं यथा स्याद्, यथा -'गोस्त्रियोरुपसर्जनस्य' इत्यत्र स्त्रीग्रहणस्य, न ह्यएतल्लौकिकेनाधिकारेण सिद्धम्, आनुषङ्गिकं वास्य प्रयोजनं यत् साकाक्षेषु व्यहितस्य चानुवृत्तिः॥ Nyaas ----- `इत्थंभूतलक्षणे तृतीय` इति। स्वरितेन चिह्नेनाधिकारस्योपलक्षणीयत्वात्। यदि पारिभाषिकस्येह स्वतिस्य ग्रहणं स्यात्, **रषाभ्यां नो णः समानपदे** (8.4.1) इत्यत्र णकारण्णाकारस्याधिकारस्याधिकारता न स्यात्; परिभाषिकस्याज्धर्मत्वात्। णकारस्यानच्कत्वादिति मत्वा सर्वेषां वर्णानामचां हलाञ्च स्वरिताख्यो यो वर्णधर्मो गुणस्यस्येदं ग्रहणम्, न पारिभाषिकस्येति दर्शयन्नाह - `स्वरितो नाम स्वरदोषो वर्णधर्मः` इति। वर्णधर्मस्य तु गर्हणमधिकारावगमाय। स इह हल्यपि स्वरितासरञ्जनाद्विज्ञायते। `अधिकारो विनियोगः` इति। व्यापारकरणम्। `अधिकृतत्वादुत्तरत्रोपतिष्ठते` इति। यथा पुरुषो यत्राधिकृतो नगरादौ तत्रैवोपतिष्ठते, तथा स्वरितगुणयुक्तं शब्दरूपं सूत्रकारेण नियुक्तं सूत्रकारेण तत्र तत्रोपतिष्ठते। `उत्तरत्र` इति वचनमुपलक्षणार्थम्। क्वचित् पूर्वत्राप्युपतिष्ठत एव।क्व पुनरस्य सद्भावो भवति? क्व च वा न भवति? इत्याह - `प्रतिज्ञास्वरिताः पाणिनीयाः` इति। प्रतिज्ञया स्वरितो येषां ते तथोक्ताः। तदेतदुक्तं भवति - यत्रेव त आचार्याः स्वरितत्वं प्रतिजानते तत्रैवास्य सद्भावो भवति, नान्यत्रेति। तदपि प्रतिज्ञानं नानियमेन भवति, किं तर्हि? यत्राचार्याः स्मरन्ति तत्रैव भवति। स चायं धर्मः कलागद्युपम इति वेदितव्यः। कार्यार्थमुपादीयते, कृतकार्यस्तु निवर्तते; न तु प्रयोगसमवायी भवति। **प्रत्ययः** (3.1.1) इत्यादिना येऽधिकाराः स्वरितनावच्छिद्यन्ते तेषामुदाहरणानि दर्शयति। अथ किमर्थोऽयमधिकारः क्रियते? प्रतियोगं तस् ग्रहणं मा कार्षीदित्येवमर्थमिति चेत्, न; यथा देवदत्ताय गौर्दीयतां कम्बलश्चेत्युक्ते न च पुनरुच्यते देवदत्तायेति, अथ च प्रस्तुतत्वाद्देवदत्तस्य कम्बलश्चेत्यस्य साकाङ्क्षत्वात् तेनैव सम्बन्धो भवति; तथा च **सृ स्थिरे** (3.3.17) `भावे` (3.3.18) इत्येवमादीनामपि वाक्यानां साकाङ्क्षत्वाद्घञादीनाञ्च प्रस्तुतत्वात् तैरेव सम्बन्धो भविष्यति, तत्किमधिकरेण? सत्यमेतत्; यत्रान्य निर्देशो नास्ति तत्रोपतिष्ठते, यत्र त्वन्यनिर्देशस्तत्रासौ प्रकृतस्य निवर्तक एव स्यात्। तथा हि - गौर्दीयतां यज्ञदत्ताय कम्बलो विष्णुमित्रायेत्युक्तेऽन्यनिर्देशेन प्रस्तुतो देवदत्तो निवर्तत्ते। एवञ्चान्यनिर्देशेनास्य निवर्तकत्वे सति `अभिविधौ भाव इनुण` (3.3.44) इत्यस्येनुणो निर्देशेन प्रस्तुतस्य घञो निवर्तितत्वात् `आक्रोशेऽवन्योग्र्रहः` (3.3.45) इत्यत्रानन्तरेणेनुणा सम्बन्धः स्यात्,न पुनव्र्यवहितेन घञा,घञ् त्विष्यते। ननु च दृष्टानुवृत्तिसामर्थ्याद् घञेवानुवर्तिष्यते तेनैवाभिसम्बन्धो भविष्यति, तथा च तत्र वक्ष्यति - `दृष्टानुवृत्तिसामर्थ्यात्तत्र घञेवानुवर्तते, नानन्तर इनुण् ` इति नैतदस्ति; यदि दृष्टानुवृत्तिसामर्थ्यादघञ एवानुवृत्तिः स्यात्, तदा `ऋदोरप्` (3.3.57) इत्तत्रोत्तरेष्वपि योगेषु घञेवानुवर्तेत, नाप्प्रत्ययः। यत्पवुनर्वक्ष्यति - `दृष्टानुवृत्तिसामर्थ्यात्` इति, तत्र दृष्टानुवृत्तिसामर्थ्यशब्देन स्वरितत्वमेवोक्तम्। दृष्टमनुवृत्तौ सामर्थ्यम् - अधिकृतस्य शब्दरूपस्य यस्मादिति बहुव्रीहिकृत्वा।तस्मात् स्वरितत्वादित्ययमत्रार्थः। यद्येषोऽर्थः सूत्राकाराभिमतः स्यात्, स्वरितत्वादिति कस्मान्नोक्तमिति चेत्? न;स्वच्छन्दतो हि वचसां प्रवृत्तिः, अर्थस्तु परीक्षणीय इत्यचोद्यतमेतत्। तदेवं यतोऽन्यनिर्दशः प्रस्तुतस्य निवर्तको भवति तस्मादधिकारः कर्तव्यः। तस्मश्च क्रियमाणे तदवगमोपायदर्शनाय `स्वरितेनाधिकारः` इत्येतदिप कर्तव्यः॥ Praudhamanorama --------------- **परनित्येति।** परान्नित्यं यथा— तुदति,रुणद्धि। परमपि लघूपधगुणं बाधित्वा शश्नमौ । तथा रन्धेर्णिच् रन्धयति । परामप्युपधावृद्धिं बाधित्वा **रधिजभोः** (7.1.61) इति नुम्। न च सोऽपि शब्दान्तरप्राप्त्याऽनित्य इति वाच्यम्, कृताकृतप्रसङ्गमात्रेणापि क्वचिन्नित्यताभ्युपगमात्। अन्तरङ्गं यथा— उभये देवमनुष्याः। इह **प्रथमचरम** (1.1.33) इति परमपि विकल्पं बाधित्वा **सर्वादीनि** (1.1.27) इति सर्वनामसंज्ञा विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वात्। अपवादोऽपि यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यत एव। तद्यथा— अयजे इन्द्रं, ग्रामे इह, सर्वे इत्थम्। अत्रान्तरङ्गेण गुणेन सवर्णदीर्घो बाध्यते। स च यद्यपि यण्गुणयोरपवादस्तथापि समानाश्रये चरितार्थः। तथा च वार्तिकम्— 'इण्ङिशीनामाद् गुणः सवर्णदीर्घत्वात्' इति॥ **असिद्धमिति॥** तेन पचावेदमित्यादावेत ऐत्वं न। **अकृतव्यूहा इति॥** यद्यपि 'कृतमपि कार्यं निवर्तयन्ति' परिभाषान्तरं पठ्यते, फलं च तुल्यम्, तथापि 'अकृत' इत्येव लघु। 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति न्यायादिति भावः। **न कुर्वन्तीति।** यथा 'निषेदुषीम्' इत्यादौ क्वसोरिटमन्तरङ्गत्वात्प्राप्तमपि भाविना सम्प्रसारणेन वलादित्वं नङ्क्ष्यतीत्यालोच्य न कुर्वन्तीत्यर्थः॥ इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां परिभाषाप्रकरणम्॥ Prakriyasarvasvam ----------------- स्वरितेन चिह्नेनाधिकारो ज्ञेयः । धातोरित्याद्यधिक्रियमाणानां चिह्णतया स्वरितत्वं प्रतिज्ञायत इत्यर्थः । सूत्रेष्वनुक्तं सर्वत्र प्राक्सूत्रेभ्योऽनुवर्तते । तद् व्याख्याशरणं प्रायः स्वरितत्वं तु दुर्गमम् ॥ २४ ॥ अतएव 'अपेक्षातोऽधिकार' इति भोजोक्तिः । Sutra Prayogas -------------- * **न्यवृतन्मनोभिः** (भट्टिकाव्यम्): `द्युद्भ्यो लुङि` इति परस्मैपदविकल्पात् । * **व्यरुचन्कुमुदाऽऽकराः** (भट्टिकाव्यम्): `सर्वत्र द्युयो लुङि` इति विभाषा परस्मैपदम्। * **व्यरोचिष्ट** (भट्टिकाव्यम्): `द्युच्यो लुङि` इति परस्मैपदविकल्पेनात्मने- पदम्।