13012: अनुदात्तङित आत्मनेपदम्

Padacheda: अनुदात्त-ङितः | S | 5 | 1 |

आत्मनेपदम् | S | 1 | 1 |

Sutrartha

यस्मिन् धातौ (1) ङकारः , उत (2) अनुदात्तः स्वरः - इत्संज्ञकः अस्ति, तस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति ।

तङानावात्मनेपदम् (1.4.100) इत्यनेन त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ्-एतेषाम् तथा शानच्-कानच्-एतयोः ‘आत्मनेपदम्’ संज्ञा भवति । यस्मिन् धातौ (अ) अनुदात्तस्वरः इत्संज्ञकः अस्ति, अथवा (आ) ङकारः इत्संज्ञकः अस्ति, तस्मात् धातोः परः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - 1) ‘एधँ वृद्धौ’ अस्मिन् धातौ धकारोत्तरः अकारः अनुदात्तः अस्ति, उपदेशेऽजनुनासिक इत् (1.3.2) इत्यनेन च इत्संज्ञकः अपि अस्ति । अतः अस्मात् परः आत्मनेपदस्य प्रत्ययाः विधीयन्ते । यथा - एधते, एधेते, एधन्ते । 2) ‘शीङ्’ अस्मिन् धातौ ङकारः हलन्त्यम् (1.3.3) इत्यनेन इत्संज्ञकः अस्ति, अतः अस्मातः परः अपि आत्मनेपदस्य प्रत्ययाः विधीयन्ते । यथा - शेते, शयाते, शेरते । एतादृशाः धातवः, येभ्यः परः आत्मनेपदस्य प्रत्ययाः विधीयन्ते, ते ‘आत्मनेपदिनः धातवः’ इति नाम्ना ज्ञायन्ते ।

Sutrartha (English)

A verb that contains (a) इत्संज्ञक ङकारः, or (b) an इत्संज्ञक अनुदात्त स्वर gets the प्रत्ययाः of आत्मनेपद.

Vasu English Summary

After a root which has an indicatory अनुदात्त vowel (अनुदात्तेत्) or an indicatory ङ् (ङित्), the affixes are those of the आत्मनेपद।

Vasu English Translation

After a root which has an indicatory अनुदात्त vowel (अनुदात्तेत्) or an indicatory ङ् (ङित्), the affixes are those of the आत्मनेपद। The word ‘atmanepada’ here governs all the subsequent sutras up to sutra (1.3.77) inclusive, and is understood in them all; and will not therefore be repeated. Thus of the verb आस the final अ is anudatta and is इत्. It is therefore an atmanepadi verb. As अस्ति. So षूङ्—सूते, शीङ् शेते.

Bhashya

अनुदात्तङित आत्मनेपदम् (विकरणेभ्यः प्रतिषेधः ।) विकरणेभ्यः प्रतिषेधो वक्तव्यः । चिनुतः सुनुतः लुनीतः। ङित इत्यात्मनेपदं प्राप्नोति ॥ नैषः दोषः । नैवं विज्ञायते - ङकार इद्यस्य सोयं ङिद्, ङितः इति । कथं तर्हि ?। ङकार इद् ङित् ङित् इति । अथवोपदेश इति वर्तते । अथवोक्तमेतत् ।सिद्धं तु पूर्वस्य कार्यातिदेशादिति ॥ सर्वथा चङङ्भ्यां प्राप्नोति । एवं तर्हि धातोरिति प्रकृतं वर्तते । क्व प्रकृतम् ?। भूवादयो धातवः (1.3.1) इति । तद्वै प्रथमानिर्दिष्टम्, पञ्ञ्चमीनिर्दिष्टेन चेहार्थः । अर्थाद्विभक्तिविपरिणामो भविष्यति । तद्यथा - उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्वैनं देवदत्तमिति गम्यते । देवदत्तस्य गावोश्वा हिरण्यं च, आढ्यो वैधेयः देवदत्त इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सदर्थात्प्रथमानिर्दिष्टं द्वितीयानिर्दिष्टं च भवति । एवमिहापि पुरस्तात्प्रथमानिर्दिष्टं सदर्थात्पञ्ञ्चमीनिर्दिष्टं भविष्यति । किमर्थं पुनरिदमुच्यते ?। आत्मनेपदवचनं नियमार्थम् ॥ 2 ॥ नियमार्थोयमारम्भः । किमुच्यते नियमार्थोयमिति न पुनर्विध्यर्थोपि स्यात् ?। लविधानाद्विहितम् ॥ 3 ॥ लविधानाद्ध्यात्मनेपदं परस्मैपदं च विहितम्। अस्ति प्रयोजनमेतत् । किं तर्हीति । विकरणव्यवहितत्वात्तु नियमाप्राप्तिः ॥4 ॥ विकरणैस्तु व्यवहितत्वान्नियमो न प्राप्नोति । इदमिह संप्रधार्यं विकरणाः क्रियन्तां नियम इति किमत्र कर्तव्यम् ?। परत्वाद्विकरणाः । नित्याः खल्वपि विकरणाः, कृतेपि नियमे प्राप्नुवन्त्यकृतेपि प्राप्नुवन्ति । नित्यत्वात्परत्वाच्च विकरणेषु कृतेषु विकरणैर्व्यवहितत्वान्नियमो न प्राप्नोति । नैषः दोषः । अनवकाशो नियमः । सावकाशः । कोऽवकाशः ?। य एते लुग्विकरणः श्लुविकरणा लिङि्लटौ च । यदि पुनरियं परिभाषा ॥5 ॥ विज्ञायेत । किं कृतं भवति ?। कार्यकालं संज्ञापरिभाषम्, यत्र कार्यं तत्र द्रष्टव्यम् लस्य तिबादयो भवन्तीत्युपस्थितमिदं भवति अनुदातङित आत्मनेपदम् शेषात्कर्तरि परस्मैपदम् (1.3.78) इति ॥ एवमपीतरेतराश्रयं भवति । का इतरेतराश्रयता ?। अभिनिर्वृत्तानां लस्य स्थाने तिबादीनामात्मनेपदपरस्मैपदसंज्ञया भवितव्यम्। संज्ञया च तिबादयो भाव्यन्ते । तदितरेतराश्रयं भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । परस्मैपदेषु तावन्नेतरेतराश्रयं भवत्ति । परस्मैपदानुक्रमणं न करिष्यते । अवश्यं कर्तव्यमनुपराभ्यां कृञ्ञः (1.3.79) इत्येवमर्थम् । ननु चैतदप्यात्मनेपदानुक्रमण एव करिष्यते स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले (1.3.72) आत्मनेपदं भवति, कर्तर्यनुपराभ्यां कृञ्ञो न इति । आत्मनेपदेषु चापि नेतरेतराश्रयं भवति । कथम् ?। भाविनी संज्ञा विज्ञास्यते सूत्रशाटकवत् । तद्यथा - कश्चित्कंचित्तन्तुवायमाह - अस्य सूत्रस्य शाटकं वयेति । स पश्यति - यदि शाटको न वातव्योऽथ वातव्यो न शाटकः, शाटको वातव्यश्चेति विप्रतिषिद्धम् । भाविनी खल्वस्य संज्ञाभिप्रेता - स मन्ये वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति । एवमिहापि स लस्य स्थाने कर्तव्यः यस्याऽभिनिर्वृत्तस्यात्मनेपदमित्येषा संज्ञा भविष्यति । अथ वा पुनरस्तु नियमः । ननु चोक्तं विकरणैर्व्यवहितत्वान्नियमो न प्राप्नोति । नैषः दोषः । आचार्यप्रवृत्तिर्ज्ञापयति - विकरणेभ्यो नियमो बलीयनीति। यदयं विकरणविधावात्मनेपदपरस्मैपदान्याश्रयति - पुषादिद्युताद्यलृदितः परस्मैपदेषु (3.1.55) आत्मनेपदेष्वन्यतरस्याम् इति । नैतदस्ति ज्ञापकम् । अभिनिर्वृत्तानि हि लस्य स्थाने आत्मनेपदानि परस्मैपदानि च । यत्तर्हि - अनुपसर्गाद्वा (1.3.43) इति विभाषां शास्ति । किं पुनरयं प्रत्ययनियमः - अनुदात्तङित एवात्मनेपदं भवति, भावकर्मणोः (1.3.13) एवात्मनेपदं भवतीति । आहोस्वित्प्रकृत्यर्थनियमः - अनुदात्तङित आत्मनेपदमेव भावकर्मणोरात्मनेपदमेवेति । कश्चात्र विशेषः ?। तत्र प्रत्ययनियमे शेषवचनं परस्मैपदस्यानिवृत्तत्वात् ॥ 6 ॥ तत्र प्रत्ययनियमे शेषग्रहणं कर्तव्यं परस्मैपदनियमार्थं - शेषात्कर्तरि परस्मैपदम् (1.3.78) इति । किं कारणम् ?। परस्मैपदस्यानिवृत्तत्वात् । प्रत्यया नियताः, प्रकृत्यर्थावनियतौ, तत्र परस्मैपदमपि प्राप्नोति । तत्र शेषग्रहणं कर्त्तव्यं परस्मैपदनियमार्थम् शेषादेव परस्मैपदं भवति, नान्यत इति । क्यष आत्मनेपदवचनं तस्यान्यत्र नियमात् ॥ 7 ॥ क्यष आत्मनेपदं वक्तव्यम् । लोहितायति,लोहितायते । किं पुनः कारणं न सिध्यति ?। तस्यान्यत्र नियमात् । तद्व्यन्यत्र नियम्यते ॥ उच्यते च, न च प्राप्नोति। तद्वचनाद्भविष्यति ॥ अस्तु तर्हि प्रकृत्यर्थनियमः । प्रकृत्यर्थनियमेऽन्याभावः ॥ 8 ॥ प्रकृत्यर्थनियमेऽन्येषां प्रत्ययानामभावः । अनुदात्तङितस्तृजादयो न प्राप्नुवन्ति । नैषः दोषः । अनवकाशास्तृजादयः। उच्यन्ते च, ते वचनाद्भविष्यन्ति । सावकाशास्तृजादयः । कोऽवकाशः ?। परस्मैपदिनोऽवकाशः । तत्रापि नियमान्न प्राप्नुवन्ति । तव्यदादयस्तर्हि भावकर्मणोर्नियमान्न प्राप्नुवन्ति । तव्यदादयोप्यनवकाशाः । ते वचनाद्भविष्यन्ति ॥ चिण्तर्हि भावकर्मणोर्नियमान्न प्राप्नोति । घञ्ञ्तर्हि भावकर्मणोर्नियमान्न प्राप्नोति । तत्रापि प्रकृतं कर्मग्रहणमनुवर्तते । क्व प्रकृतम् ?। अण्कर्मणि च (3.3.12) इति । तद्वै तत्रोपपदविशेषणम्। अभिधेयविशेषणेन चेहार्थः । न चान्यार्थं प्रकृतमन्यार्थं भवति । न खल्वप्यन्यत्प्रकृतमनुवर्तनादन्यद्भवति । नहि गोधा सर्पन्ती सर्पणादहिर्भवति । यत्तावदुच्यते - नान्यार्थं प्रकृतमन्यार्थं भवतीत्यन्यार्थमपि प्रकृतमन्यार्थं भवति । तद्यथा - शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयते उपस्पृश्यते शालयश्च भाव्यन्ते । यदप्युच्यते - न खल्वप्यन्यत्प्रकृतमनुवर्तनादन्यद्भवति, नहि गोधा सर्पन्ती सर्पणादहिर्भवतीति । भवेद्द्रव्येष्वेतदेवं स्यात् । शब्दस्तु खलु येनयेनाभिसम्बध्यते तस्य तस्य विशेषको भवति । शेषवचनं च ॥ 9 ॥ शेषग्रहणं च कर्तव्यम् । शेषात्कर्तरि परस्मैपदम् (1.3.78) इति । किं प्रयोजनम् ?। शेषनियमार्थम् । प्रकृत्यर्थौ नियतौ, प्रत्यया अनियताः, ते शेषेपि प्राप्नुवन्ति । तत्र शेषग्रहणं कर्तव्यम् - शेषात्कर्तरि परस्मैपदमेव नान्यदिति । कर्तरि चात्मनेपदविषये परस्मैपदप्रतिषेधार्थम् ॥ 10 ॥ कर्तरि चात्मनेपदविषये परस्मैपदप्रतिषेधार्थं द्वितीयं शेषग्रहणं कर्तव्यम् । शेषाच्छेषे इति वक्तव्यम् । इह मा भूत् - भिद्यते कुसूलः स्वयमेवेति । कतरस्मिन्पक्षेऽयं दोषः ?। प्रकृत्यर्थनियमे । प्रकृत्यर्थनियमे तावन्न दोषः । प्रकृत्यर्थौ नियतौ, प्रत्यया अनियताः, तत्र नार्थः कर्तृग्रहणेन, कर्तृग्रहणाच्चैष दोषः ॥ प्रत्ययनियमे तर्ह्ययं दोषः । प्रत्यया नियताः, प्रकृत्यर्थावनियतौ, तत्र कर्तृग्रहणं कर्तव्यं भावकर्मणोर्निवृत्त्यर्थम् । कर्तृग्रहणाच्चैष दोषः । प्रकृत्यर्थनियमे शेषग्रहणं शक्यमकर्तुम् । कथम् ?। प्रकृत्यर्थौ नियतौ, प्रत्यया अनियताः । ततो वक्ष्यामि - परस्मैपदं भवतीति । तन्नियमार्थं भविष्यति - यत्र परस्मैपदं चान्यच्च प्राप्नोति तत्र परस्मैपदमेव भवतीति । तत्तर्हि प्रत्ययनियमे द्वितीयं शेषग्रहणं कर्तव्यम् ?। न कर्तव्यम् । योगविभागः करिष्यते । अनुदात्तङित आत्मनेपदम् । ततः - भावकर्मणोः । ततः कर्तरि । कर्तरि चात्मनेपदं भवति भावकर्मणोः । ततः कर्मव्यतिहारे कर्तरीत्येव । भावकर्मणोरिति निवृत्तम् । यथैव तर्हि कर्मणि कर्तरि भवति, एवं भावेपि कर्तरि प्राप्नोति - एति जीवन्तमानन्दः नास्य किं चिद्रुजतीति ॥ द्वितीयो योगविभागः करिष्यते - अनुदात्तङित आत्मनेपदम्। ततः भावे । ततः कर्मणि कर्मणि चात्मनेपदं भवति । ततः कर्तरि कर्तरि चात्मनेपदं भवति । कर्मणीत्यनुवर्तते, भाव इति निवृत्तम् । ततः कर्मव्यतिहारे कर्तरीत्येव, कर्मणीति निवृत्तम् । एवमपि शेषग्रहणं कर्तव्य अनुपराभ्यां कृञ्ञः (1.3.79) इत्येवमर्थम् । इह मा भूत् - अनुक्रियते स्वयमेव, पराक्रियते स्वयमेव । ननु चैतदपि योगविभागादेव सिद्धम् । न सिध्यति । अनन्तरा या प्राप्तिः सा योगविभागेन शक्या बाधितुम् । कुत एतत् ?। अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति । परा प्राप्तिरप्रतिषिद्धा तया प्राप्नोति । ननु चेयं प्राप्तिः परां प्राप्तिं बाधते । नोत्सहते प्रतिषिद्धा सती बाधितुम् । एवं तर्हि कर्तरि कर्मव्यतिहारे (1.3.14) इत्यत्र कर्तृग्रहणं प्रत्याख्यायते । तत्प्रकृतमुत्तरत्रानुवर्तिष्यते - शेषात्कर्तरि कर्तरि इति । किमर्थमिदं - कर्तरि कर्तरीति ?। कर्तैव यः कर्ता तत्र यथा स्यात्, कर्ता चान्यश्च यः कर्ता तत्र मा भूदिति । ततः अनुपराभ्यां कृञ्ञः कर्तरि कर्तरीत्येव ॥ 12 ॥

Kashika

अविशेषेण धातोरात्मनेपदं परस्मैपदं च विधास्यते, तत्रायं नियमः क्रियते। अनुदात्तेतो ये धातवो ङितश्च तेभ्य एवात्मनेपदं भवति नान्येभ्यः। अनुदात्तेद्भ्यः — आस् — आस्ते। वस् — वस्ते। ङिद्भ्यः खल्वपि — षूङ् — सूते। शीङ् — शेते॥

Siddhanta Kaumudi

अनुदात्तेत उपदेशे यो ङित्तदन्ताच्च धातोर्लस्य स्थाने आत्मनेपदं स्यात् ॥

Laghu Siddhanta Kaumudi

अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात्॥

Tattvabodhini

अनुदात्तङित आत्मनेपदम् - अनुदात्तश्च ङश्च अनुदात्तङौ, तौ इतौ यस्य सोऽनुदात्तङित् । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं संबध्यते । तत्रानुदात्तांशे तदन्तविधेः फलाऽभावादंशान्तर एव तदन्तग्रहममित्याशयेनाह — अनुदात्तेत इत्यादि ।उपदेशेऽजनुनासिक॑ इत्यतोऽनुवृत्तमुपदेशग्रहममपि ङिदंश एव संबध्यते, नान्यत्र, अव्यभिचारात्तदाह — उपदेशे यो ङिदिति । विशेष्यमन्तरेण तदन्तविधिरिह दुर्लभ इत्यत आह - धातोरिति । लस्येति । नन्विहाऽनुवृत्तेरभावादुभयमपि दुर्लभं,भूवादयः॑ इति सूत्रान्मण्डूकप्लुत्यानुवृत्तस्यधातव॑ इत्यस्य विभक्तिविपरिणामात्कथंचिद्धातोरितिपदे लब्धेऽपि लस्येत्येतन्न लभ्यत इति चेत् । अत्राहुः — इको झ॑लित्यत्र सना धातोरिवेहात्मनेपदेन लकारधात्वोरापेक्षो बोध्यः, तिङां लादेशत्वाल्लस्य च धातोर्विधानादिति । उपदेश इति किम् । चुकुटिषति ।गाङ्कुटादिभ्यः॑ इति सन आतिदेशिकं ङित्त्वम् । धातोः किम् । चङ्ङ्भ्यां माभूत् । अदुद्रुवत् । अवोचत् । ननु लावस्थायामेव वृतादिभ्यःस्यतासी॑ इत्यादिना स्यप्रत्यये कृते व्यवधानादात्मनेपदपरस्मैपदरूपनियमाऽप्रवृत्तावपि लकारसामान्याश्रयत्वेनान्तरङ्गत्वात्स्यप्रत्ययात्पूर्वमेव लस्य तिबादिषु सत्सु पक्षे परस्मैपदं पक्षे चात्मनेपदं सिध्यत्येवेतिवृद्भ्यः स्यसनो॑रिति सूत्रे स्यग्रहणं व्यर्थं [स] त्तेनैव स्यग्रहणेनविकरणेभ्यो नियमो बलीया॑निति ज्ञापितम् । तेनानुदात्तेत्त्वाद्वर्तिष्यत इत्येवं नित्यमात्मनेपदे प्राप्तेवृद्भ्यः स्यसनो॑रिति परस्मैपदमपि पक्षे भवति । तथा च विकरणेभ्यो नियमस्य बलीयस्त्वाच्चङ्ङोर्दोषः स्यादेव । अयं च पक्षःशदेः शितः॑ इति सूत्रे भाष्यकैयटयोः स्पष्टः । किं च तदन्तविधिलाभार्थमपि धातुग्रहणमावस्यकं ।धातोरेकाच॑ इत्यादिना यङ् । बोभूयते ।ऋतेरीयङ् । ऋतीयते । शेते ह्नुते इत्यत्र तु व्यपदेशिवद्भावेन ङिदन्तत्वम् ।नमोवरिवश्चित्रङ॑ इति क्यचि चित्रीयते इत्येतत्कथमिति चेत् । अत्राहुः - अवयवेऽचरितार्थो ङकार क्यजन्तस्य विशेषणं भवति । तथा च समुदायानुबन्धो ङकार इति व्यपदेशिवद्भावेनैव ङिदन्तत्वं बोध्यमिति ।

Padamanjari

अविशेषेणेत्यादि। लस्य तिबादयः,’लटः शतृशानचौ’ ‘लिटः कानज्वा’ ‘क्वसुश्च’ ‘लृटःद्वा’ इत्यात्मनेपदपरस्मैपदयोर्विहित्वादापादपरिसमाप्तेर्नियमार्थं प्रकरणमित्यर्थः । एकवाक्यतया विधावितरेतराश्रयणप्रसङ्गः। स्यादेतत् - यथा’बहुषु बहुवचनम्’ ‘कर्मणि द्वितीया’ ठ्ङ्याप्प्रातिपदिकात्ऽइत्येतैरेकवाक्यभूतैः स्वादीनां विशिष्टविधिः, एवमनेन प्रकारेण लस्य तिबादय इत्यादिभिश्च तिङमपि विशिष्टविधिरस्तु इति, यद्येवम्; आत्मनेपदपरस्मैपदसंज्ञाभ्यां तिबादीनां विधिः, विहितानां च संज्ञाभ्यां भाव्यमितीतरेतराश्रयं प्राप्नोति। स्वरूपेण विशिष्टविधौशत्रादिष्वतिप्रसङ्गः। स्यान्मतम्-लस्य तिप्तस्झिसिप्थस्थमिप्वस्मम् लस्य तिबादयो भवन्ति, ततः ठनुपरभ्यांकृञःऽ-कर्तर्यनुपूर्वात् करोतेः परस्य लस्य तिबादयो भवन्ति। किमर्थमिदम्?’गन्धनावक्षेपणस्वरितञितः’ इति वक्ष्यति, तिद्वाधनार्थं कर्तृग्रहणम्;ठ्भावकर्मेणोःऽ इति वक्ष्यमाणस्य तङे बाधो मा भूदिति । एवम् ठभिप्रत्यतिभ्यः क्षिपःऽ इत्यादि’लुटि च क्लुपः’ इत्येवमन्तं कृत्वा ततः ठनुदातङ्तिस्तातांझथासाथान्ध्वमिड्वहिमहिङ्ऽ, अनुदातङ्तिः परस्य लस्य तादयो भवन्ति, तिबादीनामपवादः, ततो’भावकर्मणोः’ इत्यादि,’विभाषोपपदेन प्रतीयमाने’ इत्येवमन्तं करिष्यते, तत्रायमप्यर्थः-आत्यनेपदग्रहणं शेषग्रहणं परस्मैपदग्रहणं च न कर्तव्यं भवति। एवमपि प्रकरणान्तरावस्थितानां शत्रादीनां नियमो न स्याद्, अतो न स्वरूपेण विशिष्टविधिर्युक्तः। संज्ञाश्रयणे तु यत्रैत्संज्ञकयोर्विधानं तत्र सर्वत्रोपस्थानान्नायं दोषः, किं त्वितरेतराश्रयः प्राप्नोति। यदि त्वस्य सूत्रस्य शाटकंवयेतिवद् भाविनी संज्ञा विज्ञायेत, ततो नेतरेतराश्रयं लाघवं प्रति न कश्चिद्विशेष इति किं मुधा भाविसंज्ञाश्रयणखेदेनेति भिन्नवाक्यतया नियमपक्ष एवाश्रितो वृत्तिकारेण। यद्येवम्, विकरणव्यवधाने नियमाप्रसङ्गः, लिङ्लिट्श्नम्श्लुलुक्षु वचनानुबन्धयोरर्थत्वाद् । इह हि विकरणानामवकाशः- अलादेशाश्चानशादयः;नियमस्यावकाशः,यत्र विकरणा न सन्ति-स्पर्द्धिषीष्ट, पस्पर्द्धे, आस्ते, शेते, अरर्ति,जुहोति, भिनति, भूयदित्यादि;एधते, कुरुते, निविशते इत्यादावुभयप्रसङ्गे परत्वाद्विकरणेषु कृतेषु तैर्व्यवधानान्नियमो न स्याद्। असति नियमे, यदि तावत् प्रकृतिनियमोऽनुदातङ्दाइदिभ्य आत्मनेपदमेव, शेषाद्धातोः परस्मैपदमेवेति,ततोऽस्मिन् विषये उभयप्रसङ्गः;प्रत्ययनियमेऽपि तुल्यजातीयस्य नियमेन व्यावृत्तिरिति धातोरनन्तरस्य लस्य यद्यात्मनेपदपरस्मैपदे भवतः, अनुदातङ्च्छेषानिन्तरमेवेत्येवं नियमो विज्ञायमानो धात्वन्तरादेव व्यावर्तयेदिति विकरणव्यवधाने नियमाप्रवृतावुभयप्रसङ्ग एव। एकवाक्यतया विधाने तु नायं दोषः, विहितेषु लादेशेषु सार्वधातुकापेक्षैर्विकरणैर्भाव्यम्, विधानं चानेन प्रकरणेन सहेति नेतः प्राग्विकरणसम्भवः। स्यादयो लावस्थायां विधीयमाना अपि लकारविशेषापेक्षत्वद्बहिरङ्गा इति लमात्रापेक्षेष्वन्तरङ्गेष्वादेशेषु कृतेष्वेव भविष्यन्तीति न तत्रापि दोषः। ज्ञापकात् सिद्धम्, यदयं’वृद्भ्यः स्यसनोः’ इति स्ये विकल्पं शास्ति, तज्ज्ञापयति-विकरणेभ्यो नियमो बलीयानिति। एतेनैतदपि निरस्तम्-चङ्ङ्भ्यामात्मनेपदप्रसङ्ग इति, कथम्?पूर्वनियमे प्रवृते पश्चात् चङ्ङै भवत इति। प्रत्येकमिच्छब्दस्यान्वय इत्याह-अनुदातेत इति। ये धातवो ङ्तिश्चेति। समुदायसम्बन्धे तु चक्षिङ् एव स्यात्;स ह्यनुदातेन पठ।ल्ते, विचक्षण इत्यत्र युज्यथा स्याद्। ञकारस्त्वनुदातेत्वनिबन्धनस्यात्मनेपदस्यानित्यत्वज्ञापनार्थः, तेन ठेवायं नागः सहति कलभेभ्यः परिभवम्ऽ’न सहामि साहसमसाहसिकि’ इत्यादि सिद्धम्। धातव इत्येतत् कुतो लभ्यते? केचिधुः-ठ्भूवादयो धातवःऽ इत्यतो धातुग्रहणमनुवर्तते, तच्च ठनुदातङ्तिःऽ इत्यनेन सामानाधिकरण्यात् पञ्चम्या विपरिणम्यते, अत एव चङ्ङ्भ्यामात्मनेपदं न भवतीति। यङ्न्तादपि तर्हि न प्राप्नोति बेभिद्यत इति, यणेóव ह्यत्र ङ्द्, नि तदन्तो धातुः, अवयवे चाचरितार्थं लिङ्गं समुदायस्य विशेषकं भवति, तस्मदिह धातोरिति नानुवर्त्यम्। प्रायोवृता तु वृतौ धतव इत्युक्तम्। चङ्ङेस्तु परिहार उक्त एव। यद्ययं प्रकृतिनियमः स्याद् अनुदातङ्ति आत्मनेपदमेवेति, तृजादयो न स्युः?वचनाद् भविष्यन्ति। अस्ति वचनस्यावकाशः-परस्मैपदिनः,तत्रापि नियमः-शेषात् परस्मैपदमेवेति, तेन वचनाद् भविष्यन्ति। तुल्यजातीयस्य च नियमेन व्यावृत्तिः, कश्च तुल्यजातीयः? आत्मनेपदस्य परस्मैपदम्, तस्य च तत्। एवमपि’शेषात् कर्तरि’ इति शेषग्रहणं न कर्तव्यं प्रकृतिनियमपक्षे, कथम्? प्रकृतयो नियताः, आत्मनेपदं परस्मैपदं चानियतम्, ततो वक्ष्यामि-परस्मैपदमिति, तन्नियमार्थं भविष्यति-यत्र परस्मैपदं चान्यच्च प्राप्नोति तत्र परस्मैपदमेवेति। प्रत्ययनियमस्तु नान्तरेण शेषग्रहणं शक्यो विज्ञातुमिति शेषग्रहणं कुर्वतः सूत्रकारस्य स एवाभिप्रेत इत्याह-तेभ्य आत्मनेपदं भवति, नान्येभ्य इति । यदि प्रत्ययनियमोऽयम्?’शेषात् कर्तरि परस्मैपदम्’ इत्यत्र यदि तावदेवं नियमः-कर्तरि यदि भवति शेषदेवेति, ततोऽशेषत् कर्तरि मा भूद्, भावकर्मणोस्तु शेषाच्च परस्मैपदं प्राप्नोति। अथ शेषाद्यदि भवति कर्तर्येवेति? ततः शेषाद् भावकर्मणोर्मा भूद्, अशेषातु भावकर्मकर्तृषु त्रिष्वपि प्राप्नोति। न चैकस्मिन्वाक्ये नियमद्वयं शक्यं विज्ञातुम्-शेषादेव भवति, तत्रापि कर्तर्येवेति । एवं तर्हि योगविभागेन नियमद्वयं तत्रैव साधयिष्यामः। आस्त इत्यादि। ठास उपवेशनेऽ ‘वस आच्छादने’ ‘षूङ् प्राणिप्रसवे’ ,शीङ्स्वप्नेअदादयः।’शीङ्ः सार्वधातुके गुणः’ ॥

Nyaas

तत्रायं नियमः क्रियते इति। विधीयमानत्वात् प्रधानस्य प्रत्ययस्य न तु प्रकृतेरिति विज्ञायते। अत एवाह - अनुदात्तेतो ये धातवो ङितश्च तेभ्यः इति। यदि पुनरयं प्रकृतिनियमः स्यात्, तदा किं स्यात्? अनुदात्तङिद्भ्यः प्रत्ययान्तरं न स्यात्। कामं वचनसामर्थ्यात् प्रत्ययान्तरमपि भविष्यतीत्येष दोषः शक्यते परिहर्तुम्। यस्तु वचनसामर्थ्यद्वारेणाभीष्टेऽर्थे प्रतीयमाने प्रतिपत्तिगौरवदोषः स्यात्, सोऽपरिहार्य एव। यदि तर्हि प्रत्ययनियमोऽयम्, तदा प्रकृतीनामनियतत्वात् ताभ्यः परस्मैपदमपि स्यात्? न भविष्यति; शेषात्कर्तरि परस्मैदपदम् (1.3.78) इति द्वितीयनियमविधानात् शेषादेव परस्मैपदम्, नान्यस्मादिति। आस्ते इत्यादि। आस उपवेशने (धातुपाठः-1021) वस आच्छादने (धातुपाठः-1023), षूङ प्राणिगर्मविमोचने (धातुपाठः-031) , शीङ स्वपने (धातुपाठः-1032), अदादित्वाच्छपो लुक्। शेते इति। शीङः सार्वधातुके गुणः (7.4.21) ॥

Prakriyasarvasvam

अनुदात्तेद्‌भ्यो ङिद्‌भ्यश्चात्मनेपदं स्यात् । अनुदात्तेत्त्वस्वरितेत्त्वादि धातुपाठे बोध्यम् । एधादयोऽनुदात्तेतः । एधते, स्पर्धते । अनुदात्तेतामात्मनेपदमनित्यम् । तेन वलत इति प्राप्ते वलतीत्यपि । एवं योत्स्यामीत्युक्तेऽर्थादिषौ प्रतीतिः इति । तथा ‘तालैः शिञ्जद्वलयसुभगैः’, ‘तृष्णे जृम्भसि पापकर्मपिशुने’, ‘पायं पायमरं- सिषम्’, ‘स्फायन्निर्मोकसन्धिः’, इत्यादि । ङितस्तु शीङ्, शेते ।

Sutra Prayogas

  • आगाधत (भट्टिकाव्यम्): अनुदात्तङित आत्मनेपदम् इत्यनुदात्तेत्त्वादात्मनेपदम्।

  • निरवर्त्स्यन्न (भट्टिकाव्यम्): वृद्भ्यः स्य-सनोः इति विभाषापरस्मैपदम्।

  • पुनरावर्त्स्यतां (भट्टिकाव्यम्): वृद्भ्यः स्य- सनोः इति परस्मैपदम् ।

  • निर्वर्त्स्यत्यृतु-संघातः (भट्टिकाव्यम्): वृद्भ्यः स्यसनोः इति विकल्पः।

  • स्यन्दिष्यते (भट्टिकाव्यम्): वृद्भ्यः स्य- सनोः इति परस्मैपदविकल्पः।