12071: श्वशुरः श्वश्र्वा

Padacheda: श्वशुरः | S | 1 | 1 |

श्वश्र्वा | S | 3 | 1 |

Sutrartha


Vasu English Summary

The word श्वशुर ‘father-in-law’, is optionally only retained, when spoken of along with श्वशुरू ‘mother-in-law’.

Vasu English Translation

The word श्वशुर ‘father-in-law’, is optionally only retained, when spoken of along with श्वशुरू ‘mother-in-law’. Thus श्वशुरः + श्वश्रू may be either श्वशुरौ ‘father-in-law and mother in-law,’ or श्वश्रश्वशुरौ ॥

Bhashya

श्वशुरः श्वश्र्वा ॥ सूत्रप्रयोजनाधिकरणम् ॥ किमर्थमिदमुच्यते। न पुमान्स्त्रिया (1.2.67) इत्येव सिद्धम्? - भ्रातृपुत्रपितृश्वशुराणां कारणाद् द्रव्ये शब्दनिवेशः - भ्रातृपुत्रपितृश्वशुराणां कारणाद् द्रव्ये शब्दनिवेशो भवति। - भ्रातृपुत्रपितृश्वशुराणां कारणाद् द्रव्ये शब्दनिवेश इति चेत्तुल्यकारणत्वात्सिद्धम् - यदि तावद्विभर्तीति भ्राता, स्वसर्यप्येतद्भवति। तथा- यदि पुनातीति प्रीणातीति वा पुत्रः, दुहितर्यप्येतद्भवति। तथा यदि पाति पालयतीति वा पिता, मातर्यप्येतद्भवति। तथा यद्याश्वाप्तव्यः श्वशुरः, श्वश्र्वामप्येतद्भवति। - दर्शनं वै हेतुः - नहि स्वसरि भ्रातृशब्दो दृश्यते। - दर्शनं हेतुरिति चेत्तुल्यम् - दर्शनं हेतुरिति चेत्तुल्यमेतद्भवति। स्वसर्यपि भ्रातृशब्दो दृश्यताम्। तुल्यं हि कारणम्। - न वा एष लोके सम्प्रत्ययः - नहि लोके भ्राताऽऽनीयताम् इत्युक्ते स्वसाऽऽनीयते। - तद्विषयं च - तद्विषयं चैतद् द्रष्टव्यं भवति- स्वसरि भ्रातृत्वम्। किंविषयम्? एकशेषविषयम्। युक्तं पुनर्यन्नियतविषया नाम शब्दाः स्युः? बाढं युक्तम्। - अन्यत्रापि तद्विषयदर्शनात् - अन्यत्रापि नियतविषयाः शब्दा दृश्यन्ते। तद्यथा- समाने रक्ते वर्णे गौर्लोहित इति भवति अश्वः शोणः इति। समाने च काले वर्णे गौः कृष्ण इति भवति अश्वो हेम इति। समाने च शुक्ले वर्णे गौः श्वेत इति भवति अश्वः कर्क इति ॥ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ॥ पिता मात्रा ॥ 70 ॥ श्वशुरः श्वश्र्वा ॥ 71 ॥

Kashika

अन्यतरस्यामिति वर्तते। श्वश्र्वा सहवचने श्वशुरशब्दः शिष्यतेऽन्यतरस्याम्। श्वशुरश्च श्वश्रूश्च श्वशुरौ, श्वश्रूश्वशुराविति वा॥

Siddhanta Kaumudi

श्वश्वा सहोक्तौ श्वशुरो वा शिष्यते तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वाशुरश्च श्वाशुरौ । श्वश्रूश्वाशुरौ वा ॥

Balamanorama

श्वशुरः श्वश्र्वा - नन्वस्तु हल्सूत्रे लकारस्य इत्संज्ञा । ततः किमित्यत आह — आदिरन्त्येन सहेता । अन्ते भवः अन्त्यः । तेन इता सहोच्चार्यमाणः आदिः अण् अच् इत्यादिरूपः संज्ञेत्यर्थः । तत्रयस्मात्पूर्वं नास्ति परमस्ति स आदिः, यस्मात्परं नास्ति पूर्वमस्ति सोऽन्तः॑ इति आद्यन्तवत्सूत्रे भाष्यम् । तदिहाद्यन्तशब्दाभ्यां मध्यगा आक्षिप्यन्ते । अतस्तेषां संज्ञेति लभ्यते ।स्वं रूपं॑मिति पूर्वसूत्रात्स्वमित्यनुवर्तते । तच्च षष्टयन्ततया विपरिणम्यते । तदेतदाह — अन्त्येनेतेत्यादि । स्वस्य चेति । अत्र च स्वशब्देन संज्ञाकोटि प्रविष्ट आदिरेव परामृश्यते, नत्वन्त्योऽपि, अन्त्येनेति तृतीयया ‘सहयुक्तेऽप्रधाने’ इति विहितया तस्य अप्राधान्यावगमात्, सर्वनाम्नां चोत्सर्गतः प्रधानपरामर्शित्वात् । न च इक् उक् इच् यय् मयित्यादिप्रत्याहाराः कथं स्युः, इकारादीनामादित्वाऽभावादिति वाच्यं, न हि सूत्रापेक्षमिहादित्वं किंतु आद्यन्तशब्दाक्षिप्तसमुदायापेक्षम् । ततश्च ऐउणिति इकारमारभ्य ॠलृगिति ककारपर्यन्तं वर्णसमुदायं बुद्ध्या परिकल्प्य तदादित्वमिकारस्य संभावनीयम् । एवमिजादिष्वपि । तथा अन्त्यत्मपि बुद्धिकल्पितसमुदायापेक्षमेव न तु सूत्रापेक्षम् । ततश्च रप्रत्याहारः सुग्रहः । अन्यथा लण्सूत्रे अकारस्याऽन्त्यात्वाभावात्स न स्यात् । अत्र आद्यन्तशब्दयोरन्यतराऽभावे मध्यगानामिति न लभ्येत । आदिरित्यस्याऽभावे हि अन्त्येनेता सहोच्चार्यमाणो वर्णोऽन्त्यात्प्राग्भाविनां वर्णानां संज्ञेत्येव लभ्येत । ततश्च हल्प्रत्याहारे अकारादीनामपि ग्रहणं स्यात्, अन्त्यलकारात्पूर्वभावित्वाविशेषात् । अन्त्येनेत्यस्याऽभावे तु आदिरिता सहोच्चार्यमाण आदिरूध्र्वभाविनां वर्णानां संज्ञेत्येव लभ्येत । ततश्च अच्प्रत्याहारे हकारादीनामपि ग्रहणापत्तिः, आदेरकारादूध्र्वभावित्वाऽविशेषात् । उभयोरुपादाने तु मध्यगानामिति लभ्यते इत्यदोषः । परस्मिन् सति यस्मात्पूर्वो नास्ति स आदिः, पूर्वस्मिन् सति यस्मात्परो नास्ति सोऽन्त्य इति भाष्ये आद्यन्तशब्दार्थनिर्वचनेन आद्यन्तयोर्मध्यगाऽविनाभूतत्वेन ताभ्यां मध्यगानामाक्षेपात् । यद्यपि द्वयोरप्याद्यन्तशब्दौ संभवतः, उक्तनिर्वचनाऽविरोधात्, तथापि नेह द्वयोराद्यन्तशब्दौ भवतः । तथा सति हि अन्त्येनेता सह उच्चार्यमाण आदिः स्वस्य आदेः संज्ञेत्येव लभ्येत, उक्तरीत्या स्वशब्देन अन्त्यस्य परामर्शाऽसंभवात् । ततश्च उणित्युकारस्य संज्ञेति पर्यवस्येत् । तत्र एकस्य वर्णस्य वर्णद्वयात्मकसंज्ञाविधानं व्यर्थमापद्येत, गौरवात्, प्रत्याहाराणां व्यवहारलाघवार्थत्वात् । अतो मध्यमसत्त्व एवाऽत्र आद्यन्तशब्दाविति ताभ्यां मध्यगानामिति लभ्यते । इतेति किम् । अम्प्रत्याहारो ञमङणेति मकारेण मा भूत् । नचैवमपि सुट्प्रत्याहारः ‘टा’ इति टकारेण किं न स्यात्, टान्तसमुदायापेक्षया तस्य अन्त्यत्वादिति वाच्यम् । प्रथमातिक्रमणे कारणाऽभावेन सुट्प्रत्याहारस्य औटष्टकारेणैव ग्राह्रत्वात् । उक्तं च जैमिनिना — ॒प्रथमं वा नियम्येत कारणस्यानतिक्रमात् ।॑ इति । विस्तरभयाद्विरम्यते । इति हल्संज्ञायामिति । हल्सूत्रे लकारस्य हलन्त्यमित्यावृत्तप्रथमसूत्रेण इत्संज्ञायां सत्यामादिरन्त्येनेति हल्संज्ञासिद्धौ चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानां हल्त्वं सिद्धमित्यर्थः ।

Tattvabodhini

श्वशुरः श्वश्र्वा - अन्त्येनेति किम् ।सु॑डिति प्रत्याहारस्तृतीयैकवचनावयवेन भूदिति काशिकाकृत् । यद्यपि टकारान्तसङ्घस्य टाटकारोऽप्यन्त्यो भवति, तथाप्यन्त्येनेति ग्रहणसामर्थ्यादन्त्यत्वप्रयुक्ता यस्येत्संज्ञा तेनैव प्रत्याहारः, न हि टाटकारेहलन्त्यम् इतीसंज्ञा प्रवर्तते । नचैवंर॑प्रत्याहाराऽसिद्धिः । लण्सूत्रस्थाऽवर्णस्यानुनासिकत्वप्रतिज्ञासामर्थ्यादनन्त्येनापि इता प्रत्याहारात्तत्सिध्यतीति काशिकाकाशशयः । निष्कर्षस्त्विह-॒स्वौजसमौट्-॑ इति सूत्रे दर्शयिष्यते । विस्तरस्तु शब्दकौस्तुभेऽनुसन्धेयः । इतेति किम् । रप्रत्याहारो यथा स्यात् । स ह्रनुनासिकत्वप्रतिज्ञासामर्थ्यादनन्त्येनापि गृह्रत इत्युक्तम्, न चैतदितेत्यस्य विरहे लभ्यत इति शब्दकौस्तुभे स्थितम् । अत्राद्यन्ताभ्यामवयबाभ्यामवयवी समुदाय आक्षिप्यते । तस्य च युगपल्लक्ष्ये प्रयोगाऽभावात्तदवयवेष्वलवतरन्ती संज्ञा मध्यगेषु विश्राम्यति, नत्वाद्यन्तयोः, संज्ञास्वरूपान्तर्भावेण तयोः पाराथ्र्यनिर्णयादित्याशयेनाह-मध्यगानामिति । स्वस्य चेति ।स्वं रूपम् इत्यनुवर्तत इति भावः । स्वं रूपां चादेरेव गृह्रते नान्त्यस्य,अन्त्येन॑ इत्यप्रधानतृतीयानिर्देशात् । सर्वनाम्नामुत्सर्गतः प्रधानपरामर्शित्वात् । ननुस्व॑मित्यस्यानुवृत्तौकः संज्ञी॑ इत्याकाङ्क्षायाः शान्तत्वादवयव्याक्षेपो न स्यात् । तथा चइकोयणचि॑ इत्यादाविकारस्य स्थाने यकारः स्यादकारे परे इत्येवमर्थः स्यात् । मैवम् । आदेरेव संज्ञित्वे तुआदिरन्त्येन॑ इति संज्ञाकरणस्यैव वैयथ्र्यापत्तैः । किंच अण्-अक्-अच्-अट्-अम्-अशादीनां पृथङ्निर्देशोऽपि व्यर्थः स्यात्, सर्वत्राऽकारस्यैव संज्ञित्वादिति दिक् । शब्दकोस्तुभे तु-आद्यन्तावयवद्वारा समुदायानुकरणेन सिद्धेऽन्त्यव्यावृत्त्यर्थमिदं सूत्रमिति स्थितम्॥

Padamanjari

पितृश्वशुरौ मातृश्वक्षूभ्यामिति नोक्तम्, लाघवार्थम् । श्वश्रूशब्दोऽव्युत्पन्नं प्रातिपदिकं श्वशुरस्योकाराकारलोपश्चेत्यूङ्न्तत्वे प्रत्ययान्तत्वाद् ब्रह्मबन्धूरित्यादिवदेकदेशाभावाच्चाप्रातिपदिकत्वेऽपि श्वश्रेत्यस्मादेव निर्देशाल्लिङ्गात् सुपस्तद्धिताश्च भवन्ति । श्वश्रूश्वशुराविति । अभ्यर्हितत्वादेव पूर्वनिपातः, ऽश्वश्रूः पूर्वजपत्नी च मातृतुल्या प्रकीर्तिताऽ अत्रापि दम्पत्योर्जनयितृत्वमात्रविवक्षायां लिङ्गाविवक्षायां समर्थनीयम् । अनारम्भपक्षेऽपि श्वश्रूश्वशुरावित्यभिधाने द्वन्द्वस्त्विष्यत वेति, नार्थ एतेन ॥