12070: पिता मात्रा¶
Padacheda: पिता | S | 1 | 1 |
मात्रा | S | 3 | 1 |
Sutrartha¶
Vasu English Summary¶
The word पितृ ‘father’ is optionally only retained when spoken of along with मातृ ‘mother’.
Vasu English Translation¶
The word पितृ ‘father’ is optionally only retained when spoken of along with मातृ ‘mother’. Thus पिता + माता = पितरौ ‘father and mother, or parents’ or मातापितरौ. The verse quoted under sutra (1.2.68) illustrates this sutra also. There the word pitarau’ has been explained by all commentators as “father and mother.” The word “ekavad” of the last sutra does not govern this sutra; though the anuvritti of ‘optionally’ is to be read into this.
Bhashya¶
पिता मात्रा
Kashika¶
अन्यतरस्यामिति वर्तते नैकवदिति। मात्रा सहवचने पितृशब्दः शिष्यतेऽन्यतरस्याम्। माता च पिता च पितरौ, मातापितराविति वा॥
Siddhanta Kaumudi¶
मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ । मातापितरौ ॥
Laghu Siddhanta Kaumudi¶
मात्रा सहोक्तौ पिता वा शिष्यते। माता च पिता च पितरौ, मातापितरौ वा॥
Tattvabodhini¶
पिता मात्रा - पितामात्रा ।
Padamanjari¶
अभ्यर्हितत्वान्मातुः पूर्वनिपातः, ऽपितुर्दशगुणं माता गौरवेणातिरिच्यतेऽ । पितरावित्यभिधानं जनयितृत्वमात्रविवक्षायां लिङ्गाविवक्षायां समर्थनीयम् । एकशेषारम्भेऽपि द्वन्द्वस्त्विष्यत एवेति नार्थ एतेन ॥
Nyaas¶
पितरौ इति। ऋतो ङि (7.3.110) इति गुणः। मातापितरौ इति। आनङृतो द्वन्द्वे (6.3.24) इत्यानङ, अभ्यर्हितत्वन्मातुः पूर्वनिपातः॥
Prakriyasarvasvam¶
मात्रा सहोक्तौ पिता वा शिष्यते । पितरौ । मातापितरौ । आनङत्र वक्ष्यते ॥
Sutra Prayogas¶
पितरौ (रघुवंशम्): पिता मात्रा इति द्वन्द्वैकशेषः।
पित्रोः (रघुवंशम्): पिता मात्रा इत्येकशेषः।
पितरौ (कुमारसम्भवम्): पिता मात्रा इत्येकशेषः।
पित्रोः (कुमारसम्भवम्): पिता मात्रा इत्यैकशेषः।