12072: त्यदादीनि सर्वैर्नित्यम्

Padacheda: त्यद्-आदीनि | S | 1 | 3 |

सर्वैः | S | 3 | 3 |

नित्यम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The pronouns त्यद् etc. when spoken of along with any other noun, (pronoun other than त्यद् etc.) are always retained as एकशेष (to the exclusion of others).

Vasu English Translation

The pronouns त्यद् etc. when spoken of along with any other noun, (pronoun other than त्यद् etc.) are always retained as एकशेष (to the exclusion of others). The list of ‘tyadadi’ pronouns has been given under sutra (1.1.27). They are 12 words beginning with ‘tyad’ and ending with ‘kim;’ when these tyadadi pronouns are compounded with any other noun, (or a pronoun, which does not belong to their class), they prevail, the rest are dropped. The word ‘sarva’ is used in the aphorism to indicate ‘universality’; i. e. what ever may be the word in composition with them, the ‘tyad &c.’ are retained to the exclusion of others. The word ‘nitya’ is used to indicate that this is an obligatory rule, and not optional, as were the last rules.

Thus सः (he) + देवदत्तः (Devadatta) = तौ (they two).

Vart:- When त्यदादि words are compounded among themselves, the word which is read last in the order given in the Ganapatha remains, the rest are dropped. Thus यः + सः = यौ; यः + कः = कौ ॥ Thus यद् is read after तद् (see (1.1.27)). So यद् will be retained and not तद्. Similarly किम् is read after यद्, and therefore किम् is retained to the exclusion of यद्.

Bhashya

त्यदादीनि सर्वैर्नित्यम् - त्यदादितः शेषे पुन्नपुंसकतो लिङ्गवचनानि - त्यदादितः शेषे पुन्नपुंसकतो लिङ्गवचनानि भवन्ति। सा च देवदत्तश्च तौ। सा च कुण्डे च तानि। - अद्वन्द्वतत्पुरुषविशेषणानाम् - अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम्। इह मा भूत्- स च कुक्कुटः, सा च मयूरी, कुक्कुटमयूर्यौ ते। अर्द्धं पिपल्यास्तत्, अर्द्धपिप्पली च सा- अर्द्धपिप्पल्यौ ते। ॥ प्रत्याख्यानाधिकरणम् ॥ अयमपि योगः शक्योऽवक्तुम्। कथम्? - त्यदादीनां सामान्यार्थत्वात् - त्यदादीनां सामान्यमर्थः। आतश्च सामान्यं देवदत्तेऽपि हि स इत्येतद्भवति, यज्ञदत्तेऽपि। त्यदादीनां सामान्यार्थत्वाच्छेषो भविष्यति। इदं तर्हि प्रयोजनं- परस्य शेषं वक्ष्यामि इति। - परस्य चोभयवाचित्वात् - उभयवाचि परम्। - पूर्वशेषदर्शनाच्च - पूर्वस्य खल्वपि शेषो दृश्यते- स च यश्च तावानय यावानय इति। इदं तर्हि प्रयोजनं- द्वन्द्वो मा भूत् इति। एतदपि नास्ति प्रयोजनम्। - सामान्यविशेषवाचिनोश्च द्वन्द्वाऽभावात्सिद्धम् - सामान्यविशेषवाचिनोश्च द्वन्द्वो न भवतीति वक्तव्यम्। यदि सामान्यविशेषवाचिनोर्द्वन्द्वो न भवतीत्युच्यते, शूद्राभीरम् गोबलीवर्दम् तृणोलपम् इति न सिध्यति। नैष दोषः। इह तावच्छूद्राभीरमिति,- आभीरा जात्यन्तराणि। गोबलीवर्दम् इति,- गाव उत्कालितपुंस्का वाहाय च विक्रयाय च, स्त्रिय एवावशिष्यन्ते। तृणोलपमिति,- अपामुलपमिति नामधेयम्। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। सामान्येनोक्तत्वाद्विशेषस्य प्रयोगो न भविष्यति। सामान्येनोक्तत्वात्तस्यार्थस्य, विशेषस्य प्रयोगेण न भवितव्यम्। किं कारणम्? उक्तार्थानामप्रयोग इति। न तर्हीदानीमिदं भवति- तं ब्राह्मणमानय गार्ग्यम् इति? भवति। यदा नियोगतस्तस्यैवानयनं भवति। एवं तर्हि येनैव खल्वपि हेतुनैतद्वाक्यं भवति- तं ब्राह्मणमानय गार्ग्यम् इति। तेनैव हेतुना वृत्तिरपि प्राप्नोति। तस्मात्सामान्यविशेषवाचिनोर्द्वन्द्वो न भवतीति वक्तव्यम् ॥ त्यदादीनि सर्वैर्नित्यम् ॥ 72 ॥

Kashika

त्यदादीनि शब्दरूपाणि सर्वैःसहवचने नित्यं शिष्यन्ते, त्यदादिभिरन्यैश्च। सर्वग्रहणं साकल्यार्थम्। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्। स च देवदत्तश्च तौ। यश्च देवदत्तश्च यौ॥ त्यदादीनां मिथो यद् यत् परं तत् तच्छिष्यते॥ स च यश्च यौ। यश्च कश्च कौ॥

Siddhanta Kaumudi

सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते ॥ स च देवदत्तश्च तौ ।<!त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते !> (वार्तिकम्) ॥ स च यश्च यौ । पूर्वशेषोऽपि दृश्यत इति भाष्यम् । स च यश्च तौ ।<!त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि !> (वार्तिकम्) ॥ सा च देवदत्तश्च तौ । तच्च देवदत्तश्च यज्ञदत्ता च तानि । पुंनपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते । तच्च देवदत्तश्च ते ।<!अद्वन्द्वतत्पुरुषविशेषानामिति वक्तव्यम् !> (वार्तिकम्) ॥ कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तच्च सा च अर्धपिप्पल्यौ ते ॥

Balamanorama

त्यदादीनि सर्वैर्नित्यम् - त्यदादीनि । सर्वैरिति । त्यदादिभिरितरैश्चेत्यर्थः । ताविति । अत्र देवदत्तशब्दो निवर्तते । तच्छब्दस्तु शिष्यते । तद्देवदत्ताविति न भवति ।सर्वैः किम् । प्रत्यासत्त्या त्यदादिभिरेव सहोक्तावित्यर्थो मा भूदित्येतदर्थम् । त्यदादीनां मिथ इति । भाष्ये स्थितमेतत् । यत्परमिति । त्यदादिगणे यत्परं पठितं तच्छिष्यत इत्यर्थः । शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यौ, सा च या च ये इति । त्यदादिगणे यच्छब्दस्य तच्छब्दादूध्र्वं पाठात् परत्वात्स एव शिष्यते इति भावः, पूर्वशेषोऽपीति । परशब्दस्येष्टवाचित्वात्क्वचित्पूर्वमपि शिष्यत इति । भावः । अत्रद्विपर्यन्ताना॑मिति न भवति । अहं च भवांस्चावामिति भाष्योक्तेः । त्यादादित इति । आद्यादित्वात्षष्ठर्थे तसिः । त्यदादीनां स्त्रीशेषेऽपि सहविवक्षितेषु यः पुमान् यच्च नपुंसकं यद्वशेन लिङ्गप्रतिपादकानि भवन्तीत्यर्थः । कानीत्याकाङ्क्षायामर्थांत्त्यदादीन्येव सम्बध्यन्ते । सा च देवदत्तश्च ताविति । अत्र तच्छब्दः शिष्यते, समभिव्याह्मतदेवदत्तशब्दलिङ्गश्च । देवदत्तशब्दस्तु निवर्तत एव । पुंनपुंसकयोरिति ।सहोक्ता॑विति शेषः । परत्वादिति । पुंनपुंसकतो लिङ्गवचनानी॑त्यत्र पुंमपेक्षया नपुंसकस्य पाठतः परत्वावगमादित्यर्थः । अद्वन्द्वेति । द्वन्द्वतत्पुरुषविशेषणानां त्यदादीनां स्त्रीशेषेत्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानी॑त्येतन्न भवतीत्यर्थः । द्वन्द्व उदाहरति — कुक्कुटमयूर्याविमे इति ।अयं च इयं च इमे॑इत्यत्र ‘त्यदादितः शेषे’ इति पुंलिङ्गत्वं न भवति, किंतु विशेष्यनिघ्नतैव विशेषणस्येति बोध्यम् । न च अयं च इयं च इत्यत्र स्त्रीशेष एव न भवति,पुमान् स्त्रिये॑त्युक्तत्वात्, अतः पुंनपुंसकतो लिङ्गविधेः प्रसक्तिः कथमिति वाच्यं,परवल्लिङ्ग॑मिति हि द्वन्द्वतत्पुरुषार्थयोः परवल्लिङ्गविधिः । अतो द्वन्द्वविशेषणस्य तत्पुरुषविशेषणस्य चानुप्रयोगे तदेव लिङ्गमिति भाष्यकैयटयोः स्थितम् । ततश्चकुक्कुटमयूर्याविमे॑इति उदाहरणे — अयं च इयं चेति विग्रहेपुमान् स्त्रिया॑ति पुंशेषेऽपिपरवल्लिङ्ग॑मिति विशेषणत्वात्स्त्रीलिङ्गत्वे सति तस्य ‘त्यदादितः’ इति पुंवत्त्वं प्राप्तमनेन निषिध्यत इति नानुपपत्तिः । क्वचिन्मूलपुस्तकेषु तुमयूरीकुक्कुटाविमा॑वित्यपि दृश्यते, तत्तुत प्रकृतानुपयुक्तम्, त्र मयूरीकुक्कुटाविति द्वन्द्वार्थस्य पुंलिङ्गतया इयं चायं च इमाविति तद्विशेषणस्यानुप्रयुज्यमानस्यापि ‘पुमान् स्त्रिया’ इति परिशिष्टस्य पुंलिङ्गस्य इदम्शब्दस्य स्त्रीत्वाऽप्रसक्त्या तत्र ‘त्यदादितः शेषे’ इति पुंस्त्वविधेरप्रवृत्तत्वेनअद्वन्द्वतत्पुरुषविशेषणाना॑मिति निषेधस्यानुपयोगात् । तत्पुरुषे उदाहरति — तच्चेति । पिप्पल्या अर्धम् — अर्धपिप्पली ।अर्धं नपुंसक॑मिति तत्पुरुषः । अर्धपिप्पली च पिप्पल्यर्धं च-अर्धपिप्पल्यौ । तच्च सा च ते । तत्र पिप्पल्यर्धंशब्दविशेष्याभिप्रायंत॑दिति नपुंसककत्वम् ।से॑ति स्त्रीत्वं तु अर्धपिप्पलीति विशेष्याभिप्रायम् । अत्रपुमान् स्त्रिये॑त्यस्य नैव प्रसक्तिः, किन्तुनपुंसकमनपुंसकेनैकव॑दिति नपुंसकं शिष्टम् । तत्रपरवल्लिङ्ग॑मिति स्त्रीत्वम् । तस्य स्त्रीलिङ्गतया तद्विशेषणस्यापिपरवल्लिङ्ग॑मिति स्त्रीत्वम् । तस्य ‘त्यदादितः शेषे’ इति नपुंसकत्वं प्राप्तं निषिध्यते । एवंच ‘ते’ इति स्त्रीलिङ्गमेव सिध्यति । यद्यपि स्त्रीत्वे नपुंसकत्वे वा ‘ते’ इति द्विवचनस्य न कोऽपि विशेषः, तथाप्यर्धपिप्पल्यस्ता इत्युदाहार्यम् । तच्च तच्च सा चेति विग्रहः ।

Tattvabodhini

त्यदादीनि सर्वैर्नित्यम् - त्यदादीनि सर्वैः । सर्वैः किम् । त्यदादिभिन्नैरपि सहोक्तौ यथा स्यात्, प्रत्यासत्त्यात्यदादिभिरेव सहोक्तौ॑इत्यर्थो मा भूत् । यत्परमिति । शब्दपरविप्रतिषेधादिति भावः ।त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते । त्यदादित इति । आद्यादित्वात्तसिः ।त्यदादीनां [स्त्री]शेषे सह विवक्षितेषु यः पुमान्, यच्च नपुंसकं, तद्वशेन लिङ्गप्रतिपादकानि भवन्तीति वाच्य॑मित्यर्थः । कानीयत्याकाङ्क्षायामर्थात्त्यदादीन्येव । अस्यापवादमाह - ।अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम् । अद्वन्द्वेति । द्वन्द्वादिविशेषणानां पूर्वोक्तं न, किं तु विशेष्यनिघ्नतैवेत्यर्थः । नन्वेवंकुक्कुटमयूर्यौ॑इत्यत्र उभयपदार्थप्रधानत्वेन उभयोरपि विशेष्यत्वाद्विशेष्यनिघ्नतायामपिकुक्कुटमयूर्याविमे॑इति नियमतो न स्यादिति चेदत्र नव्याः -॒परवल्लिङ्ग॑मित्यनेन द्वन्द्वतत्पुरुषयोरुत्तरपदलिङ्गवत्त्वादुत्तरपदलिङ्गस्यैव द्वन्द्वतत्पुरुषप्रतिपाद्यत्वेन तल्लिङ्गाधीनतैवाऽनुप्रयोगस्येति न काचिदनुपपत्तिरिति । मयूरीकुक्कुटाविमाविति । प्रकृतानुपयुकतमप्येतत्प्रसङ्गादुक्तम् । तच्चेति । पिप्पल्यद्र्धम् । सा चेति अर्धपिप्पली । तत्पुरुषविशेषणमुदाहरति -अर्धपिप्पल्यौ ते इथि । यद्यपि स्त्रीनपुंसकसाधारणःते॑ इति प्रयोगस्तथापितच्च तच्च सा च अर्धपिप्पल्यस्ताः॑इत्याद्युदाहरणमूह्रम् ।

Padamanjari

सर्वशब्दस्यार्थमाह - त्यदादिभिरन्यैश्चेति । एतदेव प्रकटयति - सर्वग्रहणमिति । त्यादिभिरन्यैश्चेति । यदिदं साकल्यमुक्तं तदर्थमित्यर्थः; अन्यथा प्रत्यासतेः ऽतल्लक्षणश्चेदेव विशेषःऽ इत्यधिकाराद्वा त्यदादिभिरेव सहवचने स्यादिति भावः । स च देवदतश्चेति । ननु देवदतोऽपि सामान्यविवक्षायां तच्छब्देनैव निर्देअष्टुंअ शक्यते, ततश्च सरूपाणामित्येव सिद्धम् । न चारब्धेऽपि सूत्रे वृतौ विशेषोऽन्तर्भावयिन्तुं शक्यः, तावित्यस्य सरूपसाधारणत्वाद्विरूपाणां च नानाविधात्वात्, सत्यम्; तद्देवदतावित्यादिद्वन्द्वनिवृत्यर्थं वचनम्, अन्यथा ऽतत्पुत्रस्तदीयःऽ इत्यादिवृत्यन्तरवद् द्वन्द्वोऽपि स्यात् । यद्यत्परमिति । त्यदादिपाठे शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यावित्यादि । भाष्ये तु ऽपूर्वशेषः खल्वपि दृश्यते - स च यश्च तौऽ इत्युक्तम् । इह चाहं च भवांश्चावामिति भवतीत्याहुः । त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि । आद्यादित्वातसिः, त्यदादीनां शेषे सह विवक्षितो योऽर्थः पुमान्, यच्च नपुंसकं तद्वशेन लिङ्गवचनानि भवन्तीत्यर्थः । स च देवदत च तौ, सा च देवदतश्च तौ, तच्च देवदता च ते । पुंनपुंसकयोस्तु सहविवक्षायां परत्वान्नपुंसकवशेन व्यवस्था । तच्च देवदतश्च ते, इह स च कुक्कुटः सा च मयूरी - कुक्कुटमयूर्यावेते, अर्धं पिप्पल्यास्तद् अर्धंपिप्पली च सा अर्धंपिप्पल्यौ ते इति परवल्लिङ्गमिति समासार्थस्य लिङ्गातिदेशातद्विशेषणस्यापि सर्वनाम्नस्तदेव लिङ्गं भवति ॥

Nyaas

सर्वग्रहणं साकल्यार्थम् इति। विना तेनानपुंसकेनेत्यस्यानुवृत्तिराशङ्क्येत, ततश्च नपुंसकेन सह न स्यात्। अथ वा - तल्लक्षमश्चेदेव विशेष इत्येतदिहानुवर्तत इत्याशङ्क्येत, ततश्च यत्र त्यदादिकृत एव विशेषस्तत्रैव स्यात् - स च यश्च यावित्यादि, इहि तु न स्यात्- स च देवदत्तशच् ताविति। अतः सर्वग्रहणम्। स च देवदत्तश्च तौ इति। यदा विशेषविवक्षा तदैतदुदाहरणम्, यदा तु सामान्यविवक्षा , तदा देवदत्तोऽपि तच्छब्देन सम्बध्यत इति सरूपाणाम् (1.2.64) इत्यनेननैव सिध्यति। यद्यत्परम् इति। गणपाठापेक्षं परत्वं वेदितव्यम्॥

Prakriyasarvasvam

सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते । स च कृष्णश्च तौ । ‘त्यदादीनां मिथः सहोक्तौ यत् परं तच्छिष्यत इति वाच्यम्’ । स च यश्च यौ । स चाहं चावाम् । भव्यकृत् तु स च यश्च ताविति पूर्वस्यापि शेषमाह ।।

Vartika

त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि ।

Sutra Prayogas

  • युवयोः (शिशुपालवधम्): त्यदादीनि सर्वैर्नित्यम् इत्येकशेषः।