12070: पिता मात्रा ================== **Padacheda:** पिता | S | 1 | 1 | मात्रा | S | 3 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word पितृ 'father' is optionally only retained when spoken of along with मातृ 'mother'. Vasu English Translation ------------------------ The word पितृ 'father' is optionally only retained when spoken of along with मातृ 'mother'. Thus पिता + माता = पितरौ 'father and mother, or parents' or मातापितरौ. The verse quoted under *sutra* (1.2.68) illustrates this *sutra* also. There the word *pitarau*' has been explained by all commentators as "father and mother." The word "*ekavad*" of the last *sutra* does not govern this *sutra*; though the *anuvritti* of 'optionally' is to be read into this. Bhashya ------- पिता मात्रा Kashika ------- अन्यतरस्यामिति वर्तते नैकवदिति। मात्रा सहवचने पितृशब्दः शिष्यतेऽन्यतरस्याम्। माता च पिता च पितरौ, मातापितराविति वा॥ Siddhanta Kaumudi ----------------- मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ । मातापितरौ ॥ Laghu Siddhanta Kaumudi ----------------------- मात्रा सहोक्तौ पिता वा शिष्यते। माता च पिता च पितरौ, मातापितरौ वा॥ Tattvabodhini ------------- **पिता मात्रा** - पितामात्रा । Padamanjari ----------- अभ्यर्हितत्वान्मातुः पूर्वनिपातः, ऽपितुर्दशगुणं माता गौरवेणातिरिच्यतेऽ । पितरावित्यभिधानं जनयितृत्वमात्रविवक्षायां लिङ्गाविवक्षायां समर्थनीयम् । एकशेषारम्भेऽपि द्वन्द्वस्त्विष्यत एवेति नार्थ एतेन ॥ Nyaas ----- `पितरौ` इति। `ऋतो ङि` (7.3.110) इति गुणः। `मातापितरौ` इति। `आनङृतो द्वन्द्वे` (6.3.24) इत्यानङ, अभ्यर्हितत्वन्मातुः पूर्वनिपातः॥ Prakriyasarvasvam ----------------- मात्रा सहोक्तौ पिता वा शिष्यते । पितरौ । मातापितरौ । आनङत्र वक्ष्यते ॥ Sutra Prayogas -------------- * **पितरौ** (रघुवंशम्): `पिता मात्रा` इति द्वन्द्वैकशेषः। * **पित्रोः** (रघुवंशम्): `पिता मात्रा` इत्येकशेषः। * **पितरौ** (कुमारसम्भवम्): `पिता मात्रा` इत्येकशेषः। * **पित्रोः** (कुमारसम्भवम्): `पिता मात्रा` इत्यैकशेषः।