12056: प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् ================================================== **Padacheda:** प्रधान-प्रत्यय-अर्थवचनम् | S | 1 | 1 | अर्थस्य | S | 6 | 1 | अन्यप्रमाणत्वात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- (Nor need be taught) the rule relating to the dependance of the meaning of a word on the principal (प्रधान in a compound) or on the affix (प्रत्यय) because the authority of the meaning (of a word, compound or derivative) consists in something else. Vasu English Translation ------------------------ (Nor need be taught) the rule relating to the dependance of the meaning of a word on the principal (प्रधान in a compound) or on the affix (प्रत्यय) because the authority of the meaning (of a word, compound or derivative) consists in something else. This *sutra* may be divided into two parts. The first part stating the proposition and ending with the word *vachanam*. The second part giving the reason. The first part consists of four words; *Pradhana*: 'Principal in a compound.' As in the compound राजपुरुषः 'king's man,' the word *raja* is *Upasarjana*; and पुरुषः is *pradhana*. 2. *Pratyaya*: 'affix.' 3. 'meaning.' 4. वचनम् 'word or sentence.' In the time of *Panini*, there were some grammarians who held the opinion, that the meaning of a word is determined, if a compound word, then by its principal word; and if a derivative word, then by the suffix. *Panini* controverts this opinion by declaring that in as much as the meaning of a word is fixed by usage and idiom, therefore the proofs for the meaning of a word are not to be searched either in the affixes which go to form it; or by its principal word, if it is a compound. Because, says *Panini*, the proof of the meaning of a word is in something else, that is to say in the usage of a people and not in the suffixes, &c. A person who has never heard the name of grammar, understands full well when told to bring a *Raja*-*purusha*. He brings an official and not a king, nor even any person in general. Similarly when told to bring an औपगव he brings a cowherd's child, not a cowherd, nor a child in general, nor both. When, therefore, the sense of a word is determined by usage, there is no use to strive to find out the sense by grammatical rules. Kashika ------- अशिष्यमिति वर्तते। प्रधानं समासे किंचित् पदम्, प्रत्ययस्तव्यदादिः, ताभ्यामर्थवचनमर्थाभिधानमनेन प्रकारेण भवतीति पूर्वाचार्यैः परिभाषितम् — प्रधानोपसर्जने प्रधानार्थं सह ब्रूतः, प्रकृतिप्रत्ययौ सहार्थं ब्रूत इति। तत् पाणिनिराचार्यः प्रत्याचष्टे। अशिष्यमेतत्, अर्थस्यान्यप्रमाणत्वादिति। अन्य इति शास्त्रापेक्षया लोको व्यपदिश्यते। शब्दैरर्थाभिधानं स्वाभाविकं न पारिभाषिकम्, अशक्यत्वात्, लोकत एवार्थावगतेः। यैरपि व्याकरणं न श्रुतं तेऽपि राजपुरुषमानयेत्युक्ते राजविशिष्टं पुरुषमानयन्ति,न राजानं नापि पुरुषमात्रम्। औपगवमानयेत्युक्त उपगुविशिष्टमपत्यमानयन्ति, नोपगुं नाप्यपत्यमात्रं नोभौ। यश्च लोकतोऽर्थः सिद्धः किं तत्र यत्नेन॥ Siddhanta Kaumudi ----------------- प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमप्यशिष्यम् । कुतः, अर्थस्य लोकत एव सिद्धेः ॥ Balamanorama ------------ **प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्** - अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे — प्रधानप्रत्ययार्थ । प्रत्ययार्थ इति ।प्रकृत्यर्थं प्रति प्रत्ययार्थः प्रधानं=विशेष्यम्, प्रकृत्यर्थस्तु तद्विशेषण॑मित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः । Tattvabodhini ------------- **प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्** - गन्धनाङ्गे इति । पूर्वविप्रतिषेधश्चनवेति विभाषा॑ सूत्रे भाष्ये उक्तः । नित्यं कित्त्वमिति ।यमो गन्धने॑ इति पूर्वसूत्रेणेत्यर्थः । Padamanjari ----------- अर्थवचनमिति । कर्मणि षष्ठयाः समासः । ननु च प्रधानप्रत्यययोः कर्त्रोर्निर्देशादुभयप्राप्तावित्यनेनात्र षष्ठी, ततश्च ऽकर्मणि चऽ इति निषेधः प्राप्नोति, नैष दोषः ; प्रधानप्रत्ययोरत्र करणत्वं विवक्षितम् । कस्तर्हि कर्ता, पुरुषः, समुदायो वा प्रधानोपसर्जनयोः प्रकृतिप्रत्यययोश्च ? एतदुक्तं भवति-प्रधानप्रत्ययाभ्यां करणाभ्यां पुरुषेण समुदायेन वा यदर्थस्य वचनशब्देन सह ऽकर्तृकरणे कृता बहुलम्ऽ, ऽकृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्ऽ इतिच समासः । ननु च प्रत्ययोऽपि प्रकृत्यपेक्षया प्रधानम्, कस्माद्भेदेनोपादीयते ? उच्यते; यदा ऽप्रकृतिः प्रत्ययार्थं प्रति विशेषणतया स्वार्थमभिधतेऽ इति सिद्धं भवति, तदा प्रत्ययस्य प्राधान्यम्, तदेवेदानीं परिभाष्यत इति पूर्वाचार्यैस्तावत्प्रत्ययो भेदेन निर्दिष्टः-प्रधानोपसर्जने, प्रकृतिप्रत्ययाविति, ततश्च तल्लक्षणनिराकरणे प्रत्ययोऽपि भेदेनोपादेयः । अश्क्यत्वादिति । अशक्यत्वमनन्तप्रकारत्वात् । बहुव्रीहावन्यपदार्थ उच्यते; प्लक्षन्यग्रोधमिति समाहारः; क्वचित्प्रधानयोरेव सहाभिधानम्-प्लक्षन्यग्रोधाविति । स्वार्थिकेषु च पप्रकृतिप्रत्ययौ प्रकृत्यर्थं सह ब्रूतः-शुक्लतर इति; तथा आख्यातेषु क्रियाप्रधानमाख्यातमिति; तथा ऽकर्तरि कृत्ऽ ऽकर्तरि तृतीयाऽ, तत्र ऽकृत्सु शक्तिमद् द्रव्यं प्रधानमुच्यतेऽ इति क्रियाभेदे शक्त्यन्तराविर्भावः; पाचकं पश्येति विभक्तिषु शक्तिप्राधान्यम्-इत्याद्यनन्तप्रकारमर्थाभिधानमशक्यं परिभाषितुमिति लोकत एवार्थावगतेः कथमेतदित्याह-यैरपीत्यादि ॥ Nyaas ----- `अन्यप्रमाणत्वात्` इति। अन्यत् प्रमाणमवगतिहेतुर्यस्यार्थाभिधानलक्षणस्य तदन्यप्रमाणम्, तस्य भावोऽन्यप्रमाणत्वम्। `प्रधानं समासे किञ्चित् पदम्` इति। यथा राजपुरुषशब्दे पुरुष इत्येतत्। `प्रधानोपसर्जने` इत्यादि। राजपुरुष इत्यत्र पूर्ववदुपसर्जनम्, इतरत् प्रधानम्। ते च प्रधानार्थ सह ब्राऊतः। `प्रकृतिप्रत्ययौ` इत्यादि। अशक्यत्वं त्वनन्तप्रकारत्वात्। तथा हि - चित्रगुरिति बहुव्रीहौ कृते गुणगुणिभ्यामन्यपदार्थ उच्यते। अत्र गुणपदं चित्रशब्दोऽप्रधानम्, विशेषणत्वात्; गुणिपदं गोशब्दः प्रधानम्, विशेष्यत्वात्। क्वचिदुपसर्जनाभ्यामन्योऽर्थोऽभिधीते - प्लक्षन्यग्राधाविति। तथा हि, न केवलं प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्राऊतः अपि तु, क्वचित् प्रकृत्यर्थमपि, यथा - स्वार्थिकेषु शुक्लतरम्, शुक्लतममिति। तथा केचिदाख्यातेषु स्वभावात् प्रधानमाहुः प्रकृत्यर्थम् - `क्रियाप्रधानमाख्यातम्` इति।अन्ये तु मन्यन्ते- आख्यातेषु प्रधानभूतः प्रत्ययार्थ एव शक्तिरूपेणोच्यते, यथा विभक्तिभिः क्वचित् प्रत्यये; न तु शक्तिमान् पदार्थो द्रव्यभावमापन्न उच्यते। अतः क्रियान्तरेण च सम्बन्धे शक्त्यन्तरमाविर्भवति कर्तारं पश्येति। एवमाद्यनन्तप्रकारमर्थाभिधानशक्यं सर्वमुपदेष्टुम्, तस्माल्लोकत एवार्थावगतिः। कथं पुनरेतद्विज्ञायत इत्यत आह - `यैरपि` इत्यादि। सुगमम्॥बाल-मनोरमाविभाषोपयमने 554, 1.2.56 विभाषोपयमने। `यमो गन्धने` इत्तो यम इति, `हनः सिच्` इत्यतः सिजिति, `असंयोगा`दित्यतः किदिति चानुवर्तते। तदाह - यमः सिच्किद्वा स्याद्विवाहे इति। उपयमशब्दो विवाहे वर्तते इति भावः। रामः सीतामुपायतेति। भार्यात्वेन स्वीकृतवानित्यर्थः। सिचः कित्त्वपक्षे `अनुदात्तोपदेशे`ति मकारलोपे `ह्रस्वादङ्गा`दिति सिचो लोपः। उदवोढेति। भार्यात्वेन स्वीकृतवानित्यर्थः। सिचः कित्त्वपक्षे `अनुदात्तोपदेशे`ति मकारलोपे `ह्रस्वादङ्गा`दित सिचो लोपः। उदवोढेति। भार्यात्वेन परिग्रहः - उद्वाहः। गन्धनाङ्गे उपयमे त्विति। हिंसापूर्वके विवाहे त्वित्यर्थः। राक्षसविवाहे त्विति यावत्। `हत्वा भित्त्वा च शीर्षाणि रुदतीं रुदतो हरेत्। स राक्षसो विवाहः-` इति स्मृतेः। नित्यं कित्त्वमिति। `यमो गन्धने` इति पूर्वसूत्रेणे`ति शेषः। यदि गन्धनाङ्गकेऽप्युपयमने परत्वादियं विभाषा स्यात्तर्ह एषा प्राप्तविभाषा स्यात्। ततश्च `न वेति विभाषे`त्यत्र भाष्येऽप्राप्तविभाषास्वस्याः परिगणनं विरुध्येत। अतः पूर्वविप्रतिषेध आश्रयणीय इति भावः।बाल-मनोरमाप्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् 1279, 1.2.56 अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे - प्रधानप्रत्ययार्थ। प्रत्ययार्थ इति। `प्रकृत्यर्थं प्रति प्रत्ययार्थः प्रधानं=विशेष्यम्, प्रकृत्यर्थस्तु तद्विशेषण`मित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः। Prakriyasarvasvam ----------------- प्रधानार्थं सह ब्रूतो द्वे प्रधानोपसर्जने । प्रत्ययार्थं सह ब्रूतः प्रकृतिप्रत्ययावुभौ ॥ २५ ॥ इत्यमर्थाभिधानं यदनुशिष्टं पुरातनैः । तत्तु लोकप्रमा³णत्वादशिष्यमिति पाणिनिः ॥ २६ ॥ न राजपुरुष⁴स्यार्थो राजा च पुरुषः पृथक् । विशिष्टः पुरुषो लोके द्वयोरर्थोऽवगम्यते ॥ २७ ॥ तथौपगव इत्यत्र नापत्यं नोपगुः पृथक् । किन्तूपगुविशिष्टं खल्वपत्यं मन्यते जनः ॥ २८ ॥