12050: इद्गोण्याः ================= **Padacheda:** इत् | S | 1 | 1 | गोण्याः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The short is substituted in the place of गोणी , when the तद्धित affix is elided by लुक्। Vasu English Translation ------------------------ The short is substituted in the place of गोणी , when the तद्धित affix is elided by लुक्। By the former *sutra* when a *Taddhita* is elided, the long ई of the feminine also required elision. But this rule makes an exception in favor of the word गोणी३ in which, under similar circumstances the short इ replaces the long ई, as in the compound पंचगोणिः 'purchased for five *gonis*.' Here the *Taddhita* suffix which conveys the meaning of "purchased for," has been rejected after गोणी by (5.1.28) \[1\]. Therefore by previous *sutra*, the feminine suffix ई also required rejection. But this *sutra* intervenes and changes the long ई into short इ. This *sutra* is divided into two separate rules by the process called *yoga*-*vibhaga*. Thus इत् is made one *sutra* by itself, and then it means, when there is a suppression of *Taddhita* aflix by लुक्, then the long ई is replaced by short इ. Thus purchased with five needles पंचभिः सूचीभिः क्रीतः = पंचसूचिः, दशसूचिः. This is restricted to such examples of purchase only. ## Footnotes - [1] - अध्यर्द्धपूर्वद्विगोर्लुगसंज्ञायाम् ॥ Bhashya ------- इद् गोण्याः - इद्गोण्या नेति वक्तव्यम् - गोण्या न इत्येव सिद्धम्। नार्थ इत्त्वेन। का रूपसिद्धिः?। पञ्चगोणिर्दशगोणिः। - ह्रस्वता हि विधीयते - ह्रस्वत्वमत्र विधीयते गोस्त्रियोरुपसर्जनस्य (1.2.48) इति। - इति वा वचने तावत् - इद् इति वोच्येत, नेति वा। को न्वत्र विशेषः? - मात्रार्थं वा कृतं भवेत् - अथवा मात्रार्थमिदं वक्तव्यम्। गोणीमात्रमिदं गोणिः। अपर आह- - गोण्या इत्त्वं प्रकरणात् - अशिष्यं गोण्या इत्त्वम्। किं कारणम्? प्रकरणात्। प्रकृतं ह्रस्वत्म्। ह्रस्व इति वर्तते। न तु सूच्याः। - सूच्याद्यर्थमथापि वा - सूच्याद्यर्थमिदं द्रष्टव्यम्। पञ्चसूचिः दशसूचिः। इद्गोण्या नेति वक्तव्यं ह्रस्वता हि विधीयते। इति वा वचने तावन्मात्रार्थं वा कृतं भवेत् ॥ 1 ॥ गोण्या इत्त्वं प्रकरणात्सूच्याद्यर्थमथापि वा ॥ इद् गोण्याः ॥ 50 ॥ Kashika ------- पूर्वेण लुकि प्राप्त इकारो विधीयते। गोण्यास्तद्धितलुकि सतीकारादेशो भवति। पञ्चभिर्गोणीभिः क्रीतःपटः पञ्चगोणिः। दशगोणिः। इदिति योगविभागः। पञ्चभिः सूचीभिः क्रीतः पञ्चसूचिः। दशसूचिः। स च एवंविषय एव॥ Siddhanta Kaumudi ----------------- गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः ॥ Balamanorama ------------ **इद्गोण्याः** - इद्गोण्याः । लुकोऽपवाद इति ।लुक्तद्धितलुकी॑ति प्राप्तस्येत्यर्थः । पञ्चगोणिरिति । आर्हीयस्य ठको लुकि स्त्रीप्रत्ययस्य इकारः । नच उपसर्जनह्रस्वत्वेनैव इदं सिद्धमिति वाच्यम्, इत्त्वविध्यभावेसुक्तद्धितलुकी॑ति ङीषो निवृत्तावदन्तत्वाट्टापि पञ्चगोणेत्यापत्तेः । मूलद्रव्यवाचिन एव तृतीयान्तात्क्रीतार्थे प्रत्यया भवन्ति, नतुदेवदत्तेन क्रीत॑मित्यर्थे, अनभिधानादिति भाष्ये स्पष्टम् । Tattvabodhini ------------- **इद्गोण्याः** - लुकोऽपवाद इति ।लुक्ताद्धितलुकी॑ति प्राप्तस्य स्त्रीप्रत्ययस्य लुकोऽपवाद इत्यर्थः । Padamanjari ----------- पञ्चगोणिरिति । गोणिशब्दः परिमाणवचनः, आवपनवचनश्च; तत्राद्यात् ऽप्राग्वतेष्ठञ्ऽ, द्वितीयादार्हीयष्ठक् । तयोः पूर्वल्लुक् । इदिति योगाविभाग इति । इहेद्ग्रहणमनर्थकम्, गोण्या इत्येवास्तु, ह्रस्व इत्येव, लुकस्तु वचनासामर्थ्यादननुवृत्तिः ? तदेतदिद्ग्रहणमेव लिङ्गं योगविभागस्य । यदि योगविभागः क्रियते, सर्वत्रेत्वं प्राप्नोति, तत्राह-स चेति । यदि सर्वत्र स्याद् गोणीग्रहणमनर्थकं स्यादिति भावः । ननु तद्धितलुकि लुगप्युक्तः, इत्वं चेति, तयोर्विकल्पप्रसङ्गे नित्यमित्वमेव यथा स्यादित्येवमर्थं गोणीग्रहणं स्यात्, तत्कर्थं ततो विशिष्टविषयत्वं योगविभागस्य ? उच्यते; एक एव तावद्योगः सूत्रकारेण पठितः, तत्सामर्थ्याद् विभागसंस्कारोऽप्यनुवर्तते, अविभक्तश्च योगो विशिष्टविषयः । इद्ग्रहणसामर्थ्यात्क्रियमाणो विभागो विशिष्टविषय एव कल्प्यते; अत एवोच्यते - योगविभागादिष्टसिद्धरिति । स पुनर्विशिष्टो विषयो व्याख्यानादवसेयः । तपरकरणं तत्कालार्थम् - दीर्घस्य दीर्घो मा भूद् । वचनं तु लुग्घ्रस्वबाधनार्थं स्याद् । असति च तकारे, प्राप्तप्रतिषिद्ध ईकार एवं प्रतिप्रसूतः स्याद्, न त्वपूर्व इकारो विहितः स्याद् इति भाव्यमानत्वमेव न स्यात् ॥ Nyaas ----- `पञ्गोणिः` इति। `तद्धितार्थ` (2.1.50) इति समासे कृत आर्हीयष्ठक्। तस्यपूर्ववल्लुक्। `इदिति योगविभागः` इति। एतस्येद्ग्रहणमेव लिङगम्। तथा हि गोणी इत्येतावति सूत्रे ह्रस्वग्रहणानुवृत्तौ ह्रस्वत्वे कृते पञ्चगोणिरिति सिद्ध्यत्येव;किमिद्ग्रहणेन? तदेतदिद्ग्रहणं क्रियमाणं योगविभागर्थं विज्ञायते। ननु चानन्तरसूत्राल्लुक एवानुवृत्तिः स्यात्, न ह्रस्वस्य, नैतदस्ति; लुगनुवृत्तौ हि सूत्रमिदमनर्थकं स्यात्; लुकोऽनन्तरसूत्रेणैव सिद्धत्वात्। तस्माद्ध्रस्वग्रहणमेवानुवर्तते, न लुग्ग्रहणम्।`पञ्चसूचिः` इति। पञ्चगोणिरित्यनेन तुल्यम्। यदि योगविभागः क्रियते, तदातिप्रसङ्गः स्यात्। अन्येषामपि प्रसज्यत इत्यत आह - `स च` इत्यादि। यदि सर्वत्रेत्त्वं पूर्वयोगेणैव स्यात्, तदा `गोण्याः` इति वचनमनर्थकम्। तस्मादगोणीग्रहणादस्यासर्वविषयत्वम्। तेन योगविभागः सूचीविषय एव, नान्यविषय इति। तपरकरणं दीर्घानिवृत्त्यर्थम्। दीर्घस्य दीर्घकरणमनर्थकं स्यात्। अतो विना तपरकरणेन दीर्घो न भविष्यीति चेत्, न; लुघ्यस्वबाधनार्थत्वाद्दीर्घकरणस्य। भाव्यमानोऽण् सवर्णान् न गृह्णातीति, तस्माददीर्घनिवृत्त्यर्थं तपरत्वं नोपपद्यत इति चेत्, न; तस्याभाव्यमानत्वात्। अपूर्वस्य हि विधानं भाव्यमानत्वम्। न चात्रापूर्वस्य विधानम्। तथा हि - लुग्घ्रस्वयोः प्राप्तयोः पुनः स एव ईकारः प्रतिप्रसूयते। तस्मात् तपरकरणं कर्तव्यम्॥ Prakriyasarvasvam ----------------- तद्धितलुकि सति गोण्या इत् स्यात् । इदिति विधानादन्यस्यापि । पञ्चभिः सूचीभिः क्रीतः पञ्चसूचिः । संज्ञायां तु लुङ् न । पाञ्चलोहितिकमिति । पञ्चगुञ्जा- परिमितकनकाख्या । अत्र परिमाणान्तस्यासंज्ञा—' (७-३-१७) इति उत्तरपद- वृद्धयभावः ॥