12048: गोस्त्रियोरुपसर्जनस्य ============================ **Padacheda:** गो-स्त्रियोः | S | 6 | 1 | उपसर्जनस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A short vowel is the substitute of प्रातिपदिक which ends with the word गो 'a cow' and of that which ends with what has as its termination a feminine affix, when regarded as उपसर्जन। Vasu English Translation ------------------------ A short vowel is the substitute of प्रातिपदिक which ends with the word गो 'a cow' and of that which ends with what has as its termination a feminine affix, when regarded as उपसर्जन। The word *upasarjana* has been defined in *sutra* (1.2.43). In compounds the word गो becomes shortened when it stands last and is an *upasarjana*. Thus चित्र + गो = चित्रगुः 'possessed of a brindled cow.' This is an example of a *Bahuvrihi* or possessive compound. So also शबलगु 'a spotted cow.' Similarly in those *pratipadika* *upasarjanas* which end in feminine suffixes having a final long vowel, there is a shortening. Thus निः + कौशाम्बी = निष्कौशाम्बिः. Here the final long ई is shortened. So also निर्वाराणसिः. The word *pratipadika* of the previous *sutra* is understood in this. The word गो in the *sutra* means the form गो and not other words synonym with it. The word स्त्री means "a word ending in a feminine affix," because it has the *svarita* accent. The word *upasarjana* qualifies both these words, i. e. when गो is an *upasarjana* and when a word having a feminine termination is an *upasarjana*. Other examples are:- अति + खट्वा = अतिखट्वः 'without a bed-stead' अतिमालः 'surpassing a necklace in beauty.' If such a word is not an *upasarjana*, there is no shortening, as, राजकुमारी 'the king's daughter.' Here the word राजन् is *upasarjana*, and not the word कुमारी which latter is therefore not shortened. The word must be a derivative word formed by the addition of an affix, which makes it feminine. Thus the words लक्ष्मी, श्री &c. are feminine originally, and are not derived from the masculine nouns, by the addition of any feminine affix. Therefore we have अतिलक्ष्मीः 'surpassing *Lakshmi* in beauty', अतिश्रीः ॥ Vart :- In *Bahuvrihi* compounds, exception must be made of feminine nouns ending in the affix ईयसी, as बहुश्रेयसी, विद्यमानश्रेयसी । Bhashya ------- गोस्त्रियोरुपसर्जनस्य - उपसर्जनह्रस्वत्वे च - उपसर्जनह्रस्वत्वे च। किम्?। यञ्ञेकादेशदीर्घैत्वेषु प्रतिषेधो वक्तव्यः। अतिखट्वाय अतिखट्वार्थमतिवट्वेभ्यः। उपसर्जनह्रस्वत्वे च। किम्?। बहिरङ्गलक्षणत्वात् सिद्धमित्येव। बहिरङ्गा एते विधयः, अन्तरङ्गं ह्रस्वत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे।फ् ॥ न्यायान्तरनिराकरणाधिकरणम् ॥ - गोटाङ्ग्रहणं कृन्निवृत्त्यर्थम् - गोटाङ्ग्रहणं कर्तव्यम्। किमिदं टाङ् इति?। प्रत्याहारग्रहणम्। क्व सन्निविष्टानां प्रत्याहारः? टापः प्रभृत्या ष्यङो ङकारात्। कि प्रयोजनम्? कृन्निवृत्त्यर्थम् कृत्स्त्रिया धातुस्त्रियाश्च ह्रस्वत्वं मा भूदिति। अतितन्त्रीः अतिश्रीः अतिलक्ष्मीरिति। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। स्त्रीग्रहणं स्वरिष्यते। तत्र स्वरितेनाधिकारगतिर्भवति। स्त्रियाम् (4.1.3) इत्येवं प्रकृत्य ये विहितास्तेषां ग्रहणं विज्ञास्यते। स्वरितेनाधिकारगतिर्भवतीति न दोषो भवति। यद्येवं प्रत्ययग्रहणमिदं भवति। तत्र प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवति इतीह न प्राप्नोति- अतिराजकुमारिः, अतिसेनानीकुमारिरिति। अस्त्रीप्रत्ययेन इत्येवं तत्। ॥ अनिष्टह्रस्वापत्तिवारणाधिकरणम् ॥ - इर्यसो बहुव्रीहौ पुंवद्वचनम् - इर्यसो बहुव्रहौ पुंवद्भावो वक्तव्यः। बह्व्यः श्रेयस्योऽस्य बहुश्रेयसी, विद्यमानश्रेयसी। - पूर्वपदस्य च प्रतिषेधो गोसमासनिवृत्त्यर्थम् - पूर्वपदस्य च प्रतिषेधो वक्तव्यः। किं प्रयोजनम्? गोसमासनिवृत्त्यर्थम्। गोनिवृत्यर्थं, समासनिवृत्त्यर्थं च । गोनिवृत्त्यर्थं तावत् गोकुलम्, गोक्षीरम्, गोपालक इति। समासनिवृत्त्यर्थम्- राजकुमारीपुत्रः सेनानीकुमारीपुत्र इति। किमुच्यते समासनिवृत्त्यर्थमिति, न पुनरसमासोऽपि किञ्चित्पूर्वपदं यदर्थः प्रतिषेधः स्यात्? स्त्र्यन्तस्य प्रातिपदिकस्योपसर्जनस्य र्ह्रस्वो भवति इत्युच्यते। न चान्तरेण समासं स्त्र्यन्तं प्रातिपदिकमुपसर्जनमस्ति। ननु चेदमस्ति खट्वापादो मालापाद इति। एकादेशे कृतेऽन्तादिवद्भावात्प्राप्नोति। उभयत आश्रयणे नान्तादिवत्। गोनिवृत्त्यर्थेन तावन्नार्थः। गोन्तस्य प्रातिपदिकस्योपसर्जनस्य ह्रस्वो भवति इत्यच्यते, न चैतद्गोन्तम्। ननु चैतदपि व्यपदेशिवद्भावेन गोन्तम्। व्यपदेशिवद्भावोऽप्रातिपदिकेन। समासनिवृत्यर्थेन चापि नार्थः। स्त्र्यन्तन्य प्रातिपदिकस्योपसर्जनस्य ह्रस्वो भवति इत्युच्यते, प्रधानमुपसर्जनम् इति च सम्बन्धिशब्दावेतौ। तत्र सम्बन्धादेतद् गन्तव्यं यं प्रति यदप्रधानं तस्य चेत्सोऽन्तो भवतीति। अवश्यं चैतदेवं विज्ञेयम्। उच्यमानेऽपि हि प्रतिषेध इह प्रसज्येत- पञ्च कुमार्यः प्रिया अस्य पञ्चकुमारीप्रियः, दशकुमारीप्रिय इति। - कपि च - कपि च प्रतिषेधो वक्तव्यः। बहुकुमारीकः, बहुवृषलीकः। - द्वन्द्वे च - द्वन्द्वे च प्रतिषेधो वक्तव्यः। कुक्कुटमयूर्यौ। - उक्तं वा - किमुक्तम्?। कपि तावदुक्तं- न कपि (7.4.14) इति प्रतिषेध इति। नैतदस्त्युक्तम्। केणः (7.4.13) इति या ह्रस्वप्राप्तिस्तस्याः प्रतिषेध इति। कुत एतत्? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति। अवश्यं चैतदेवं विज्ञेयम्। यो हि मन्यते या च यावती च ह्रस्वप्राप्तिस्तस्याः सर्वस्याः प्रतिषेध इति, इहापि तस्य प्रतिषेधः प्रसज्येत प्रियं ग्रामणि। ब्राह्मणकुलमस्य प्रियग्रामणिकः, प्रियसेनानिकः। इदं तर्ह्युक्तम् कपि कृते अनन्त्यत्वाद्ह्रस्वत्वं न भविष्यति। इदमिह सम्प्रधार्यम्- कप् क्रियतां ह्रस्वत्वमिति, किमत्र कर्तव्यम्? परत्वात् कप्। अन्तरङ्गं ह्रस्वत्वम्। अन्तरङ्गतरः कप्। न चायं कप् समासान्त इत्युच्यते। तार्दथ्यात्ताच्छब्द्यं भविष्यति। येषां पदानां समासो न तावत्तेषामन्यद्भवति कपं तावत् प्रतीक्षते। द्वन्द्वेऽप्युक्तम्। किमुक्तम्? परवल्लिङ्गमिति शब्दशब्दार्थौ इति। तत्रौपदेशिकस्य ह्रस्वत्वम्, आतिदेशिकस्य श्रवणं भविष्यति ॥ गोस्त्रियोरुपसर्जनस्य ॥ 48 ॥ Kashika ------- प्रातिपदिकस्येति वर्तते। गो इति स्वरूपग्रहणम्, स्त्रीति प्रत्ययग्रहणं स्वरितत्वात्। उपसर्जनग्रहणं तयोर्विशेषणम्, गोरुपसर्जनस्य स्त्रीप्रत्ययान्तस्योपसर्जनस्येति। ताभ्यां प्रातिपदिकस्य तदन्तविधिः। उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति। चित्रगुः। शबलगुः। स्त्रियाः — निष्कौशाम्बिः। निर्वाराणसिः। अतिखट्वः। अतिमालः। उपसर्जनस्येति किम्? राजकुमारी। स्वरितत्वं किम्? अतितन्त्रीः। अतिलक्ष्मीः। अतिश्रीः॥ ईयसो बहुव्रीहेः प्रतिषेधो वक्तव्यः॥ बहुश्रेयसी। विद्यमानश्रेयसी॥ Siddhanta Kaumudi ----------------- उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । अव्ययीभावश्च (SK451) इत्यव्ययत्वम् ॥ Laghu Siddhanta Kaumudi ----------------------- उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात्। अतिमालः। **अवादयः क्रुष्टाद्यर्थे तृतीयया** (वार्त्तिकम्)। अवक्रुष्टः कोकिलया - अवकोकिलः। **पर्यादयो ग्लानाद्यर्थे चतुर्थ्या** (वार्त्तिकम्)। परिग्लानोऽध्ययनाय पर्यध्ययनः। **निरादयः क्रान्ताद्यर्थे पञ्चम्या** (वार्त्तिकम्) । निष्क्रान्तः कौशाम्ब्याः - निष्कौशाम्बिः॥ Balamanorama ------------ **गोस्त्रियोरुपसर्जनस्य** - प्रकृते च दिशयोर्मध्यः मध्यं मध्येनेत्यादिविग्रहवाक्येषु दिशाशब्दस्य नियतविभक्तिकत्वात्समासविधौ प्रथमानिर्दिष्टत्वाऽभावेऽपि अनेनोपसर्जनत्वं भवति । पूर्वनिपातस्तु न भवतीति स्थितम् । गोस्त्रियोः ।ह्रस्वो नपुंसके प्रातिपदिकस्ये॑त्यतो 'ह्रस्व' इतिप्रातिपदिकस्ये॑ति चानुवर्तते । उपसर्जनस्येति गोस्त्रिर्विशेषणम् । प्रत्येकाभिप्रायमेकवचनम् । स्त्रीशब्देन स्त्रीप्रत्ययो गृह्रते । प्रत्ययग्रहणपरिभाषया तदन्तविधिः । उपसर्जनभूतस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य चेति लभ्यते । तदुभयं प्रातिपदिकस्य विशेषणम् । तेन तदन्तविधिः । तदाह — उपसर्जनमित्यादिना । अत्र च शास्त्रीयमेवोपसर्जनं गृह्रते,न त्वप्रधानमात्रं, कुमारीमिच्छन् कुमारीवाचरन्वा ब्राआहृणः कुमारीत्यत्रातिप्रसङ्गात् । अव्ययीभावश्चेत्यव्ययत्वमिति । Tattvabodhini ------------- **गोस्त्रियोरुपसर्जनस्य** - गोस्त्रियोः । उपसर्जनस्येति गोस्त्रियोर्विशेषणम् । एकवचनं तु प्रत्येकाभिप्रायेण । गोस्त्रीभ्यां तु प्रातिपदिकं विशेष्यते । विशेषणेन तदन्तविधिरित्याशयेनाह — उपसर्जनंय इति । उपसर्जनमिह शास्त्रियं गृह्रते, न त्वप्रधानलक्षणम् । तेन कुमारीवाऽऽचरन्ब्राआहृणः कुमारीत्यत्र न दोष इत्युक्तम् । स्त्रीप्रत्ययान्तमिति । रुयधिकारोक्तटाबाद्यन्तमित्यर्थः । तेनातिलक्ष्मीरित्यादौ नातिप्रसङ्गः । नन्वेवमपिराजकुमारीपुत्र॑इत्यादावतिप्रसङ्ग इति चेत् । अत्राहुः — उपसर्जनस्य ससंबन्धिकतया यस्य प्रातिपदिकस्य ह्रस्वो विधीयते तदर्थं प्रति यद्युत्तरपदभूतयोर्गोस्त्रियोर्गुणीभावस्तदैव ह्रस्वत्वमिति भाष्यादावुक्तत्वान्न दोषः । भाष्यदावपि उत्तरपदभूतयोरित्यर्थलाभस्तुकृत्तद्धिते॑त्यतः समासपदानुवर्तनादिति बोध्यमिति । Padamanjari ----------- स्त्रीति प्रत्ययग्रहणमिति । अत्र हेतुमाह-स्वरितत्वादिति । ऽस्वरितेनाधिकारःऽ इत्यस्य यत्र स्वरितत्वं प्रतिज्ञायते तत्र तदधिकारो ग्राह्य इत्ययमप्यर्थः । इह च स्त्रीग्रहणं स्वर्यते, तेन स्त्रियामित्यधिकृत्य विहितानां टाबादीनां ग्रहणं भवति; नार्थस्य, नापि स्वरूपस्य । क्तिन्नादीनां तु ह्रस्वभावित्वाभावादग्रहणम् । उपर्स्जनग्रहणं तयोर्विशेषणमिति । प्रत्येकं सम्बन्धातु द्विवचनं न भवतीत्याह-गोरुपसर्जनस्येत्यादि । स्त्रीप्रत्ययान्तस्येति पाठः । पारिभाषिकं ह्यत्रोपसर्जनं गृह्यते । न च स्त्रीप्रत्ययमात्रस्य पारिभाषिकोपसर्जनत्वसम्भवः । ताभ्यामिति । उपसर्जनेन गोशब्देन स्त्रीप्रत्ययान्तेन च यदि ताभ्यां तदन्तविधिर्न विज्ञायते, तदा उपसर्जनस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्व इत्यर्थः स्यात्; ततश्च गोकुलं राजकुमारीपुत्र इत्यत्रापि स्यादिति भावः । इह तु ऽकुमारीपुत्रःऽ इत्यत्र प्रातिपदिकत्वादेवाप्रसङ्गः । उपसर्जनस्त्रीप्रत्ययान्तान्तस्येति पाठः । उपसर्जनं यत् स्त्रीप्रत्ययान्तं तदन्तस्येत्यर्थः । यदि तु लौकिकेनोपसर्जनेन स्त्रीप्रत्ययमात्रं विशेष्य पश्चातेन प्रातिपदिकस्य तदन्तविधर्विज्ञायिते - उपसर्जनं यः स्त्रीप्रत्ययस्तदन्तस्य प्रातिपदिकस्येति, ततो हरीतक्यः फलानीत्यत्रापि स्यात्; स्त्रीप्रत्ययार्थस्य फलं प्रत्युपसर्जनत्वातद्धितान्तत्वेन प्रातिपदिकत्वाच्च । अत एवमेवाश्रयणीयम् - स्त्रीप्रत्ययान्तं यच्छास्त्रीयमुपसर्जनं तदन्तस्य प्रातिपदिकस्येति । निष्कौशाम्बिरिति । कौशम्बीत्येकबिभक्तीत्युपसर्जनं स्त्रीः त्ययान्तं तदन्तं समासप्रातिपदिकम् । अथेह कथं ह्रस्वत्वमतिराजकुमारिरिति, यावता कुमारशब्दान् ङीब्विहतो न तु राजकुमारशब्दात् ? सत्यम्; अनुपर्जने स्त्रीप्रत्यये तदादिनियमो नास्ति । अथ गोशब्देन स्त्रीप्रत्ययान्तेन च प्रातिपदिकस्य तदन्तविधौ सत्यपि गोकुलं राजकुमारीपुत्र इत्यत्र कस्मान्न भवति, यावता ऽयेन विधिस्तदन्तस्यऽ इत्यत्र ऽस्वं रूपम्ऽ इत्यनुवर्तते, ततश्च येन तदन्तविधिः तत्स्वरूपस्यापि ग्रहणेन भाव्यम् ? एवं तर्हि गोशब्देन प्रातिपदिकस्य विशेषणसामर्थ्यात् केवलस्य न भवति; अन्यथा गोशब्दस्यैवोपसर्जनस्य ह्रस्वं विदध्याद्, ऽयेन विधिस्तदन्तस्यऽ इत्यत्र ऽस्वंरुपम्ऽ इति निवर्त्यम् । व्यपदेशिवद्भावोऽपि प्रातिपदिके नास्ति । राजकुमारीपुत्र इत्यत्र तु परिहारः - शास्त्रीयमप्युपसर्जनं सति सम्भवेऽन्वर्थमेवाप्रधानमुपसर्जनमिति, प्रधानं चापेक्ष्याप्रधानं भवति । स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासमन्तरेणानुपपन्नम्, समासश्चावयवात्मकः; द्वयं चात्र संनिहितम्-प्रधानमप्रधानमिति; तत्रैवं विज्ञास्यामः-यत् स्त्रीप्रत्ययान्तं समासप्रातिपदिकं तदन्तर्भूतमेवापेक्ष्य स्त्रीप्रत्ययान्तस्याप्राधान्यमिति । इह तु तत्रानन्तर्भूतं पुत्रमपेक्ष्याप्राधान्यमिति न भवति ह्रस्वः । ईयस इत्यादि । ईयसुन्नन्ताद्यः स्त्रीप्रत्ययो विहितस्तदन्तान्तस्येत्यर्थः । बहुश्रेयसीति । ऽप्रशस्यस्य श्रःऽ ङीप्, बह्व्यः श्रेयस्योऽस्येति बहुव्रीहिः, ऽनद्यःतश्चऽ इति कप्, ऽईयसश्चऽ इति प्रतिषेधः, पुंस्यपि सोर्हल्ङ्यादिलोपः । बहुव्रीहेरिति किम् ? अतिश्रेयसिः ॥ Nyaas ----- `स्त्रीति स्त्रीप्रत्ययग्रहणम्` इति। अत्र हेतुमाह - `स्वरितत्वात्` इति। स्त्रीग्रहणस्येह स्वरितत्वं क्रियत इति स्वरितेनाधिकारादवगतिर्भवति। तेन **स्त्रियाम्** (4.1.3) इत्यधिकृत्य ये प्रत्यया विहिताष्टावादयस्तेषां ग्रहणं भवति; न स्त्रर्थाभिधायिनः शब्दमात्रस्य, नापि स्त्रीशब्दस्यैव स्वरूपस्य उपसर्जनग्रहणं द्वयोर्विशेषणमित्यादेः स्पष्टीकरणयाह - `गोरुपसर्जनस्य, स्त्रीप्रत्ययस्योपसर्जनस्य` इत्यादि। ताभ्यां प्रातिपदिकस्यत्यादेरपि स्फुटीकरणायाह - `उपसर्जनगोशब्दान्तस्य` इत्यादि। उपसर्जनगोशब्दोऽन्तो यस्येति विग्रहः। एवं गोशब्देनोपसर्जनेन स्त्रीप्रत्ययेन च प्रातिपदिकस्य तदन्तविधो सति गोः कुलं गोकुलम्, राज्ञः कुमार्याः पुत्रो राजकुमारीपुत्र इत्यत्र गोशब्द्य कमारीशब्दस्य च ह्रस्वत्वं न भवति, अन्यथा इहापि स्यात्। भवति ह्यत्र गोशब्दस्य राजकुमारीशब्दस्य चोपसर्जनत्वमित्यभिप्रायः।`चित्रगुः` इति। `प्रथमानिर्दिष्टम्` (1.2.43) इत्यादिना गोशब्दसयोपसर्जनसंज्ञा, निष्कोशाम्बिरित्यादौ तु `एकविभक्ति चापूर्व` (1.2.44) इत्यादिना। `अतितन्त्रीः` इत्यादि। `तत्रि कुटुम्बधारणे` (धातुपाठः-1678), `इदितो नुम्` (7.1.58) , `अवितृस्तृतन्त्रीभ्यः` (द।उ।1।82) इतीः- तन्त्रीः। `लक्ष दर्शनाङ्कनयोः` (धातुपाठः-त1538), `लक्षेर्मुट् च` (द।उ।1।84) इति मुट् ईप्रत्ययश्च - लक्ष्मीः। `श्रिञ् सेवायाम्` (धातुपाठः- 897), `क्विब वचिप्रच्छि`(वा।288) इत्यादिना क्विप्, दीर्घः- श्रीः। `अत्यादयः क्रान्त्याद्यर्थे द्वितीयया` (वा।91) इति प्रादिसमासः।यदि स्त्रीति स्त्र्यधिकारविहिताः प्रत्यया गृह्यन्ते ततश्च `प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य` (भो।सू।7) इति तदन्तग्रहणेऽतिराजकुमारीरित्यत्र ह्रस्वत्वं न सिध्यति; न हि राजकुमारशब्दात् **वयसि प्रथमे** (4.1.20) इति ङीप्प्रत्ययो विहितः,किं तर्हि? कुमारशब्दात्, नैष दोषः; एषा परिभाषा `यस्मात्प्रत्ययविधिस्तदादि` (1.4.13) इत्यत्र सूत्रे प्रतिपादिता। तत्र च `वाऽऽमि (1.4.5) इत्यतः `वा` ग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन व्यवस्थिविभाषावतीयं क्वचिन्नोपतिष्ठत एव। अथ वा - **कृत्तद्धितसमासाश्च** (1.2.46) इत्यतश्चकारोऽनुवर्तते,स चानुक्तसमुच्चयार्थः, तेनातिराजकुमारिरित्यत्रापि ह्रस्वत्वं भविष्यतीत्यदोषः।`ईयसो बहुव्रीहौ प्रतिषेधः` इति। ईयसन्ताद्यो विहितः स्त्रीप्रत्ययः,तदन्तस्य बहुव्रीहौ प्रतिषेध इति। कथं पुनरसौ लभ्यते? ` विभाषा च्छन्दसि` (1.2.36) इत्यतो विभाषाग्रहणानुवृत्तेः। न चैवं सत्यतिप्रसङ्गः; व्यवस्थितविभाषाविज्ञानात्।`बहुश्रेयसी` इति। अतिशयेन प्रशस्येति `द्विवचनविभज्योपपदे तरबीयसुननौ` (5.3.57) इतीयसुन्प्रत्ययः। `प्रशस्यस्य` (5.3.60) इति प्रशस्यशब्दस्येयसुनि परतः श्रादेशो भवति, **प्रकृत्यैकाच्** (6.4.163) इति प्रकृतिवद्भावः, **आद्गुणः** (6.1.87) , **उगितश्च** (6.3.45) इति ङीप्। बह्व्यःश्रेयस्यो यस्येति बहुश्रेयसीति `नद्युतश्च` (5.4.153) इति कप् न भवति; `ईयसश्च` (5.4.156) इति कपो निषेधात्। Praudhamanorama --------------- **उपसर्जनं य इति।** यत्तु प्राचा— गोऽन्त-स्त्रीप्रत्ययान्तयोरुपसर्जनयोरित्युक्तम्; तन्न, चित्रगुरित्यादौ गोशब्दस्योपसर्जनत्वेऽपि तदन्तस्याथात्वाद्, गौरीपतिरित्यादौ अतिप्रसङ्गाच्च। कथं सुगोकुलं राजकुमारीपुत्र इति चेत्? शृणु, उपसर्जनस्य ससम्बन्धिकतया यस्य प्रातिपदिकस्य ह्रस्वो विधीयते तदर्थं प्रति उत्तरपदभूतयोर्गुणीभावस्तदैव ह्रस्वत्वम्। Prakriyasarvasvam ----------------- उपसर्जनभूतौ यौ गोशब्दस्त्रीप्रत्ययान्तौ तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । अतिमायः । अक्षं प्रतिगतः प्रत्यक्षः । प्रतिगतो गामित्यत्र गोः ह्रस्वे— Vartika ------- ईयसो बहुव्रीहेर्नेति वाच्यम् । Sutra Prayogas -------------- * **विगतसस्यजिधत्सम्** (शिशुपालवधम्): `गोस्त्रियोरुपसर्जनस्य` इति ह्रस्वत्वम्। * **मधुरान्नतभ्रू** (शिशुपालवधम्): `गोस्त्रियोरुपसर्जनस्य` इति ह्रस्वत्वम्। * **दुर्निवाररणकण्डु** (शिशुपालवधम्): `गोस्त्रियोरुपसर्जनस्य` इति ह्रस्वः। * **कुटिलभ्रु** (शिशुपालवधम्): `गोस्त्रियोरुपसर्जनस्य` इति ह्रस्वः। * **चलितैकभ्रू** (शिशुपालवधम्): `गोस्त्रियोरुपसर्जनस्य` इति ह्रस्वः। * **सस्मितवीक्षितादवज्ञाचलितैकोन्नमितभ्रु** (शिशुपालवधम्): `गोस्त्रियोरुपसर्जनस्य` इति हस्वत्वम्।