12031: समाहारः स्वरितः ====================== **Padacheda:** समाहारः | S | 1 | 1 | स्वरितः | S | 1 | 1 | Sutrartha --------- **यस्य स्वरस्य उच्चारणम् तस्य उच्चारणस्थानस्य उर्ध्वभागम् अधोभागम् च प्रयुज्य भवति, तस्य 'स्वरित:' इति संज्ञा भवति ।** व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः सन्ति 'उदात्तः, अनुदात्तः, स्वरितः' इति तिस्रः संज्ञाः । स्वराणां बाह्यप्रयत्नस्य निर्देशः एताभिः तिसृभिः संज्ञाभिः क्रियते । एतासु 'स्वरितः' इति संज्ञा प्रकृतसूत्रेण विधीयते । यस्य स्वरस्य उच्चारणे उदात्तगुणधर्मस्य अनुदात्तगुणधर्मस्य च समाहारः (सम्मिश्रणम्) भवति (इत्युक्ते, यस्य स्वरस्य उच्चारणसमये वायोः चलनम् उच्चारणस्थानस्य ऊर्ध्वभागे अपि भवति, अधोभागे अपि भवति) तस्य स्वरस्य 'स्वरितः' इति संज्ञा भवति — इति प्रकृतसूत्रस्य आशयः । तदित्थम् — 1) अवर्णस्य उच्चारणस्थानम् कण्ठः । अतः कण्ठस्य ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानः 'अ', 'आ' उत 'अ3' इति स्वरः स्वरितसंज्ञकः भवति । 2) इवर्णस्य उच्चारणस्थानम् तालु । अतः तालुनः ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वासम्पद्यमानः 'इ', 'ई' उत 'इ3' इति स्वरः स्वरितसंज्ञकः भवति । 3) उवर्णस्य उच्चारणस्थानम् ओष्ठौ । अतः ओष्ठयोः ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानः 'उ', 'ऊ' उत 'उ3' इति स्वरः स्वरितसंज्ञकः भवति । 4) ऋवर्णस्य उच्चारणस्थानम् मूर्धा । अतः मूर्ध्नः ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानः 'ऋ', 'ॠ' उत 'ऋ3' इति स्वरः स्वरितसंज्ञकः भवति । 5) एवर्णस्य, ऐवर्णस्य च उच्चारणस्थानम् कण्ठतालु । अतः कण्ठस्य तालुनः च ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानाः 'ए', 'ए3', 'ऐ', 'ऐ3' एते स्वराः स्वरितसंज्ञकाः भवन्ति । 6) ओवर्णस्य औवर्णस्य च उच्चारणस्थानम् कण्ठोष्ठम् । अतः कण्ठस्य ओष्ठयोः च ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानाः 'ओ', 'ओ3', 'औ', 'औ3' एते स्वराः स्वरितसंज्ञकाः भवन्ति । अनेन प्रकारेण निर्दिष्टस्य स्थानस्य **ऊर्ध्वभागात् अधोभागात् च** यदि स्वरस्य उच्चारणम् भवति, तर्हि सः स्वरः 'स्वरितः' नाम्ना ज्ञायते । 1. वस्तुतः उदात्त-अनुदात्त-स्वरित-संज्ञाः वेदानाम् उच्चारणस्य सन्दर्भे प्रसिद्धाः वर्तन्ते । तत्र उदात्तः = medium pitch, अनुदात्तः = low pitch, स्वरितः = high pitch इति भेदः कृतः अस्ति । एतासाम् एव संज्ञानाम् विधानम् पाणिनिमहर्षिणा अष्टाध्याय्यां **उच्चैरुदात्तः** (1.2.29), **नीचैरनुदात्तः** (1.2.30) तथा च **समाहारः स्वरितः** (1.2.31) एतैः त्रिभिः सूत्रैः **उच्चारणस्थानस्य प्रभागानाम् आधारेण** कृतम् अस्ति । अतः, एतेषु सूत्रेषु विद्यमानाः 'उच्चैः', 'नीचैः', तथा 'समाहारः' एते शब्दाः pitch-विषये निर्देशं न कुर्वन्ति अपितु उच्चारणस्थाने वायोः गतिः कस्मिन् प्रभागे विद्यते इत्येतस्य निर्देशं कुर्वन्ति इति अवश्यम् स्मर्तव्यम् । 2. स्वरितस्वरस्य लेखनसमये स्वरस्य उपरि एका ऊर्ध्वरेखा दीयते । यथा - अ॑ इति स्वरितः स्वरः । **स्वरितसंज्ञायाः सूत्रेषु प्रयोगः** भिन्नेषु सूत्रेषु स्वराणाम् उच्चारणविशेषं दर्शयितुम्, तद्विशिष्टं कार्यं वा दर्शयितुम् 'स्वरित'संज्ञायाः प्रयोगः कृतः दृश्यते । कानिचन उदाहरणानि एतानि — 1) **स्वरितञितः कर्त्रभिप्राये क्रियाफले** (1.3.72) इति सूत्रेण उभयपदित्वस्य निर्णयार्थम् स्वरितसंज्ञायाः प्रयोगः क्रियते । 2) **तित्स्वरितम्** (6.1.185) इति सूत्रेण तित्-प्रत्ययस्य (यथा, तव्यत्, ण्यत् इत्येतेषाम्) स्वरः स्वरितसंज्ञकः भवति । 3) अष्टाध्याय्यां पाणिनिः अनुवृत्तेः निर्देशार्थम् स्वरितस्वरस्य प्रयोगं करोति इति **स्वरितेनाधिकारः** (3.1.4) इति सूत्रेण ज्ञाप्यते । Sutrartha (English) ------------------- A vowel that is pronounced using the upper as well as lower portions of its उच्चारणस्थान is known as स्वरित. Vasu English Summary -------------------- The vowel that has the combination of अनुदात्त and उदात्त tones is said to be स्वरित or circumflexly accented. Vasu English Translation ------------------------ The vowel that has the combination of अनुदात्त and उदात्त tones is said to be स्वरित or circumflexly accented. The word "vowel" of s. 28 is understood here also. The *svarita* or circumflexed accent is pronounced by the combined raising and falling of the voice. It is marked by a perpendicular line on the top of the letter. The word is used in *sutra* (6.1.185) \[1\]. "The affixes having an indicatory त् *t* have *svarita* accent." As क॒न्या॑ *kanya*, शि॒क्य॑म् *sikyam*, क्व॑ *kva*. This *sutra* is not to be understood to mean that a *svarita* is the resultant of the combination of two vowels, an *udatta* vowel with an *anudatta* vowel. It means the accent midway between the two well-known qualities of letters known as acute and grave accents. ## Footnotes - [1] - तित्स्वरितम् ॥ Bhashya ------- समाहारः स्वरितः ॥ समाह्रियमाणनिर्णयाधिकरणम् ॥ समाहारः स्वरित इत्युच्यते। कस्य समाहारः स्वरितसञ्ञ्ज्ञो भवति? अचोरित्याह। - समाहारोऽचोश्चेन्नाभावात् - समाहारोऽचोश्चेत्, तन्न। किं कारणम्? अभावात्। नह्यचोः समाहारोऽस्ति। नन्वयमस्ति गाङ्गेऽनूप इति? नैषोऽचोः समाहारः। अन्योयमुदात्तानुदात्तयोः स्थाने एक आदिश्यते। एवं तर्हि गुणयोः। - गुणयोश्चेन्नाच्प्रकरणात् - गुणयोः समाहार इति चेत्, तन्न। किं कारणम्? अच्प्रकरणात्। अजिति वर्तते। - सिद्धं त्वच्समुदायस्याऽभावात्तद्गुणसम्प्रत्ययः - सिद्धमेतत्। कथम्? अच्समुदायो नास्तीति कृत्वा तद्गुणस्याचः समाहारगुणस्य सम्प्रत्ययो भविष्यति। कथं पुनः समाहार इत्यनेनाऽच्छक्यः प्रतिनिर्देष्टुम्? मतुब्लोपोऽत्र द्रष्टव्यः। तद्यथा- पुष्पका एषां ते पुष्पकाः। कालका एषां ते कालका इति। एवं समाहारवान् समाहारः। अथ वा अकारो मत्वर्थीयः। तद्यथा तुन्दो घाट इति। यद्येवं त्रैस्वर्यं न प्रकल्पते। तत्र को दोषः? त्रैस्वर्येणाधीमहे इत्येतन्नोपपद्यते। नैतद्गुणापेक्षम्। किं तर्हि? अजपेक्षमेतत्- त्रैस्वर्येणाधीमहे त्रिप्रकारैरज्भिरधीमहे, कैश्चिदुदात्तगुणैः कैश्चिदनुदात्तगुणैः कैश्चिदुभयगुणैः तद्यथा- शुक्लगुणः शुक्लः, कृष्णगुणः कृष्णः, य इदानीमुभयगुणः स तृतीयामाख्यां लभते- कल्माष इति वा सारङ्ग इति वा। एवमिहाप्युदात्तगुण उदात्तः, अनुदात्तगुणोऽनुदात्तः, य इदानीमुभयगुणः स तृतीयामाख्यां लभते स्वरित इति ॥ समाहारः स्वरितः ॥ 31 ॥ Kashika ------- अज् इति वर्तते। उदात्तानुदात्तसमाहारो योऽच् स स्वरितसंज्ञो भवति। सामर्थ्याच् चात्र लोकवेदयोः प्रसिद्धौ गुणावेव वर्णधर्मावुदात्तानुदात्तौ गृह्येते, नाचौ। तौ समाह्रियेते यस्मिन्नचि तस्य स्वरित इत्येषा संज्ञा विधीयते। शि॒क्य॑म्। क॒न्या॑। सा॒म॒न्यः॑। क्व॑। स्वरितप्रदेशाः — **तित् स्वरितम्** (६.१.१८५) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच् स्वरितसंज्ञः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- स नवविधोऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा ॥ Laghu Shabdendushekhar ---------------------- एकस्मिन्नच्युदात्तानुदात्तयोर्धर्मिणोर्मेलनविरोधादाह — **वर्णधर्माविति** । बाहुलकादधिकरणे घञ् । अर्श आद्यजित्यन्ये ((5.2.127)) । इयं त्रिसूत्री स्पष्टार्था, लोकवेदयोरुदात्तादिव्यवहारस्य प्रसिद्धत्वात् । Padamanjari ----------- सामर्थ्याच्चात्रेति । पारिभाषिकयोरुदातानुदातयोरचोः समाहारूपस्याचः क्वचिदप्यसम्भवः सामर्थ्यम् । ननु च समाहरणं समाहारः, विप्रकीर्णानामेकत्र राशीकरणमेकधर्मयोर्योगो वा, यथा-पञ्चपूली, षण्णगरी दृष्टेति । तत्र पूर्वो मूर्तानामेव, उतरस्तु धर्मयोरपि सम्भवति; किं तु अचा सामानाधिकरण्यं न घटते, न हि वर्णधर्मयोरुदातानुदातयोः समुदायरूपः कश्चिदज्भवतीत्यत आह -तौ समाह्रियेते अस्मिन्नचीति । नानेनाधिकरणसाधनत्वं समाहारशब्दस्य दर्शतम् । तत्र हि ऽकरणाधिकरणयोश्चऽ इति ल्युटा भवितव्यम् । वासरूपविधिश्च नास्ति; क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वचनात् । तस्मादर्थकथनमात्रमेतत् । सामानाधिकरण्यं त्वर्शाअदित्वादच्प्रत्ययान्तत्वेन समर्थंनीयम् । शिक्यम्, कन्येति । ऽशिल्पशिक्यकाश्मर्यधान्यकन्यारा जन्यमनुष्याणामन्तःऽ इति फिट्सूत्रेणान्तःस्वरितत्वम् । सामान्य इति । सामसु साधुः ऽतत्र साधुःऽ इति यत्, ऽतित्स्वरितम्ऽ । क्वेति । ऽकिमोऽत्ऽ,ऽक्वातिऽ ॥ Nyaas ----- उदात्तानुदात्तशब्दावज्विशेषयोः संज्ञे। संज्ञा हि प्रदेशेषूच्चारिताःसंज्ञिनं प्रत्याययन्ति। ताभ्यामिहानुवृत्ताभ्यामुदात्तानुदात्तयोरचोरुपस्थापितयोः प्रत्ययः। तस्मात् समाहारात्मकस्याचः स्वरितसंज्ञा विधीयते। समाहारशब्दश्चसमाहरणं समाहार इति भावसाधनोऽयं लोके समुदाये रूढः। न चोदात्तानुदात्तात्मकः कश्चिदच्समुदायः सम्भवतीति, ततश्च संज्ञिनोऽसम्भवात् संज्ञापि न सम्भवीति यश्चोदयेत्, तं प्रत्याह - `सामर्थ्याच्च` इत्यादि। उच्यते चेदम् - उदात्तानुदात्तसमाहारः स्वरितसंज्ञो भवतीति, न च पारिभाषिकोदात्तानुदात्तसमाहारत्मनोऽचः सम्भवोऽस्ति। तत्र सामर्थ्याल्लोकवेदप्रसिद्धौ यौ धर्मावुदात्तानुदात्तौ तावेव गृह्रेते; नाचौ। नन्वेवमपि स एव दोषः, लोके प्रसिद्धोदात्तानुदात्तात्मनोऽच एषा संज्ञा विधीयते, कस्य तर्हि? लोकवेदप्रसिद्धावुदात्तानुदात्तौ समाह्यियेते यस्मिन्नचि तस्य। सम्भवति चैकस्मिन्नप्यचितयोः समाहार इति कुतः संज्ञिनोऽसम्भवः। `समाह्यियेते यस्मिन्` इति ब्राउवताऽधिकरणसाधनोऽयं समाहारशब्दो न भावसाधन इति दर्शितम्। समाह्यियेते = संहन्येते, सहितावुपलभ्येते इत्यर्थः। `शिक्यम्` इति। `पूञो यण्णुग् ह्रस्वश्च` (द।उ।16) इति यदिति वर्तमाने `श्रन्सेः शि कुट् किच्च` (द।उ।817) इति श्रंसतेर्यत्प्रत्यये शिशब्दादेशे कुडागमे च कृते रूपम्। तित्त्वात् स्वरितम्। `कन्या` इति। `तिल्यशिक्यमत्र्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः` (फि।सू।4।76) इत्यन्तः स्वरितम्। `सामान्यः` इति। सामनि साधुः। **तत्र साधुः** (4.4.98) इति यत्प्रत्ययः। क्वेति किंशब्दात् सप्तम्यन्तात्`किमोऽत्` (5.3.12) इत्यत्प्रत्ययः। `क्वाति` (7.2.105) इति क्वादेशः॥ Prakriyasarvasvam ----------------- उदात्तानुदात्तयोर्योगवानच् स्वरिताख्यः । योगप्रकारमाह— Sarala ------ (उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन् सोऽच् स्वरितसंज्ञः स्यात्) । स्वरितसञ्ज्ञासूत्रमाह - **समाहार इति** । पूर्वसूत्रेभ्य "उदात्त" इति, "अ"जिति चानुवर्त्तते । "उदात्त" इति "अनुदात्त" इति च धर्मप्रधानो निर्देशः, षष्ठ्या च तयोर्विपरिणामः । समाहार इति चाधिकरणे घञ् । तदेवम् - "उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि सम्मेलनं सोऽच् स्वरितसञ्ज्ञः" इत्यर्थो लभ्यते । **स इति** । सः = लब्धह्रस्वोदात्तादिसञ्ज्ञकोऽच् पूर्वोक्तरीत्या नवविधोऽपि, प्रत्येकम् अनुनासिकत्वाननुनासिकत्वाभ्याम् = अनुनासिकत्वेन, अननुनासिकत्वेन च धर्मेण, द्विधा - द्विप्रकारक इत्यर्थः । एवञ्चाऽचामष्टादशभेदलाभः ॥ Sudha ----- **समाहारः स्वरितः इति । ** पूर्वसूत्राभ्यां उदात्तानुदात्तपदे अनुवृत्ते व्याख्यानात् धर्मप्रधाने षष्ठ्यन्ततया च विपरिणम्येते । यस्मिन् समाहरणं स समाहारः । अधिकरणे घञ् । ततश्च उदात्तत्वानुदात्तत्वयोर्धर्मयोर्यस्मिन्नचि मेलनं सोऽच् स्वरितसंज्ञक इत्यर्थः । तदेतत्फलितमाह — **उदात्तानुदात्तत्वे इति** । ** स नवविधोऽपीति ।** १. उदात्तह्रस्वः , २. अनुदात्तह्रस्वः, ३. स्वरितह्रस्वः, ४. उदात्तदीर्घः, ५. अनुदात्तदीर्घः, ६. स्वरितदीर्घः, ७. उदात्तप्लुतः, ८. अनुदात्तप्लुतः, ९. स्वरितप्लुतः, इति रीत्या य एकैकः अच् नवविधः स्थितः स प्रत्येकमनुनासिकत्वेन अननुनासिकत्वेन च द्विधा द्वाभ्यां प्रकाराभ्यां वर्तत इत्यर्थः ।