12015: यमो गन्धने¶
Padacheda: यमः | S | 5 | 1 |
गन्धने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix सिच् before आत्मनेपद affixes is कित् after the verb यम् when meaning ‘to divulge’.
Vasu English Translation¶
The affix सिच् before आत्मनेपद affixes is कित् after the verb यम् when meaning ‘to divulge’. The word gandhana means ‘to divulge,’ ‘to make known that which had been concealed.’ The verb यम् has various meanings.
The result of kit is that the nasal is elided. The verb यम् becomes Atmanepada when preceded by the preposition आङ् by rule (1.3. 28). Thus उत् + आ + यम् + त = उदायत = ‘he divulged,’ उदायसाताम्, उदायसत, the sich is elided by (8.2.27) and म् by (6.4.37). When the verb यम् has any other meaning than ‘to divulge,’ then the सिच् in the Atmanepada is not kit; as उदायंस्त पादस् ‘he raised the foot.’ So also उदायंस्त कूपादुदकम् ‘he raised water from the well.’ Though here the verb yam is in the transitive form and takes an object after it, yet it is Atmanepadi by Rule (1.3.75) which declares “after the verb yam to strive, preceded by सम्, उत् and आङ् when it does not refer to a book, the Atmanepada is employed.”
Kashika¶
सिच् आत्मनेपदेष्विति वर्तते। यमेर्धातोर्गन्धने वर्तमानात् परः सिच् प्रत्ययः किद् भवत्यात्मनेपदेषु परतः। गन्धनं सूचनम्, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम्। अनेकार्थत्वाद् धातूनां यमिस्तत्र वर्तते। उदायत उदायसाताम्, उदायसत। सूचितवान् इत्यर्थः। सिचः कित्त्वादनुनासिकलोपः। आङो यमहनः (१.३.२८) इत्यात्मनेपदम्। गन्धन इति किम्? उदायंस्त पादम्। उदायंस्त कूपाद् उदकम्४। उद्धृतवान् इत्यर्थः। सकर्मकत्वेऽपि समुदाङ्भ्यो यमोऽग्रन्थे (१.३.७५) इत्यात्मनेपदम्॥
Siddhanta Kaumudi¶
सिच्कित्सयात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । गन्धने किम् ? उदायंस्त पादम् । आकृष्टवानित्यर्थः ॥
Balamanorama¶
यमो गन्धने - यमो गन्धने । सिच्कित्स्यादिति । शेषपूरणम् । सिचः कित्त्वे मकारस्य ‘अनुदात्तोपदेशे’ ति लोपः ।
Padamanjari¶
ननु यमिरुपरमे पठ।ल्ते, कथं गन्धने वर्तत इत्यत आह - अनेकार्थत्वादिति । उदायतेति । परावद्यं स्वयं प्रकाशितवानित्यर्थः । उदायंस्त पादमिति । अपकृष्टवानित्यर्थः ॥
Nyaas¶
ननु च यम उपरमे (धातुपाठः-984) इति पठते, तत् कथमयं गन्धने वर्तते, इत्यत आह - अनेकार्थत्वात् इति। आङो यमहनः (1.3.28) इत्यत्र अकर्मकाच्च (1.3.45) इत्यतोऽकर्मकग्रहणमनुवर्तते। तत् कथमिह सकर्मकत्वे सत्यात्मनेपदमित्यत आह - सकर्मकत्वेऽपि इत्यादि। सकर्मकत्वन्तु पदादेः क्रमणोऽत्र विद्यमानत्वात्। `उदायंस्त पादम् इति। आकृष्टवानित्यर्थः॥
Prakriyasarvasvam¶
परदोषसूचनार्थस्य यमेस्तङि सिच् कित् स्यात् । कित्त्वाद् ‘अनुदात्तोपदेश- वनतीत्या’दिना मलोपः । उदायस् त ।