12015: यमो गन्धने ================= **Padacheda:** यमः | S | 5 | 1 | गन्धने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix सिच् before आत्मनेपद affixes is कित् after the verb यम् when meaning 'to divulge'. Vasu English Translation ------------------------ The affix सिच् before आत्मनेपद affixes is कित् after the verb यम् when meaning 'to divulge'. The word *gandhana* means 'to divulge,' 'to make known that which had been concealed.' The verb यम् has various meanings. The result of *kit* is that the nasal is elided. The verb यम् becomes *Atmanepada* when preceded by the preposition आङ् by rule (1.3. 28). Thus उत् + आ + यम् + त = उदायत = 'he divulged,' उदायसाताम्, उदायसत, the *sich* is elided by (8.2.27) and म् by (6.4.37). When the verb यम् has any other meaning than 'to divulge,' then the सिच् in the *Atmanepada* is not *kit*; as उदायंस्त पादस् 'he raised the foot.' So also उदायंस्त कूपादुदकम् 'he raised water from the well.' Though here the verb *yam* is in the transitive form and takes an object after it, yet it is *Atmanepadi* by Rule (1.3.75) which declares "after the verb *yam* to strive, preceded by सम्, उत् and आङ् when it does not refer to a book, the *Atmanepada* is employed." Kashika ------- सिच् आत्मनेपदेष्विति वर्तते। यमेर्धातोर्गन्धने वर्तमानात् परः सिच् प्रत्ययः किद् भवत्यात्मनेपदेषु परतः। गन्धनं सूचनम्, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम्। अनेकार्थत्वाद् धातूनां यमिस्तत्र वर्तते। उदायत उदायसाताम्, उदायसत। सूचितवान् इत्यर्थः। सिचः कित्त्वादनुनासिकलोपः। **आङो यमहनः** (१.३.२८) इत्यात्मनेपदम्। गन्धन इति किम्? उदायंस्त पादम्। उदायंस्त कूपाद् उदकम्४। उद्धृतवान् इत्यर्थः। सकर्मकत्वेऽपि **समुदाङ्भ्यो यमोऽग्रन्थे** (१.३.७५) इत्यात्मनेपदम्॥ Siddhanta Kaumudi ----------------- सिच्कित्सयात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । गन्धने किम् ? उदायंस्त पादम् । आकृष्टवानित्यर्थः ॥ Balamanorama ------------ **यमो गन्धने** - यमो गन्धने । सिच्कित्स्यादिति । शेषपूरणम् । सिचः कित्त्वे मकारस्य 'अनुदात्तोपदेशे' ति लोपः । Padamanjari ----------- ननु यमिरुपरमे पठ।ल्ते, कथं गन्धने वर्तत इत्यत आह - अनेकार्थत्वादिति । उदायतेति । परावद्यं स्वयं प्रकाशितवानित्यर्थः । उदायंस्त पादमिति । अपकृष्टवानित्यर्थः ॥ Nyaas ----- ननु च `यम उपरमे` (धातुपाठः-984) इति पठते, तत् कथमयं गन्धने वर्तते, इत्यत आह - `अनेकार्थत्वात्` इति। **आङो यमहनः** (1.3.28) इत्यत्र **अकर्मकाच्च** (1.3.45) इत्यतोऽकर्मकग्रहणमनुवर्तते। तत् कथमिह सकर्मकत्वे सत्यात्मनेपदमित्यत आह - `सकर्मकत्वेऽपि इत्यादि। सकर्मकत्वन्तु पदादेः क्रमणोऽत्र विद्यमानत्वात्। `उदायंस्त पादम्` इति। आकृष्टवानित्यर्थः॥ Prakriyasarvasvam ----------------- परदोषसूचनार्थस्य यमेस्तङि सिच् कित् स्यात् । कित्त्वाद् 'अनुदात्तोपदेश- वनतीत्या'दिना मलोपः । उदायस् त ।