12014: हनः सिच्¶
Padacheda: हनः | S | 5 | 1 |
सिच् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The सिच् आत्मनेपद affixes are कित् after the root हन् ‘to kill’.
Vasu English Translation¶
The सिच् आत्मनेपद affixes are कित् after the root हन् ‘to kill’. As आहत, आहसाताम्, आहसत are the aorist of हन्. When a सिच् or second aorist is kit the verb loses its nasal, by Rule (6.4.37). After the verb हन् the सिच् is only kit and not the Benedictive लिङ् terminations, as was the case in the previous sutra; hence the repetition of the word sich in this sutra. The sutras (1.2.12) and (1.2.13) were governed both by लिङ् and सिच्; from and after this sutra, the governing power of लिङ् ceases. The governing power of the word “Atmanepada” in sutra (1.2.11) does not however cease, and its anuvritti runs through the succeeding sutras; though as regards this sutra, its anuvritti is redundant, in as much as before the Parasmaipada terminations, the root हन् is always replaced by वध् in the aorist, there is no necessity of making the affix sich a kit. For the object served in making sich, kit, after the verb हन्, is to elide the nasal, while in the case of वध्, no such purpose can be served.
Kashika¶
हन्तेर्धातोः परः सिच् किद् भवति। आहत, आहसाताम्, आहसत। सिचः कित्त्वाद् अनुनासिकलोपः। सिज्ग्रहणं लिङ्निवृत्त्यर्थम्, उत्तरत्रानुवृत्तिर्मा भूत्। आत्मनेपदग्रहणमुत्तरार्थमनुवर्तते। इह तु परस्मैपदे हन्तेर्वधभावस्य नित्यत्वात् कित्त्वस्य प्रयोजनं नास्ति॥
Siddhanta Kaumudi¶
कित्स्यात् । अनुनासिकलोपः । आहत । आहसाताम् । आहसत ॥
Balamanorama¶
हनः सिच् - हनः सिच् ।कित्स्या॑दिति शेषपूरणम् ।असंयोगाल्लिट्कि॑दित्यतस्तदनुवृत्तेरिति भावः । हनधातोः परः सिच् कित्स्यादिति फलितम् । अनुनासिकलोप इति । ‘अनुदात्तोपदेशे’ इति नकारलोप इत्यर्थः । उत् आ यम् स् त इति स्थिते -
Padamanjari¶
सौत्रत्वान्निर्देशस्याल्लोपो न कृतः । आहसतेति ।ऽआङे यमहनऽ इत्यात्मनेपदम्, ऽआत्मनेपदेष्वनतःऽ इत्यदादेशः । सिज्ग्रहणं लिङ्निवृत्यर्थमिति । प्रकृतं सिज्ग्रहणं लिङ्संबद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति भावः । ननु च ऽहनो वध लिङ्ऽ ईति लिङ् विधादेशो नित्यः, धानिषीष्टेति चिण्वदिटि वधादेशाभावेऽप्यझलादित्वादप्रसङ्गस्तत् किं लिङ्निवृत्येत्यत्राह-उक्षरत्रेति । उतरार्थमवश्यं सिज्ग्रहणं कर्तव्यम्, तदिहैव क्रियते, न्यायानुसरणे प्रतिपतिगौरवं मा भूदित्येवमार्थमित्यर्थः । आत्मनेपदग्रहणमित्यादि । यमः परस्मैपदेषु ऽयमरमनमाताम्ऽ इति सगिटौ भवत इति झलादिः सिज्न भवति । उपयमने तु नित्यमात्मनेपदम्, स्थाध्वोः परस्मैपदेषु सिचो लुग् भवति,ऽवा गमःऽ इत्यत्रापि परस्मैपदेष्वङ् भवति, लीङ् यासुट्निवृत्यर्थमेव च झल्ग्रहणमनुवर्त्यम्, एवमस्मिन्नप्यधानिषातामिति चिण्वदिटि मा भूदिति, तदेवम् ऽवा गमःऽ इत्यारभ्यात्मनेपदग्रहणं चिन्त्यप्रयोजनम् । किमर्थं पुनरिदम्, यावता आत्मनेपदं ङिति सिजन्तस्याङ्गस्य ऽअनिदिताम्ऽ इत्येव नलोपः सिद्धः, उच्चारणार्थो हि सिच इकारः, नानुबन्धः ? ज्ञापनार्थम् । एतज् ज्ञापयति-ऽन सिजन्तस्योपधालोपो भवतिऽ इति । तेनामास्तेति सिद्धं भवति । ननु च सिचि ऽअनुदातोपदेशऽ इति लोपो यथा स्याद्, आत्मनेपदे उपधालोपो मा भूदित्येवमर्थमिदं स्यात्, कः पुनरत्र विशेषः-सिचि वा लोपो भवतु, आत्मनेपदे वा ? अयमस्ति विशेषः-आत्मनेपदे लोपे सति ऽअतो लोपःऽ प्राप्नोति, सिचि तु न; आभीयस्यानुनासिकलोबस्यासिद्धत्वात् । यद्यपि उपधालोपोऽप्याभीयस्तथापि व्याश्रयत्वादसिद्धत्वं न प्राप्नोति-आत्मनेपदे उपधालोपः, सिच्यतो लोपः । यद्येवम्, बहिरङ्ग उपधालोपः, बहिर्भूतात्मनेपदापेक्षत्वाद्; अन्तरङ्गोऽल्लोपः, अन्तर्भूतसिजपेक्षत्वात् ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ । ननु चैषा परिभाषाप्याभाच्छास्त्रीया ऽवाह ऊठऽ इत्यत्र ज्ञापितेति तस्यामन्तरङ्गबहिरङ्गयोरसिद्धत्वाद् यथा पपुष इत्यादावल्लोपादिषु वसोः संप्रसारणस्यासिद्धत्वं न भवति, तथात्रापि न स्यात्, ततश्चातो लोपः स्यादिति सिच्येवानुनासिकलोप एषितव्य इति वक्तव्यमेव सिचः कित्वमिति ज्ञापकानुपपतेः, अमंस्तेत्यादावुपधालोपः स्यात् । तस्मात् सिच इकारोऽनुबन्ध एव, नौच्चारणार्थः । तेन ऽअदिताम्ऽ इति प्रतिषेधादुपधालोपाभावः । ऽइदितो नुम्ऽ इत्यत्र धातुग्रहणं सिजन्तनिवृत्यर्थमेव क्रियते, न धातूपदेशावस्थायामेव नुम् यथा स्यादित्येवमर्थम् । कुण्डेत्यादिसिद्धये च यत्नान्तरमास्थेयमिति केचित्; नेति वयम् । उपधालोपेऽपि नातो लोपेन भवितव्यम् । किं कारणम् ? ऽउपदेशऽ इति वर्तते उपदेशे योऽकारान्तस्तस्य लोपः, इहापि तर्हि न प्राप्नोति - ऽधिन्विकृण्व्योर चऽ धिनुतः, कृणुतः, नोपदेशग्रहणेन प्रकृतिरभिसम्बध्यते - उपदेशे या प्रकृतिरकारान्तेति, किं तर्हि ? आर्धधातुकमभिसम्बध्यते - आर्द्धधातुकोपदेशे यदकारान्तं तस्येति । तदेवमुपधालोपेऽपि न कश्चिद्दोष इति ज्ञापकार्यमेव वचनमिति सर्वमनाकुलम्॥
Nyaas¶
आहत इति। आङो यमहनः (1.3.28) इत्यात्मनेपदम्। पूर्ववत् सिचो लोपः। आहसत इति। आत्मनेपदेष्वनतः (7.1.5 इत्यदादेश-। अथ सिज्ग्रहणे प्रकृते पुनः सिज्ग्रहणं किमर्थं क्रियत इत्याह - सिज्ग्रहणं लिङनिवृत्यर्थम् इति। प्रकृतं हि सिज्ग्रहणं लिङा सह सम्बद्धम्, अतस्तदनुवृत्तौ सत्यां तस्याप्यनुवृत्तिराशङ्क्येत; तस्मात् तन्निराकर्तुं सिज्ग्रहणं क्रियते। ननु च हन्तेलिङि वधादेशेन भवितव्यम्; न च तत्र सत्यपि कित्त्वे किञ्चिदनिष्टमापद्यते, तत् कस्माल्लिङनिवृत्त्यर्थं सिज्ग्रहणं क्रियत इत्यत आह - उत्तरत्र इत्यादि। यद्यत्र लिङनुवर्तते तत उत्तरत्र तस्यानुवृत्तिः स्यात्, ततश्चोत्तरसूत्रेण तस्यापि कित्त्वं स्यादित्यभिप्रायः।इह तु वृत्तावात्मनेपदेन सिज् न विशेष्यत इत्यात्मनेपदं निवृत्तमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह - आत्मनेपदग्रहणम् इत्यादि। इहापि कस्मान्न भवतीत्यत आह - इह तु इत्यादि। लुङि च (2.4.43) इति हन्तेः परस्मैपदेषु लुङि वधादेशः क्रियते, स च नित्यः। नित्यत्वन्तु तस्य आत्मनेपदेष्वन्यतरस्याम् (3.1.54) इत्यत्तरसूत्रेऽन्यतरस्यां ग्रहणात्। नच नित्ये वधादेशे कित्त्वस्य किञ्चित् प्रयोजनमस्ति अतो नेहात्मनेपदस्यानुवृत्तिरुपपद्यते।अथ किमर्थं हन्तेः परस्य सिचः, कित्त्वं विधीयते, यावता सार्वधातुकमपित् (1.2.4) इति सिचः परस्य सार्वधातुकस्य ङित्त्वमस्त्येव? तत्र अनिदिताम् (6.4.24) इत्यनुनासिकलोपः सिद्धः। सिच इदित्त्वान्न सिध्यतीति चेत्? न; सिच इकारस्योच्चारणार्थत्वात्। तथा हि च्लेः सिच् (3.1.44) इत्यत्र वक्ष्यति - इकार उच्चारणार्थः इति। एवमपि च्लेरिदित्वात् सिचोऽपि स्थानिवद्भावेनेदित्त्वमतो न सिध्यतीति चेत्, न ; च्लेरकारस्योच्चारणार्थत्वात्। तथा हि च्लि लुङि (3.1.43) इत्यत्र वक्ष्यति - इकार उच्चारणार्थः इति। एवं तर्हि सिद्धे ङित्त्वे सति यत् पुनरिह हनः सिजिति सिचः कित्त्वं विदधाति तज्ज्ञापयति - बाह्र सार्वधातुकमाश्रित्य सिजन्तस्य अनिदिताम् (6.4.24) इत्यनुनासिकलोपो न भवतीति; तेनारंस्त,अमंस्त आयंस्त पादमिति सिद्धं भवति; अन्यथा ह्रनुनासिकलोपे कृत आयतेत्यनिष्टं रूपं स्यात्।
Prakriyasarvasvam¶
हन्तेः परो झलादिः सिच् तङि कित्स्यात् । कित्त्वादनुनासिकलोपः । अहसाताम् । अहसत । अहथाः । अहध्वम् । अहसि । अहस्वहि । <karika>कर्तर्यप्यवधिष्टेत्याद्यवदच्छुङ्करस्तङम् । वध बन्धन इत्यस्मात्तङवतो वधवृत्तितः ॥ ७०९ ॥</karika> लिटि—‘अभ्यासाच्च’ इति कुत्वम् । जघान । घञिवद्द्वित्वम् । जघ्नतुः । जघ्नुः । जघनिथ, जघन्थ । जघ्नथुः । जघान, जघन । जघ्निव । कर्मणि जघ्ने । आशिषि—
Sutra Prayogas¶
पितॄनपारीत्सममंस्त (भट्टिकाव्यम्): हनः सिच् इति किक- रणज्ञापकान्नलोपाभावः ।
शस्त्राण्युपायंसत (भट्टिकाव्यम्): हनः सिच् इति ज्ञापकादनुनासिकलोपाभावः।
अवमन्ध्वम् (भट्टिकाव्यम्): हनः सिच् इति कित्त्वविधान- सामर्थ्यात् अनुनासिकलोपाभावः।