12014: हनः सिच् =============== **Padacheda:** हनः | S | 5 | 1 | सिच् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The सिच् आत्मनेपद affixes are कित् after the root हन् 'to kill'. Vasu English Translation ------------------------ The सिच् आत्मनेपद affixes are कित् after the root हन् 'to kill'. As आहत, आहसाताम्, आहसत are the aorist of हन्. When a सिच् or second aorist is *kit* the verb loses its nasal, by Rule (6.4.37). After the verb हन् the सिच् is only *kit* and not the Benedictive लिङ् terminations, as was the case in the previous *sutra*; hence the repetition of the word *sich* in this *sutra*. The *sutras* (1.2.12) and (1.2.13) were governed both by लिङ् and सिच्; from and after this *sutra*, the governing power of लिङ् ceases. The governing power of the word "*Atmanepada*" in *sutra* (1.2.11) does not however cease, and its *anuvritti* runs through the succeeding *sutras*; though as regards this *sutra*, its *anuvritti* is redundant, in as much as before the *Parasmaipada* terminations, the root हन् is always replaced by वध् in the aorist, there is no necessity of making the affix *sich* a *kit*. For the object served in making *sich*, *kit*, after the verb हन्, is to elide the nasal, while in the case of वध्, no such purpose can be served. Kashika ------- हन्तेर्धातोः परः सिच् किद् भवति। आहत, आहसाताम्, आहसत। सिचः कित्त्वाद् अनुनासिकलोपः। सिज्ग्रहणं लिङ्निवृत्त्यर्थम्, उत्तरत्रानुवृत्तिर्मा भूत्। आत्मनेपदग्रहणमुत्तरार्थमनुवर्तते। इह तु परस्मैपदे हन्तेर्वधभावस्य नित्यत्वात् कित्त्वस्य प्रयोजनं नास्ति॥ Siddhanta Kaumudi ----------------- कित्स्यात् । अनुनासिकलोपः । आहत । आहसाताम् । आहसत ॥ Balamanorama ------------ **हनः सिच्** - हनः सिच् ।कित्स्या॑दिति शेषपूरणम् ।असंयोगाल्लिट्कि॑दित्यतस्तदनुवृत्तेरिति भावः । हनधातोः परः सिच् कित्स्यादिति फलितम् । अनुनासिकलोप इति । 'अनुदात्तोपदेशे' इति नकारलोप इत्यर्थः । उत् आ यम् स् त इति स्थिते - Padamanjari ----------- सौत्रत्वान्निर्देशस्याल्लोपो न कृतः । आहसतेति ।ऽआङे यमहनऽ इत्यात्मनेपदम्, ऽआत्मनेपदेष्वनतःऽ इत्यदादेशः । सिज्ग्रहणं लिङ्निवृत्यर्थमिति । प्रकृतं सिज्ग्रहणं लिङ्संबद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति भावः । ननु च ऽहनो वध लिङ्ऽ ईति लिङ् विधादेशो नित्यः, धानिषीष्टेति चिण्वदिटि वधादेशाभावेऽप्यझलादित्वादप्रसङ्गस्तत् किं लिङ्निवृत्येत्यत्राह-उक्षरत्रेति । उतरार्थमवश्यं सिज्ग्रहणं कर्तव्यम्, तदिहैव क्रियते, न्यायानुसरणे प्रतिपतिगौरवं मा भूदित्येवमार्थमित्यर्थः । आत्मनेपदग्रहणमित्यादि । यमः परस्मैपदेषु ऽयमरमनमाताम्ऽ इति सगिटौ भवत इति झलादिः सिज्न भवति । उपयमने तु नित्यमात्मनेपदम्, स्थाध्वोः परस्मैपदेषु सिचो लुग् भवति,ऽवा गमःऽ इत्यत्रापि परस्मैपदेष्वङ् भवति, लीङ् यासुट्निवृत्यर्थमेव च झल्ग्रहणमनुवर्त्यम्, एवमस्मिन्नप्यधानिषातामिति चिण्वदिटि मा भूदिति, तदेवम् ऽवा गमःऽ इत्यारभ्यात्मनेपदग्रहणं चिन्त्यप्रयोजनम् । किमर्थं पुनरिदम्, यावता आत्मनेपदं ङिति सिजन्तस्याङ्गस्य ऽअनिदिताम्ऽ इत्येव नलोपः सिद्धः, उच्चारणार्थो हि सिच इकारः, नानुबन्धः ? ज्ञापनार्थम् । एतज् ज्ञापयति-ऽन सिजन्तस्योपधालोपो भवतिऽ इति । तेनामास्तेति सिद्धं भवति । ननु च सिचि ऽअनुदातोपदेशऽ इति लोपो यथा स्याद्, आत्मनेपदे उपधालोपो मा भूदित्येवमर्थमिदं स्यात्, कः पुनरत्र विशेषः-सिचि वा लोपो भवतु, आत्मनेपदे वा ? अयमस्ति विशेषः-आत्मनेपदे लोपे सति ऽअतो लोपःऽ प्राप्नोति, सिचि तु न; आभीयस्यानुनासिकलोबस्यासिद्धत्वात् । यद्यपि उपधालोपोऽप्याभीयस्तथापि व्याश्रयत्वादसिद्धत्वं न प्राप्नोति-आत्मनेपदे उपधालोपः, सिच्यतो लोपः । यद्येवम्, बहिरङ्ग उपधालोपः, बहिर्भूतात्मनेपदापेक्षत्वाद्; अन्तरङ्गोऽल्लोपः, अन्तर्भूतसिजपेक्षत्वात् ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ । ननु चैषा परिभाषाप्याभाच्छास्त्रीया ऽवाह ऊठऽ इत्यत्र ज्ञापितेति तस्यामन्तरङ्गबहिरङ्गयोरसिद्धत्वाद् यथा पपुष इत्यादावल्लोपादिषु वसोः संप्रसारणस्यासिद्धत्वं न भवति, तथात्रापि न स्यात्, ततश्चातो लोपः स्यादिति सिच्येवानुनासिकलोप एषितव्य इति वक्तव्यमेव सिचः कित्वमिति ज्ञापकानुपपतेः, अमंस्तेत्यादावुपधालोपः स्यात् । तस्मात् सिच इकारोऽनुबन्ध एव, नौच्चारणार्थः । तेन ऽअदिताम्ऽ इति प्रतिषेधादुपधालोपाभावः । ऽइदितो नुम्ऽ इत्यत्र धातुग्रहणं सिजन्तनिवृत्यर्थमेव क्रियते, न धातूपदेशावस्थायामेव नुम् यथा स्यादित्येवमर्थम् । कुण्डेत्यादिसिद्धये च यत्नान्तरमास्थेयमिति केचित्; नेति वयम् । उपधालोपेऽपि नातो लोपेन भवितव्यम् । किं कारणम् ? ऽउपदेशऽ इति वर्तते उपदेशे योऽकारान्तस्तस्य लोपः, इहापि तर्हि न प्राप्नोति - ऽधिन्विकृण्व्योर चऽ धिनुतः, कृणुतः, नोपदेशग्रहणेन प्रकृतिरभिसम्बध्यते - उपदेशे या प्रकृतिरकारान्तेति, किं तर्हि ? आर्धधातुकमभिसम्बध्यते - आर्द्धधातुकोपदेशे यदकारान्तं तस्येति । तदेवमुपधालोपेऽपि न कश्चिद्दोष इति ज्ञापकार्यमेव वचनमिति सर्वमनाकुलम्॥ Nyaas ----- `आहत` इति। **आङो यमहनः** (1.3.28) इत्यात्मनेपदम्। पूर्ववत् सिचो लोपः। `आहसत` इति। `आत्मनेपदेष्वनतः` (7.1.5 इत्यदादेश-। अथ सिज्ग्रहणे प्रकृते पुनः सिज्ग्रहणं किमर्थं क्रियत इत्याह - `सिज्ग्रहणं लिङनिवृत्यर्थम्` इति। प्रकृतं हि सिज्ग्रहणं लिङा सह सम्बद्धम्, अतस्तदनुवृत्तौ सत्यां तस्याप्यनुवृत्तिराशङ्क्येत; तस्मात् तन्निराकर्तुं सिज्ग्रहणं क्रियते। ननु च हन्तेलिङि वधादेशेन भवितव्यम्; न च तत्र सत्यपि कित्त्वे किञ्चिदनिष्टमापद्यते, तत् कस्माल्लिङनिवृत्त्यर्थं सिज्ग्रहणं क्रियत इत्यत आह - `उत्तरत्र` इत्यादि। यद्यत्र लिङनुवर्तते तत उत्तरत्र तस्यानुवृत्तिः स्यात्, ततश्चोत्तरसूत्रेण तस्यापि कित्त्वं स्यादित्यभिप्रायः।इह तु वृत्तावात्मनेपदेन सिज् न विशेष्यत इत्यात्मनेपदं निवृत्तमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह - `आत्मनेपदग्रहणम्` इत्यादि। इहापि कस्मान्न भवतीत्यत आह - `इह तु` इत्यादि। `लुङि च` (2.4.43) इति हन्तेः परस्मैपदेषु लुङि वधादेशः क्रियते, स च नित्यः। नित्यत्वन्तु तस्य **आत्मनेपदेष्वन्यतरस्याम्** (3.1.54) इत्यत्तरसूत्रेऽन्यतरस्यां ग्रहणात्। नच नित्ये वधादेशे कित्त्वस्य किञ्चित् प्रयोजनमस्ति अतो नेहात्मनेपदस्यानुवृत्तिरुपपद्यते।अथ किमर्थं हन्तेः परस्य सिचः, कित्त्वं विधीयते, यावता **सार्वधातुकमपित्** (1.2.4) इति सिचः परस्य सार्वधातुकस्य ङित्त्वमस्त्येव? तत्र `अनिदिताम्` (6.4.24) इत्यनुनासिकलोपः सिद्धः। सिच इदित्त्वान्न सिध्यतीति चेत्? न; सिच इकारस्योच्चारणार्थत्वात्। तथा हि **च्लेः सिच्** (3.1.44) इत्यत्र वक्ष्यति - `इकार उच्चारणार्थः` इति। एवमपि च्लेरिदित्वात् सिचोऽपि स्थानिवद्भावेनेदित्त्वमतो न सिध्यतीति चेत्, न ; च्लेरकारस्योच्चारणार्थत्वात्। तथा हि **च्लि लुङि** (3.1.43) इत्यत्र वक्ष्यति - `इकार उच्चारणार्थः` इति। एवं तर्हि सिद्धे ङित्त्वे सति यत् पुनरिह हनः सिजिति सिचः कित्त्वं विदधाति तज्ज्ञापयति - बाह्र सार्वधातुकमाश्रित्य सिजन्तस्य `अनिदिताम्` (6.4.24) इत्यनुनासिकलोपो न भवतीति; तेनारंस्त,अमंस्त आयंस्त पादमिति सिद्धं भवति; अन्यथा ह्रनुनासिकलोपे कृत आयतेत्यनिष्टं रूपं स्यात्। Prakriyasarvasvam ----------------- हन्तेः परो झलादिः सिच् तङि कित्स्यात् । कित्त्वादनुनासिकलोपः । अहसाताम् । अहसत । अहथाः । अहध्वम् । अहसि । अहस्वहि । कर्तर्यप्यवधिष्टेत्याद्यवदच्छुङ्करस्तङम् । वध बन्धन इत्यस्मात्तङवतो वधवृत्तितः ॥ ७०९ ॥ लिटि—'अभ्यासाच्च' इति कुत्वम् । जघान । घञिवद्द्वित्वम् । जघ्नतुः । जघ्नुः । जघनिथ, जघन्थ । जघ्नथुः । जघान, जघन । जघ्निव । कर्मणि जघ्ने । आशिषि— Sutra Prayogas -------------- * **पितॄनपारीत्सममंस्त** (भट्टिकाव्यम्): `हनः सिच्` इति किक- रणज्ञापकान्नलोपाभावः । * **शस्त्राण्युपायंसत** (भट्टिकाव्यम्): `हनः सिच्` इति ज्ञापकादनुनासिकलोपाभावः। * **अवमन्ध्वम्** (भट्टिकाव्यम्): `हनः सिच्` इति कित्त्वविधान- सामर्थ्यात् अनुनासिकलोपाभावः।