12010: हलन्ताच्च¶
Padacheda: हलन्तात् | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And after a root ending in a consonant and preceded by a vowel of the प्रत्यहार इक् , the affix सन् beginning with a झल् consonant, is like कित् ।
Vasu English Translation¶
And after a root ending in a consonant and preceded by a vowel of the प्रत्यहार इक् , the affix सन् beginning with a झल् consonant, is like कित् । Thus from भिद् ‘to pierce’ we have बिभित्सति ‘he wishes to break,’ here the root भिद् contains the ik vowel इ; it ends in a consonant द्; the affix सन् is directly added without taking an intermediate इ, and therefore it fulfils all the conditions of the sutra; and the vowel is not gunated.
If the final consonant of the verb is not preceded by a vowel of the ik class, the affix सन् is not kit after such a verb. As यज् + सन् + ते = यियक्षते ‘wishes to sacrifice.’ Had the affix सन् been here a kit affix, there would have been samprasarana by rule (6.1.16) which declares that there is samprasarana of the verbs वच्, स्वप्, and यज् &c., before kit affixes.
If the san takes the intermediate इ and is then no longer a झलादि सन् it is not kit; and causes gunation etcetera. As वृत् + इ + सन् = विवर्तिषते ‘he desires to be.’ Here there is guna of ri.
Roots like दम्भ्, तृंह् &c., are governed by this rule, though they end in conjunct consonants, for the word हल् of the sutra means jati or class; thus दम्भ् + सन् + तिप् = दभ् + सति (6.4.24), the m being elided by treating सन् as कित्) = धीप्सति or धिप्सति (7.4.56).
Bhashya¶
हलन्ताच्च अयुक्तोऽयं निर्देशः। कथं हि इको नाम हलन्तः स्यादन्यस्यान्यः? कथं तर्हि निर्देशः कर्तव्यः? इग्वतो हलः इति। यद्येवं यियक्षति अत्रापि प्राप्नोति। एवं तर्हि इगुपधाद्धलन्ताद् इति वक्ष्यामि। एवमपि दम्भेर्न प्राप्नोति। सूत्रं च भिद्यते। यथान्यासमेवास्तु। ननु चोक्तम्- अयुक्तोऽयं निर्देशः इति। नायुक्तः। अयमन्तशब्दोऽस्त्येवावयववाची। तद्यथा - वस्त्रान्तः, वसनान्तः इति। वस्त्रावयवो वसनावयव इति गम्यते। अस्ति सामीप्ये वर्तते। तद्यथा - उदकान्तं गतः इति, उदकसमीपं गत इति गम्यते। तद्यः सामीप्ये वर्तते, तस्येदं ग्रहणम्। एवमपि दम्भेर्न सिध्यति। यो ह्यत्रेक्समीपो हल्, न तस्मादुत्तरः सन्, यस्मादुत्तरः सन्, नासाविक्समीपे हल्। एवं तर्हि - दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम्। हल्जातिर्निर्दिश्यते - इक उत्तरा या हल्जातिरिति ॥ हलन्ताच्च ॥ 10 ॥
Kashika¶
इकः सन् झल् किदिति वर्तते। समीपवचनोऽन्तशब्दः। हल् चासावन्तश्च हलन्तः। इगन्ताद् इक्समीपाद् हलः परः सन् झलादिः किद् भवति। बिभित्सति। बुभुत्सते। इक इत्येव — यियक्षते। झलित्येव — विवर्तिषते। दम्भेर्हल्ग्रहणस्य जातिवाचकत्वाद् सिद्धम्। धीप्सति। धिप्सति॥
Siddhanta Kaumudi¶
इक्समीपाद्धलः परो झलादि सन् कित्स्यात् । गुहू । जुघुक्षति । बिभित्सति । इकः किम् । यियक्षते । झल्किम् । विवर्धिषते । हल्ग्रहणं जातिपरम् । तृन्हू । तितृक्षति । तितृंहिषति ॥
Laghu Siddhanta Kaumudi¶
इक्समीपाद्धलः परो झलादिः सन् कित्। निविविक्षते॥
Balamanorama¶
हलन्ताच्च - हलन्ताच्च ।इको झ॑लिति पूर्वसूत्रमनुवर्तते ।रुदविदमुषे॑त्यतः सनिति,॒असंयोगाल्लि॑डित्यतः किदिति च ।ह॑लिति लुप्तपञ्चमीकं पदम् । अन्तशब्दः समीपवाची । तदाह — इक्समीपादित्यादि । जुघुक्षतीति । सनः कित्त्वान्न गुणः ।सनि ग्रहगुहोश्चे॑त्यूदित्त्वेऽपि नित्यं नेट् । हस्य ढत्वे भष्भावे कत्वषत्वे इति भावः । बिभित्सतीति । भिदेः सनः कित्त्वान्न गुणः । यियक्षते इति । अत्र हलः इक्समीपत्वाऽभावान्न कित्त्वम् । सति तु कित्त्वे यजेः संप्रसारणं स्यादिति भावः । विवर्धिषते इति । वृधेः सनि रूपम् । अत्र सन इटि झलादित्वं नेति भावः । ननु ‘तृंहू हिंसायाम्’ तुदादिर्नोपधोऽयम् । कृतानुस्वारस्य निर्देशः । अस्मात्सनःअनिदिता॑मिति नलोपार्थं कित्त्वमिष्यते । तन्नोपपद्यते । न ह्यत्र इक्समीपादनुस्वारात्सन् परो भवति, हकारेण व्यवधानात् । हकारात्तु परः सन् इक्समीपाद्धलः परो न भवति, अनुस्वारेण व्यवधानादित्यत आह — हल्ग्रहमं जातिपरमिति । हल्त्वजात्याक्रान्तैकाऽनेकव्यक्तिपरमित्यर्थः । तृंह्विति । तृंहूधातोः प्रदर्शनामिदम् ।तितृक्षतीति.ऊदित्त्वादिडभावपक्षे रूपम् । सनः कित्त्वान्नलोपः, लघूपधगुणाऽभावश्च । ढत्वकत्वषत्वानि । इट्पक्षे आह — तितृंहिषत#ईति । झलादित्वाऽभावेन कित्त्वाऽभावान्नलोपो नेति भावः ।
Tattvabodhini¶
हलन्ताच्च - हलन्ताच्च । इगित्यनुर्तते । तदवयवत्वं हलो न संभवतीति समीपवाच्यत्राऽन्तशब्द इत्याशयेन व्याचष्टे - इक्समीपादिति । सौत्रत्वाद्विशेषणस्याऽन्तशब्दस्य परनिपातः । तितृक्षतीति । कित्त्वे सतिअनिदिता॑ मिति नलोपः ।
Padamanjari¶
समीपवचनोऽन्तशब्द इति । अवयववचनस्तु न भवति, धातावन्यपदार्थे ऽयेन विधिस्तदन्तस्यऽ इत्येव तदन्तविधेः सिद्धत्वात् । इकस्त्वन्यपदार्थत्वं नैव सम्भवति, न हि वर्णो वर्णान्तरस्यावयव उपपद्यते । हल् चासावन्तश्चेति । कर्मधारयं दर्शयति । निपातनाद्विशेषणस्य परनिपातः । तत्र च कस्यान्तो हलितयपेक्षायामिक इति पञ्चम्यन्तं सन्निहितं षठ।ल्न्तं विपरिणम्यत इत्याह-इगन्तादिति । इकमपेक्षमाणस्याप्यन्तशब्दस्य नित्यसापेक्षत्वात् सूत्रे कर्मधारयः, बहुव्रीहौ तु धातोरन्यपदार्थत्वं नैव सम्भवति, अन्तशब्दो हि नियतदेशमेव समीपमाचष्टे परं नाम, न समीपमात्रम् । न च धातोः परसमीपावस्थिते हलि ततः परः सन्सम्भवति; इकि त्वन्यपदार्थे-यस्येकः परसमीपे हल् न तस्यानन्तरः सू सम्भवतीत्येकेन हला व्यवधाने विज्ञायेतेति धिप्सतीत्यत्र न स्याद् । हलिति जातिग्रहणात् सिद्धावपि प्रतिपतिगौरवप्रसङ्गः । ननु च मा भूदन्तग्रहणम्, ऽहलःऽ इत्येवास्तु, इका हल्विशेष्यते, तेन च धातुः-इकः परो यो हल् तदन्ताद्धातोरिति । न चैवमत्र शङ्कनीयम् - ‘असत्यन्तग्रहणे इग्वतो हलन्तादिति विज्ञायेत, ततश्च यजेः सन् ऽसन्यतःऽ यियक्षते इत्यत्रापि कित्वे सति संप्रसारणं प्राप्नोति’ इति; न हीक्च्छब्दस्य मुख्येऽर्थे सम्भवति तद्वति वृत्तिर्युक्ता, किं च ऽइग्वतःऽ इत्यस्य व्यावर्त्यमपि न सम्भवति । यायज्यतेः सनि यायजिषत इत्यत्र सन्न झलादिः । तस्मादन्तग्रहणं चिन्त्यप्रयोजनम् । इह धीप्सतीति य इक्समीपे हल् नकारो न ततः परः सन्, यतश्च परः सन् भकारात् न स इक्समीप इति कित्वं न स्यादित्यत आह-दम्भेरिति । दम्भेरपि परस्य सनः कित्वं सिद्धम्, कुतः ? हल्ग्रहणस्य जातिवाचकत्वात् । ऽतत्प्रयोजकःऽ इतिवत्समासः । जातिवाची हल्शब्दः, एकैव च जातिर्नकारभकारयोः । व्यक्तिद्वारकं च जातेरिक्समीपत्वं तदपेक्षयात्र सनः परत्वम् । भकारव्यक्तिरिक्समीपे वर्तत इति जातिरपि वर्तते, भकारव्यक्तेः परः सन्निति जातेरपि परः । विपर्ययस्तु सन्नपि शास्त्रेणानाश्रितत्वादकिञ्चित्करः । नकारव्यक्तिरिक्समीपे न वर्तत इति जातिरपि न वर्तते । नकारव्यक्तेः परः सन्न भवतीति जातेरपि परो न भवतीति । धीप्सतीति । ऽदम्भ इच्चऽ कित्वादुपधालोपः ऽएकाचो बशो भष् झषन्तस्य स्ध्वोःऽ इति भष्भावः, द्विर्वचनम्, ऽअत्र लोपोऽभ्यासस्यऽ ॥
Nyaas¶
इक इत्यनुवर्तते। अत्र यदि चान्तशब्दोऽवयववाची स्यादिको हला सह सम्बन्धोन स्यात्, न हीको हलवयवः सम्भवति। यो हि येनारभ्यते, अपृथग्देशभूतः स तस्यावयवो भवति; यथा - पटस्य तन्तव इति। न च हलेगारभ्यते, तस्मान्नायमन्तशब्दोऽवयववाची; अपि तु समीपवचनो युक्त इति मत्वाऽऽह - समीपवचनोऽऽयमन्तशब्दः इति। ननु च धातुरत्र सामर्थ्यादाक्षिप्तः, अत्सतदपेक्षया हलोऽवयवत्वं भविष्यति, नैतदस्ति; एवं तह्र्रन्तशब्दोऽतिरिच्येत, येन विधिस्तदन्तस्य (1.1.730 इत्यनेनैव तदन्तविधेर्लब्धत्वात्। हल् चासावन्तश्चेति विग्रहविशेषेण कर्मधारयत्वं दर्शयति। कस्य पुनरसावन्तः? प्रकृतस्येकः। यद्येवम्, सापेक्षमसमर्थं भवतीतिकमपेक्षमाणस्यान्तशब्दस्य समासो नोपपद्यते, नैष दोषः; अन्तशब्दो ह्यत्र प्रधानः। भवति च प्रधानस्य सापेक्षस्यापि समास #इति द्वितीयेऽध्याये ज्ञापयिष्यति उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (2.1.56) इत्यत्र सामान्याप्रयोगग्रहणेन।इगन्तात्िति। षष्ठीसमासोऽयम्। ननु चेक इति पञ्चम्यन्तं प्रकृतम्, तत् कथं षष्ठीसमासः? नैष दोषः; यद्यपि पञ्चम्यन्तं प्रकृतम्, तथापीह समीपसमीपिसम्बन्धेसति विभक्तिविपरिणामेन षष्ठन्ततामनुभवति - `इकः समीपगतात् इति। इकः समीपवर्तिन इति। बुभुत्सते इति। बुध अवगमने (धातुपाठः-1172), एकाचो बशो भष् (8.2.37) इत्यादिना भष्भावः। एवमुत्तरत्रापि यत्र भष्भावस्तत्रानेनैव बोद्धव्यः। खरि च (8.4.54) इति चर्त्वम् = धकारस्य तकारः। यियक्षते इति। यजेव्र्रश्चादिना (6.1.15) इत्यादिना संप्रसारणं न भवति। यदि समीपवचनोऽमन्तशब्दस्तदा दम्भेः परस्य सनः कित्त्वं न सिध्यति। तथा हि - तस्य य इकः समीप गतो हल् न तस्मात् परः सन्, यस्मात् परः सन् नासाविकः समीपगत इत्यत आह - दम्भेः इत्यादि। हलित्यनेन हल्जातिरुच्यते, न तु व्यक्तिः। तेन यदा ता एव व्यक्तयस्त्यक्तभेदा जातिः इति दर्शनम्; तदा तासां व्यक्तीनां हल्त्वेनाश्रितानां नास्ति व्यवधानम्। अतो यैव हल्जातिरिकः समीपवर्तिनी तत एव परः सन्निति दम्भेर्विहितस्य सनः कित्त्वं सिद्धमेव। यदाप्यर्थान्तरभूता जातिव्र्यक्तिषु प्रत्येकं परिसमाप्ता निरवयवैका, तदापि नास्ति व्यवधानम्; यस्माद्व्यक्तिव्र्यक्त्यन्तरस्य व्यवधायिका भवति, न तु जातेः; तस्या अशरीरिणीत्वात्। तस्मादिहापि दर्शने यैव हल्जातिरिकः समीपगता तत एव परः सन्निति दम्भेः परस्य सनः कित्त्वं भवति। तस्यास्तु व्यक्तिव्यतिरिक्ताया जातेर्यदिकमपेक्ष्य समीपवर्तिनीत्वम्, यच्च तज्जातिमपेक्षमाणस्य सनः परत्वम् - तदुभयं व्यक्तिद्वारकं वेदितव्यम्। तत्र नकारव्यक्तिरिकः समीपगतेति तदाधारा हल्जातिरपीकः समीपगतेति भकारस्य व्यक्तेः परः सन्निति तदाधारभूताया जातेरपि परः सन्, न तु जातेव्र्यक्तिनिरपेक्षं समीपवर्तिनीत्वं सम्भवति। नापि जात्यपेक्षं सनः परत्वम्; तदुभयं व्यक्तिद्वारकं वेदितव्यम्। तत्र नकारव्यक्तिरिकः समीपगतेति तदाधारा हल्जातिपीकः समपीगतेति भकारस्य व्यक्तेः परः सन्निति तदाधारभूताया जातेरपि परः सन, न तु जातेव्र्यक्तिनिरपेक्षं समीपवर्तिनीत्वं सम्भवति नापि जात्यपेक्षं सनः परत्वम्; जातेरशरीरिणीत्वात्। यदि तर्हि व्यक्तिद्वारकमेतदुभयम्? एवं तर्हि विपर्ययोऽपि व्यक्तिद्वारकः स्यात्। भकारव्यक्तिरिकः समीपगता न भवतीति जातिरपि न स्यात्; नकारव्यक्तेः परः सन् न भवतीति जातेरपि न स्यात्, ततश्च हल्ग्रहमस्य सत्यपि जातिवाचकत्वे दम्भेः परस्य सनः कित्त्वं न सिध्यत्येव? नैतदस्ति; यद्यपि जातेव्र्यक्तिद्वारकमिकः समीपवर्तिनीत्वं तद्विपर्ययश्च, सनोऽपि यद्यपि व्यक्तिद्वारकं जात्यपेक्षं परत्वंतद्विपर्ययश्च; तथापि यदत्र हल्त्वसामान्यस्येकः समीपगतत्वं यदपेक्षञ्च सनः परत्वं तदाश्रयं कित्त्वं भविष्यतीति विपर्ययस्तु विद्यमानोऽपि नापेक्ष्यत एव, लक्ष्यानुरोधात्। ननु च हल्त्वं नाम जातिर्नासत्येव, तथा हि - हलिति संज्ञाशब्दः संङ्केतवशादेव प्रवर्तते डित्थादिशब्दवत्। न हि यथा गवादिषु गोत्वादिकं नाम सामान्यमभिन्नमस्ति, तथा हकारादिषु वर्णेषु हल्त्वं नाम सामान्यमभिन्नमस्तीति शक्यमभ्युपगन्तुम्; तन्नबन्धनस्याभावात्। ततश्चायुक्तमुक्तम् - दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्त सिद्धमिति, नैतदस्ति; जातिपदार्थवादिनां मते येऽपि तावदेकवस्त्वभिधायिनः संज्ञाशब्दा देवदत्तादयस्तदर्थानामप्यवस्थाभेदे परिकल्पितानानात्वेन जातिरभ्युपगम्यते, किं पुनर्हलित्येवमादीनामनेकवर्णविषयाणां संज्ञाशब्दानाम !अन्यथा ह्रतिव्यापिनी शब्दार्थस्य व्यवस्था स्यात्। इदञ्च तावद्भवान् प्रष्टव्यः - गवादिषु जातेरस्तित्वस्य किं निबन्धनं येनासौ तत्राभ्युपगम्यत इति? भिन्नेष्वभिन्नाभिधानप्रत्ययाविति चेत्, एतावितरत्रापि समानौ।यथैव हि गवादिषु भिन्नेष्वपि प्राक् सह्केतादुत्तरकालमनुयायिनौ तौ भवतः, तथा हकारादिष्वपि। प्राक् सङ्केताद्यथा तेषु तौ न भवतस्तथा गवादिष्वपि। तस्माद् यौ भिन्नेष्वभिन्नाभिधनाप्रत्ययौ जातिसद्भावसम्प्रत्ययहेतुभूतौ हल्ष्वपि स्त इतितत्रापि हल्त्वं नाम जातिरभ्युपेया, न तु गवादिष्वेव गोत्वादिकमस्तीत्येकान्त एव। धिप्सति, धीप्सति इति। सनीवन्तर्ध (7.2.49) इत्यादिना यत्र पक्ष इण् नास्ति तत्रेदमुदाहरणम्। दम्भ इच्च (7.4.56) इतीत्त्वम्, ईत्त्वञ्च, अत्र लोपोऽभ्यासस्य (7.4.58) इत्यभ्यासलोपः। खरि च (8.4.54) इति चर्तम् = भकारस्य पकारः।कित्त्वे सति अनिदिताम् (6.4.24) इति न लोपः। दकारस्य भष्भावेन धकारः॥
Prakriyasarvasvam¶
इक् समीपाद्धलः परो झलादिः सन् कित् स्यात् । विभित्सति । रुरुत्सति । गुहेः ‘सनि ग्रह-’ (७-२-१२) इत्यनिट्त्वात् । कित्त्वम् । ढत्वभष्त्वकत्वानि । जुघुक्षति । अद् स । ‘लुङ्सनोर्घस्लृ’ (२-४-३७) । ‘सः स्यार्धधातुके’ (७-४-४९) इति तत्वम् । जिघत्सति ।
Sudha¶
हलन्ताच्चेति । **इको झल्**(1.2.9) इति पूर्वसूत्रमनुवर्तते **रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च**(1.2.8) इत्यतः सन्निति, **असंयोगाल्लिट् कित्**(1.2.5) इत्यतः किदिति च । हलिति लुप्तपञ्चमीकं पदम् । अन्तःशब्दः समीपवाची । तदाह - इक्समीपादित्यादि । निविविक्षते । निपूर्वाद्विश् धातोः सनि **हलन्ताच्च**(1.2.10) इति सनः कित्वाद्गुणाभावे द्वित्वे, अभ्यासत्वे, अभ्यासकार्ये, **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः**(8.2.36) इति शस्य षत्वे, षस्य कत्वे, सस्य षत्वे, **सनाद्यन्ता धातवः**(3.1.32) इति धातुत्वाल्लटि, लटः स्थाने **पूर्ववत् सनः**(1.3.62) इत्थात्मनेपदत्वात् ते, शपि, अनुबन्धलोपे, **अतो गुणे**(6.1.97) इति पररूपत्वे, टेरेत्वे च तत्सिद्भिः।
Sutra Prayogas¶
दिदृक्षमाणः (भट्टिकाव्यम्): हलन्ताच्च इति सनः कित्त्वम्।
बुभुत्सवो (भट्टिकाव्यम्): हलन्ताच्च इति कित्त्वम् ।
अयुयुत्सिषता (भट्टिकाव्यम्): हलन्ताच्च इति सनः कित्त्वम्।