12010: हलन्ताच्च ================ **Padacheda:** हलन्तात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- And after a root ending in a consonant and preceded by a vowel of the प्रत्यहार इक् , the affix सन् beginning with a झल् consonant, is like कित् । Vasu English Translation ------------------------ And after a root ending in a consonant and preceded by a vowel of the प्रत्यहार इक् , the affix सन् beginning with a झल् consonant, is like कित् । Thus from भिद् 'to pierce' we have बिभित्सति 'he wishes to break,' here the root भिद् contains the *ik* vowel इ; it ends in a consonant द्; the affix सन् is directly added without taking an intermediate इ, and therefore it fulfils all the conditions of the *sutra*; and the vowel is not *gunated*. If the final consonant of the verb is not preceded by a vowel of the *ik* class, the affix सन् is not *kit* after such a verb. As यज् + सन् + ते = यियक्षते 'wishes to sacrifice.' Had the affix सन् been here a *kit* affix, there would have been *samprasarana* by rule (6.1.16) which declares that there is *samprasarana* of the verbs वच्, स्वप्, and यज् &c., before *kit* affixes. If the *san* takes the intermediate इ and is then no longer a झलादि सन् it is not *kit*; and causes *gunation* etcetera. As वृत् + इ + सन् = विवर्तिषते 'he desires to be.' Here there is *guna* of *ri*. Roots like दम्भ्, तृंह् &c., are governed by this rule, though they end in conjunct consonants, for the word हल् of the *sutra* means *jati* or class; thus दम्भ् + सन् + तिप् = दभ् + सति (6.4.24), the *m* being elided by treating सन् as कित्) = धीप्सति or धिप्सति (7.4.56). Bhashya ------- हलन्ताच्च अयुक्तोऽयं निर्देशः। कथं हि इको नाम हलन्तः स्यादन्यस्यान्यः? कथं तर्हि निर्देशः कर्तव्यः? इग्वतो हलः इति। यद्येवं यियक्षति अत्रापि प्राप्नोति। एवं तर्हि इगुपधाद्धलन्ताद् इति वक्ष्यामि। एवमपि दम्भेर्न प्राप्नोति। सूत्रं च भिद्यते। यथान्यासमेवास्तु। ननु चोक्तम्- अयुक्तोऽयं निर्देशः इति। नायुक्तः। अयमन्तशब्दोऽस्त्येवावयववाची। तद्यथा - वस्त्रान्तः, वसनान्तः इति। वस्त्रावयवो वसनावयव इति गम्यते। अस्ति सामीप्ये वर्तते। तद्यथा - उदकान्तं गतः इति, उदकसमीपं गत इति गम्यते। तद्यः सामीप्ये वर्तते, तस्येदं ग्रहणम्। एवमपि दम्भेर्न सिध्यति। यो ह्यत्रेक्समीपो हल्, न तस्मादुत्तरः सन्, यस्मादुत्तरः सन्, नासाविक्समीपे हल्। एवं तर्हि - दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम्। हल्जातिर्निर्दिश्यते - इक उत्तरा या हल्जातिरिति ॥ हलन्ताच्च ॥ 10 ॥ Kashika ------- इकः सन् झल् किदिति वर्तते। समीपवचनोऽन्तशब्दः। हल् चासावन्तश्च हलन्तः। इगन्ताद् इक्समीपाद् हलः परः सन् झलादिः किद् भवति। बिभित्सति। बुभुत्सते। इक इत्येव — यियक्षते। झलित्येव — विवर्तिषते। दम्भेर्हल्ग्रहणस्य जातिवाचकत्वाद् सिद्धम्। धीप्सति। धिप्सति॥ Siddhanta Kaumudi ----------------- इक्समीपाद्धलः परो झलादि सन् कित्स्यात् । गुहू । जुघुक्षति । बिभित्सति । इकः किम् । यियक्षते । झल्किम् । विवर्धिषते । हल्ग्रहणं जातिपरम् । तृन्हू । तितृक्षति । तितृंहिषति ॥ Laghu Siddhanta Kaumudi ----------------------- इक्समीपाद्धलः परो झलादिः सन् कित्। निविविक्षते॥ Balamanorama ------------ **हलन्ताच्च** - हलन्ताच्च ।इको झ॑लिति पूर्वसूत्रमनुवर्तते ।रुदविदमुषे॑त्यतः सनिति,॒असंयोगाल्लि॑डित्यतः किदिति च ।ह॑लिति लुप्तपञ्चमीकं पदम् । अन्तशब्दः समीपवाची । तदाह — इक्समीपादित्यादि । जुघुक्षतीति । सनः कित्त्वान्न गुणः ।सनि ग्रहगुहोश्चे॑त्यूदित्त्वेऽपि नित्यं नेट् । हस्य ढत्वे भष्भावे कत्वषत्वे इति भावः । बिभित्सतीति । भिदेः सनः कित्त्वान्न गुणः । यियक्षते इति । अत्र हलः इक्समीपत्वाऽभावान्न कित्त्वम् । सति तु कित्त्वे यजेः संप्रसारणं स्यादिति भावः । विवर्धिषते इति । वृधेः सनि रूपम् । अत्र सन इटि झलादित्वं नेति भावः । ननु 'तृंहू हिंसायाम्' तुदादिर्नोपधोऽयम् । कृतानुस्वारस्य निर्देशः । अस्मात्सनःअनिदिता॑मिति नलोपार्थं कित्त्वमिष्यते । तन्नोपपद्यते । न ह्यत्र इक्समीपादनुस्वारात्सन् परो भवति, हकारेण व्यवधानात् । हकारात्तु परः सन् इक्समीपाद्धलः परो न भवति, अनुस्वारेण व्यवधानादित्यत आह — हल्ग्रहमं जातिपरमिति । हल्त्वजात्याक्रान्तैकाऽनेकव्यक्तिपरमित्यर्थः । तृंह्विति । तृंहूधातोः प्रदर्शनामिदम् ।तितृक्षतीति.ऊदित्त्वादिडभावपक्षे रूपम् । सनः कित्त्वान्नलोपः, लघूपधगुणाऽभावश्च । ढत्वकत्वषत्वानि । इट्पक्षे आह — तितृंहिषत#ईति । झलादित्वाऽभावेन कित्त्वाऽभावान्नलोपो नेति भावः । Tattvabodhini ------------- **हलन्ताच्च** - हलन्ताच्च । इगित्यनुर्तते । तदवयवत्वं हलो न संभवतीति समीपवाच्यत्राऽन्तशब्द इत्याशयेन व्याचष्टे - इक्समीपादिति । सौत्रत्वाद्विशेषणस्याऽन्तशब्दस्य परनिपातः । तितृक्षतीति । कित्त्वे सतिअनिदिता॑ मिति नलोपः । Padamanjari ----------- समीपवचनोऽन्तशब्द इति । अवयववचनस्तु न भवति, धातावन्यपदार्थे ऽयेन विधिस्तदन्तस्यऽ इत्येव तदन्तविधेः सिद्धत्वात् । इकस्त्वन्यपदार्थत्वं नैव सम्भवति, न हि वर्णो वर्णान्तरस्यावयव उपपद्यते । हल् चासावन्तश्चेति । कर्मधारयं दर्शयति । निपातनाद्विशेषणस्य परनिपातः । तत्र च कस्यान्तो हलितयपेक्षायामिक इति पञ्चम्यन्तं सन्निहितं षठ।ल्न्तं विपरिणम्यत इत्याह-इगन्तादिति । इकमपेक्षमाणस्याप्यन्तशब्दस्य नित्यसापेक्षत्वात् सूत्रे कर्मधारयः, बहुव्रीहौ तु धातोरन्यपदार्थत्वं नैव सम्भवति, अन्तशब्दो हि नियतदेशमेव समीपमाचष्टे परं नाम, न समीपमात्रम् । न च धातोः परसमीपावस्थिते हलि ततः परः सन्सम्भवति; इकि त्वन्यपदार्थे-यस्येकः परसमीपे हल् न तस्यानन्तरः सू सम्भवतीत्येकेन हला व्यवधाने विज्ञायेतेति धिप्सतीत्यत्र न स्याद् । हलिति जातिग्रहणात् सिद्धावपि प्रतिपतिगौरवप्रसङ्गः । ननु च मा भूदन्तग्रहणम्, ऽहलःऽ इत्येवास्तु, इका हल्विशेष्यते, तेन च धातुः-इकः परो यो हल् तदन्ताद्धातोरिति । न चैवमत्र शङ्कनीयम् - 'असत्यन्तग्रहणे इग्वतो हलन्तादिति विज्ञायेत, ततश्च यजेः सन् ऽसन्यतःऽ यियक्षते इत्यत्रापि कित्वे सति संप्रसारणं प्राप्नोति' इति; न हीक्च्छब्दस्य मुख्येऽर्थे सम्भवति तद्वति वृत्तिर्युक्ता, किं च ऽइग्वतःऽ इत्यस्य व्यावर्त्यमपि न सम्भवति । यायज्यतेः सनि यायजिषत इत्यत्र सन्न झलादिः । तस्मादन्तग्रहणं चिन्त्यप्रयोजनम् । इह धीप्सतीति य इक्समीपे हल् नकारो न ततः परः सन्, यतश्च परः सन् भकारात् न स इक्समीप इति कित्वं न स्यादित्यत आह-दम्भेरिति । दम्भेरपि परस्य सनः कित्वं सिद्धम्, कुतः ? हल्ग्रहणस्य जातिवाचकत्वात् । ऽतत्प्रयोजकःऽ इतिवत्समासः । जातिवाची हल्शब्दः, एकैव च जातिर्नकारभकारयोः । व्यक्तिद्वारकं च जातेरिक्समीपत्वं तदपेक्षयात्र सनः परत्वम् । भकारव्यक्तिरिक्समीपे वर्तत इति जातिरपि वर्तते, भकारव्यक्तेः परः सन्निति जातेरपि परः । विपर्ययस्तु सन्नपि शास्त्रेणानाश्रितत्वादकिञ्चित्करः । नकारव्यक्तिरिक्समीपे न वर्तत इति जातिरपि न वर्तते । नकारव्यक्तेः परः सन्न भवतीति जातेरपि परो न भवतीति । धीप्सतीति । ऽदम्भ इच्चऽ कित्वादुपधालोपः ऽएकाचो बशो भष् झषन्तस्य स्ध्वोःऽ इति भष्भावः, द्विर्वचनम्, ऽअत्र लोपोऽभ्यासस्यऽ ॥ Nyaas ----- इक इत्यनुवर्तते। अत्र यदि चान्तशब्दोऽवयववाची स्यादिको हला सह सम्बन्धोन स्यात्, न हीको हलवयवः सम्भवति। यो हि येनारभ्यते, अपृथग्देशभूतः स तस्यावयवो भवति; यथा - पटस्य तन्तव इति। न च हलेगारभ्यते, तस्मान्नायमन्तशब्दोऽवयववाची; अपि तु समीपवचनो युक्त इति मत्वाऽऽह - `समीपवचनोऽऽयमन्तशब्दः` इति। ननु च धातुरत्र सामर्थ्यादाक्षिप्तः, अत्सतदपेक्षया हलोऽवयवत्वं भविष्यति, नैतदस्ति; एवं तह्र्रन्तशब्दोऽतिरिच्येत, `येन विधिस्तदन्तस्य` (1.1.730 इत्यनेनैव तदन्तविधेर्लब्धत्वात्। हल् चासावन्तश्चेति विग्रहविशेषेण कर्मधारयत्वं दर्शयति। कस्य पुनरसावन्तः? प्रकृतस्येकः। यद्येवम्, सापेक्षमसमर्थं भवतीतिकमपेक्षमाणस्यान्तशब्दस्य समासो नोपपद्यते, नैष दोषः; अन्तशब्दो ह्यत्र प्रधानः। भवति च प्रधानस्य सापेक्षस्यापि समास #इति द्वितीयेऽध्याये ज्ञापयिष्यति **उपमितं व्याघ्रादिभिः सामान्याप्रयोगे** (2.1.56) इत्यत्र सामान्याप्रयोगग्रहणेन।`इगन्तात्िति। षष्ठीसमासोऽयम्। ननु चेक इति पञ्चम्यन्तं प्रकृतम्, तत् कथं षष्ठीसमासः? नैष दोषः; यद्यपि पञ्चम्यन्तं प्रकृतम्, तथापीह समीपसमीपिसम्बन्धेसति विभक्तिविपरिणामेन षष्ठन्ततामनुभवति - `इकः समीपगतात्` इति। इकः समीपवर्तिन इति। `बुभुत्सते` इति। `बुध अवगमने` (धातुपाठः-1172), `एकाचो बशो भष्` (8.2.37) इत्यादिना भष्भावः। एवमुत्तरत्रापि यत्र भष्भावस्तत्रानेनैव बोद्धव्यः। `खरि च` (8.4.54) इति चर्त्वम् = धकारस्य तकारः। `यियक्षते` इति। यजेव्र्रश्चादिना (6.1.15) इत्यादिना संप्रसारणं न भवति। यदि समीपवचनोऽमन्तशब्दस्तदा दम्भेः परस्य सनः कित्त्वं न सिध्यति। तथा हि - तस्य य इकः समीप गतो हल् न तस्मात् परः सन्, यस्मात् परः सन् नासाविकः समीपगत इत्यत आह - `दम्भेः` इत्यादि। हलित्यनेन हल्जातिरुच्यते, न तु व्यक्तिः। तेन यदा `ता एव व्यक्तयस्त्यक्तभेदा जातिः` इति दर्शनम्; तदा तासां व्यक्तीनां हल्त्वेनाश्रितानां नास्ति व्यवधानम्। अतो यैव हल्जातिरिकः समीपवर्तिनी तत एव परः सन्निति दम्भेर्विहितस्य सनः कित्त्वं सिद्धमेव। यदाप्यर्थान्तरभूता जातिव्र्यक्तिषु प्रत्येकं परिसमाप्ता निरवयवैका, तदापि नास्ति व्यवधानम्; यस्माद्व्यक्तिव्र्यक्त्यन्तरस्य व्यवधायिका भवति, न तु जातेः; तस्या अशरीरिणीत्वात्। तस्मादिहापि दर्शने यैव हल्जातिरिकः समीपगता तत एव परः सन्निति दम्भेः परस्य सनः कित्त्वं भवति। तस्यास्तु व्यक्तिव्यतिरिक्ताया जातेर्यदिकमपेक्ष्य समीपवर्तिनीत्वम्, यच्च तज्जातिमपेक्षमाणस्य सनः परत्वम् - तदुभयं व्यक्तिद्वारकं वेदितव्यम्। तत्र नकारव्यक्तिरिकः समीपगतेति तदाधारा हल्जातिरपीकः समीपगतेति भकारस्य व्यक्तेः परः सन्निति तदाधारभूताया जातेरपि परः सन्, न तु जातेव्र्यक्तिनिरपेक्षं समीपवर्तिनीत्वं सम्भवति। नापि जात्यपेक्षं सनः परत्वम्; तदुभयं व्यक्तिद्वारकं वेदितव्यम्। तत्र नकारव्यक्तिरिकः समीपगतेति तदाधारा हल्जातिपीकः समपीगतेति भकारस्य व्यक्तेः परः सन्निति तदाधारभूताया जातेरपि परः सन, न तु जातेव्र्यक्तिनिरपेक्षं समीपवर्तिनीत्वं सम्भवति नापि जात्यपेक्षं सनः परत्वम्; जातेरशरीरिणीत्वात्। यदि तर्हि व्यक्तिद्वारकमेतदुभयम्? एवं तर्हि विपर्ययोऽपि व्यक्तिद्वारकः स्यात्। भकारव्यक्तिरिकः समीपगता न भवतीति जातिरपि न स्यात्; नकारव्यक्तेः परः सन् न भवतीति जातेरपि न स्यात्, ततश्च हल्ग्रहमस्य सत्यपि जातिवाचकत्वे दम्भेः परस्य सनः कित्त्वं न सिध्यत्येव? नैतदस्ति; यद्यपि जातेव्र्यक्तिद्वारकमिकः समीपवर्तिनीत्वं तद्विपर्ययश्च, सनोऽपि यद्यपि व्यक्तिद्वारकं जात्यपेक्षं परत्वंतद्विपर्ययश्च; तथापि यदत्र हल्त्वसामान्यस्येकः समीपगतत्वं यदपेक्षञ्च सनः परत्वं तदाश्रयं कित्त्वं भविष्यतीति विपर्ययस्तु विद्यमानोऽपि नापेक्ष्यत एव, लक्ष्यानुरोधात्। ननु च हल्त्वं नाम जातिर्नासत्येव, तथा हि - हलिति संज्ञाशब्दः संङ्केतवशादेव प्रवर्तते डित्थादिशब्दवत्। न हि यथा गवादिषु गोत्वादिकं नाम सामान्यमभिन्नमस्ति, तथा हकारादिषु वर्णेषु हल्त्वं नाम सामान्यमभिन्नमस्तीति शक्यमभ्युपगन्तुम्; तन्नबन्धनस्याभावात्। ततश्चायुक्तमुक्तम् - दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्त सिद्धमिति, नैतदस्ति; जातिपदार्थवादिनां मते येऽपि तावदेकवस्त्वभिधायिनः संज्ञाशब्दा देवदत्तादयस्तदर्थानामप्यवस्थाभेदे परिकल्पितानानात्वेन जातिरभ्युपगम्यते, किं पुनर्हलित्येवमादीनामनेकवर्णविषयाणां संज्ञाशब्दानाम !अन्यथा ह्रतिव्यापिनी शब्दार्थस्य व्यवस्था स्यात्। इदञ्च तावद्भवान् प्रष्टव्यः - गवादिषु जातेरस्तित्वस्य किं निबन्धनं येनासौ तत्राभ्युपगम्यत इति? भिन्नेष्वभिन्नाभिधानप्रत्ययाविति चेत्, एतावितरत्रापि समानौ।यथैव हि गवादिषु भिन्नेष्वपि प्राक् सह्केतादुत्तरकालमनुयायिनौ तौ भवतः, तथा हकारादिष्वपि। प्राक् सङ्केताद्यथा तेषु तौ न भवतस्तथा गवादिष्वपि। तस्माद् यौ भिन्नेष्वभिन्नाभिधनाप्रत्ययौ जातिसद्भावसम्प्रत्ययहेतुभूतौ हल्ष्वपि स्त इतितत्रापि हल्त्वं नाम जातिरभ्युपेया, न तु गवादिष्वेव गोत्वादिकमस्तीत्येकान्त एव। `धिप्सति, धीप्सति` इति। `सनीवन्तर्ध` (7.2.49) इत्यादिना यत्र पक्ष इण् नास्ति तत्रेदमुदाहरणम्। **दम्भ इच्च** (7.4.56) इतीत्त्वम्, ईत्त्वञ्च, **अत्र लोपोऽभ्यासस्य** (7.4.58) इत्यभ्यासलोपः। `खरि च` (8.4.54) इति चर्तम् = भकारस्य पकारः।कित्त्वे सति `अनिदिताम्` (6.4.24) इति न लोपः। दकारस्य भष्भावेन धकारः॥ Prakriyasarvasvam ----------------- इक् समीपाद्धलः परो झलादिः सन् कित् स्यात् । विभित्सति । रुरुत्सति । गुहेः 'सनि ग्रह-' (७-२-१२) इत्यनिट्त्वात् । कित्त्वम् । ढत्वभष्त्वकत्वानि । जुघुक्षति । अद् स । 'लुङ्सनोर्घस्लृ' (२-४-३७) । 'सः स्यार्धधातुके' (७-४-४९) इति तत्वम् । जिघत्सति । Sudha ----- हलन्ताच्चेति । **इको झल्**(1.2.9) इति पूर्वसूत्रमनुवर्तते **रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च**(1.2.8) इत्यतः सन्निति, **असंयोगाल्लिट् कित्**(1.2.5) इत्यतः किदिति च । हलिति लुप्तपञ्चमीकं पदम् । अन्तःशब्दः समीपवाची । तदाह - इक्समीपादित्यादि । निविविक्षते । निपूर्वाद्विश् धातोः सनि **हलन्ताच्च**(1.2.10) इति सनः कित्वाद्गुणाभावे द्वित्वे, अभ्यासत्वे, अभ्यासकार्ये, **व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः**(8.2.36) इति शस्य षत्वे, षस्य कत्वे, सस्य षत्वे, **सनाद्यन्ता धातवः**(3.1.32) इति धातुत्वाल्लटि, लटः स्थाने **पूर्ववत् सनः**(1.3.62) इत्थात्मनेपदत्वात् ते, शपि, अनुबन्धलोपे, **अतो गुणे**(6.1.97) इति पररूपत्वे, टेरेत्वे च तत्सिद्भिः। Sutra Prayogas -------------- * **दिदृक्षमाणः** (भट्टिकाव्यम्): `हलन्ताच्च` इति सनः कित्त्वम्। * **बुभुत्सवो** (भट्टिकाव्यम्): `हलन्ताच्च` इति कित्त्वम् । * **अयुयुत्सिषता** (भट्टिकाव्यम्): `हलन्ताच्च` इति सनः कित्त्वम्।